SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ mm mm D Ka mum DITIO Tum mom आत्रेयः नाऽसौ श्वेतगिरिः मित्र! सोऽसौ गरुत्मता सर्पभक्षणलालसेन तदनुयायिगृध्रसमूहेन च भुक्तावशिष्टानां नागानामस्थिसञ्चयो गिरिसन्निभः । HIM जीमूतवाहनः अहो दुर्गतिः सर्पाणाम् । तेषामेवंविधो वैशसः सर्वनाशः कथं सञ्जात इत्यवबोद्धं, सकुतूहलोऽस्मि । सर्पाणां घोरसङ्कटं गरुत्मता तदनुयायिभिश्च गृधैः समापादितं मां भृशं दुनोति । नागेभ्यः समापादिताया हिंसायाः स्थगनं न केनापि विहितमिति नूनं चकितोऽस्मि। यदि एकस्याऽपि नागस्य प्राणहानिर्मया परिहियते, हतानां नागानामुज्जीवनं मया कर्तुं पार्यते तहि इदं मे मानुषं जन्म सार्थक्यं भजते नाऽन्यथा। स्वाङ्गानां क्षतिविक्षतिः तन्निमित्ता पीडा दुःखवेदनं च यथा ममाऽप्रियतयाऽनुभूयते, तथैव सर्वेषां जीवजन्तूनां तदप्रियं भवति । यथैव मम जिजीविषा प्राणैरवियुयुक्षाऽस्ति तथैव सर्वजन्तूनां नः सहजीविनाम् । सर्वस्य प्राणिजातस्य ममाऽऽत्मीयबन्धूनां दुःखं दूरीकृत्य तेभ्योऽमितमानन्दं कथं कदा वा संपादयेयमिति चिन्तितोऽस्मि सखे ! अग्रे तावत् केन कदा कथं समेषां नागानामेवंविधा दुर्गतिः सञ्जाता इति जिज्ञासा मामुत्कण्ठयति । II आत्रेयः शृणु सखे ! पुरा अवसन्ने कुरुक्षेत्रयुद्धे परीक्षिन्नाम राजा अनेकसंवत्सराणि राज्यं प्रशशास। कदाचित् मृगयाव्यसनेन काननोद्देशे विहरति तस्मिन् सोऽसौ भृशं क्लान्तः पिपासादितः तत्रैव गोचरिते कुटीरे पेयं जलमयाचत । निर्जने कुटीरे वृद्धतापसं ध्याननिमग्नमवलोक्य मत्तः प्रमत्तः क्रोधावेशेन परिसरे दृष्टं मृतसर्प धनुष्कोणेनोद्धृत्य तस्य वृद्धतापसस्य कण्ठे मालामिव लम्बयित्वा निरगात् । अनतिचिरादेव समिध् आहरन् निवर्तमानो मुनिकुमारः एवमपमानितं स्वपितरमुपलभ्य क्रोधमूर्छितः ‘अद्यप्रभृति सप्तमे दिने mm Lun D mmm पm m Kा 109 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy