________________
याचसे ? किं न लज्जसे ? मद्गृहे किं धनस्य वृक्षाणि भवन्ति ? - स्वामिन् ! कृपां करोतु । यत्किमपि कृत्वा मम पुत्रस्य प्राणान् रक्षतु । आजीवनं ___भवतो भृत्यो भविष्यामि । एकवारं दयां करोतु । - 'न' इति कथितं मयैकवारं खलु ? किमर्थं वारं वारं वदसि ? न, नैव दद्याम् !
एवं स्पष्टं निर्दयं च निषेधं श्रुत्वा- अथ कोऽपि नास्ति ग्रामे यो मह्यं दद्यात् - इति विचिन्त्य मोहनो हताशो जातः, हृदयं च तस्य भग्नम् । आतुरस्य पुत्रस्य दीनं बुभुक्षापीडितं चिकित्सां विना च शुष्यन्मुखं तस्य स्मृतिपथमागतम् । अतीवदुःखभारात् दीर्घ निःश्वस्य स ततो निर्गतः ।
गृहे स पुत्रस्य समीपे एवोपविशति । तस्य शिरसि रोगाभिभूते च शरीरे सस्नेहं स स्वहस्तं प्रसारयति । अन्यत्किमपि तस्य पार्वे नाऽऽसीत् । एवमेव च विना चिकित्सां पञ्चदशदिनान्तरे पुत्रो मरणं प्राप्तवान् । मोहनः स्वस्य निराधारतां भावयन् सततं रोदिति किन्तु तस्य दुःखपूर्ण हृदयद्रावकं च रोदनं श्रोतुं तं चाऽऽश्वासनं दातुं कोऽपि तत्र नास्ति ।
पञ्च दिनानि व्यतीतानि । द्वादशे दिने श्राद्धं कर्तव्यमिति रीतिः । रात्रौ सर्वेऽपि ज्ञातिजनाः सम्बन्धिनश्च तस्य गृहे एकत्र भूताः । मोहनोऽद्य सर्वेषां सहानुभूतेः पात्रमभवत् । सर्वेऽपि प्रतीक्षमाणा उपविष्टा आसन् यद् यदि स रुद्यात् तर्हि वयं सान्त्वनं दास्यामः इति । किन्तु मोहनस्तु जान्वोर्मध्ये शिरोऽवनमय्य किमप्यवदन् शून्यमनस्क उपविष्ट आसीत् । अतः शनैः शनैः सर्वेषां ध्यानं श्राद्धवार्तायां प्रवृत्तम् ।
श्राद्धे किं किं करणीयं किं किं चाऽऽवश्यकमित्यस्य सूचिरेकेन दर्शिता । अपरेण च तत्र सम्भवितो धनव्ययः प्रदर्शितः - 'तत्र के-के आहूतव्याः, कस्मै कस्मै कियत् कियत् देयम्, आगन्तुकानां भोजनमपि भविष्यति तत्र इयान् व्ययः
94 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org