SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ दृष्ट्वा प्रसन्नतां प्राप्नुतः स्म। एवं च सुखेन दिनानि व्यतियन्ति स्म । किन्तु सर्वं सुखं सुखेन प्रवर्ततामिति विधिः सर्वदा न स्वीकरोति । एवमेव च विधिना पुत्रः कदाचिद् रोगग्रस्तो जातः । कतिचिद् दिनानि व्यतीतानि किन्तु रोगस्तस्योपशान्तो नाऽभवत् । गच्छद्भिर्दिनैः सह स कृशतामपि प्राप्नोति स्म सततम् । चिन्तातुरस्तस्य पिता किमपि कर्तुं न प्रभवति स्म । यत्र पुत्रस्योदरपूरणार्थं पर्याप्तं धान्यमपि तत्पाद्यं नास्ति तत्रौषधोपचारस्य का वार्ता ? शून्यमनस्को जातः सः । क्षेम इति नामा भागिनेय एकस्तस्य स्मृतिपथमागतवान् । एकस्मिन् दिने तस्य गृहं गत्वा स औषधोपचारार्थमृणं याचितवान् । किन्तु तं दृष्ट्वा तत्स्थिति च स्मृत्वा स ऋणार्पणं निषिद्धवान् । आर्द्रभावेन बहुवारं याचिते सत्यपि स तस्मै किमपि न दत्तवान्। व्यतीतानि पञ्च दिनानि । मोहनः किमपि न भुक्तवानासीत् । पुत्रस्य चिन्ता एव तं भृशं सततं च पीडयन्ती आसीत् । स पुत्रस्तस्यैक एवाऽऽधार आसीत् । अतस्तस्य चिकित्सार्थमृणं प्राप्तुं स स्वजनानां ज्ञातिजनानां सम्बन्धिनां च सर्वेषां गृहं गतवान् किन्तु नैराश्यं विना किमपि स न लब्धवान् । तं तत्स्थितिं च दृष्ट्वा कस्याऽपि हृदये दया नोत्पन्ना । अन्ततो गत्वा स महाजनसमक्षमुपस्थितवान् । किन्तु तं दृष्ट्वा तु प्रत्युत महाजन एवोपालम्भं दत्तवान्-कथं कार्यार्थं नाऽऽगच्छसि रे !? - मम पुत्रो रोगग्रस्तोऽस्ति । तस्य परिचर्यार्थं गृहे कोऽपि नास्ति । - स उक्तवान् । - यदि कार्यं न करिष्यसि तर्हि किं भक्षयिष्यसि ? - तात ! कृपया शतं रूप्यकाणि ददातु । मम पुत्रस्य प्राणा रक्षिता भविष्यन्ति । - किम् ? किम् ? अद्यपर्यन्तं तु पूर्वमृणमपि न प्रत्यर्पितं त्वया नवं च ऋणं MARCH Jain Education International For Private & Ronal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy