________________
भविष्यति, श्राद्धार्थं च काः काः सामग्र्यः आनेतव्याः-एवं चाऽऽहत्य सहस्ररूप्यकाणां द्विशतस्य वाऽधिकस्य व्ययो भविष्यति' - इति ।
'सत्यम्, सत्यम्, नैष अधिको व्ययः । बहूनि श्राद्धानि मया दृष्टानि । यदि किञ्चिदपि न्यून भविष्यति तर्हि सर्वे वक्ष्यन्ति - नास्तिकोऽयं कृपणोऽयं वेत्यादि' | - एक उक्तवान् ।
तदैव क्षेमः सहसोत्थाय स्नेहं दर्शयन्निवाऽवदत्- मातुल ! मदीयस्य धनस्याऽन्यः कः शोभन उपयोगोऽस्ति ? एतादृशि समये यदि भवते साहाय्यं न करिष्यामि चेत् कदा करिष्यामि ? चिन्ता माऽस्तु, शनैः शनैरेव भवता ऋणं प्रत्यर्पितव्यम्, अधैर्यं न कर्तव्यम् !-इति । तच्छ्रुत्वा - 'अहो ! कीदृश उदारोऽयम्' - एकोऽजल्पत् ।
कीदृशी विनम्रताऽस्य ! - अपरोऽवदत् । एको वृद्धो जन उक्तवान् - 'अस्माकं सर्वेषामस्ति मोहनस्य परिचयः ।। ऋणस्य भारं वोढुं स न प्रभविष्यति - इत्यपि वयं जानीमः । वास्तविकं श्राद्धं तु हृदयेनैव भवति। सपादरूप्यकेणैव वृन्दावने श्राद्धं भवति' - इति ।
किन्तु तस्यैतादृशं सहानुभूतिपूर्णं वचनं सर्वैरपि श्रुतमप्यश्रुतं कृतम् । कश्चिच्च मन्दमुवाच - 'द्वादशवर्षीयस्य ब्राह्मणस्य कृते त्वेतावान् व्ययोऽल्प एव' ।।
__ एतावत्पर्यन्तं मौनं स्थित्वा सर्वं श्रुतवता मोहनेन शिर ऊर्ध्वं कृतम् । तस्य मुखे कठोरताऽऽगता । स उच्चैराक्रोशत- "गच्छन्तु, सर्वेऽपीतो गच्छन्तु । यदा स जीवन्नासीत् तदा तस्य चिकित्सार्थं दातुं शतं रूप्यकाणि कस्याऽपि पार्वे नाऽऽसन् । अधुना यदा स मृतस्तदा सर्वेषां हृदये करुणा उद्गताऽस्ति ! शीघ्रमपसरन्तु सर्वे । कस्याऽपि किमपि प्रयोजनं नास्त्यत्र मम । एकं तुलसीपत्रमेव भगवच्चरणयोः समर्प्य श्राद्धमहं करिष्यामि" - इति । एवमुक्त्वा स उच्चै रोदनमारब्धवान् ।
95
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org