SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ कथा एतादृशोऽनुसरणीयः मुनिधर्मकीर्तिविजयः आसीत् 'लेनिन्' नामा 'रुस'जनपदस्य नेता । देशाधिपतिः सन्नपि स निरभिमानी आडम्बरशून्यश्चाऽऽसीत्, तत एव देशस्य सर्वजनानां प्रिय आसीत् । सामान्यजनवदेव तस्य जीवनं सरलमासीत्, तथा सर्वैः सह सौम्यमेव व्यवहारं स कुर्वन्नासीत् । देशनेतुळजेन वसनार्थं तेनाऽनेकेऽपवरकाः प्राप्ताः, परन्तु चत्वारि गृहखण्डानि विना सर्वाण्यपि गृहखण्डानि देशस्य भिन्नकार्यार्थं तेन समर्पितानि। एकदाऽऽगतवानेकः कविः लेनिनस्य गृहे । किन्तु तदा लेनिनो देशस्य हितकारिकार्येषु व्यस्त आसीत् । ततः केनचित् सदस्येन "स तु मध्यरात्र्याः पश्चादागमिष्यती"ति कथितम् । ___एतच्छ्रुत्वा कविरभूदुद्विग्नः । तदा निराशामवाप्य गृहं प्रति गन्तुकामः स कविस्तेन सदस्येन पुनराहूतः, प्रोक्तश्च-भवानस्य गृहस्य कस्मिन्नप्यपवरके आस्ताम् । बहिस्त आगत्य स भवता सह चर्चा करिष्यति ।। एकस्मिन् गृहखण्डे स उपविष्टः । मध्यरात्रिः प्रसृता । प्राय एकवादनसमयेऽतीव परिश्रान्तो लेनिनो गृहमागतः । तेनैष आगन्तुको दृष्टः । त्वरितमेव तेन परिश्रममवगणय्य प्रसन्नीभूय च तस्याऽऽगन्तुकस्य स्वागतं Jain Education International For Private 96 sonal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy