________________
कथा
Jain Education International
अहो ! बन्धूनां सहृदयता !
मुनिरत्नकीर्तिविजयः
पुत्रः पाकं सज्जीकुर्वन्नासीत् । वारं वारं फूत्कारं कुर्वति सत्यपि चुल्ल्यां स्थितानि काष्ठानि न ज्वलन्ति स्म । स स्वगतमुक्तवान् 'एतानि कीदृशान्यार्द्राणि सन्ति, महति श्रमेऽपि न ज्वलन्त्येव ?” एवं विचार्य पुनरेकवारमुच्चैः सशब्दं फूत्कृतवान् । तत्फूत्कारेण च काष्ठानि प्रज्वलितानि । तज्ज्वालायां च तस्य मुखमपि प्रकाशितमभवत् ।
सर्वामपि तस्य क्रियामेकस्मिन् भग्नपल्यङ्के उपविष्टः पिता पश्यन्नासीत् । तस्मिन् गृहे तौ द्वावेव वसतः स्म । पिता मोहन: श्रमिक आसीत् । ततः प्राप्तेन वेतनेन तौ कथमप्याजीविकां निर्वहतः स्म । गृहमपि जीर्णप्रायमासीत् । गृहस्योपरितनभागाज्जलमपि स्रवति स्म ।
'पितः ! श्वो व्रीहीन् कुत आनेष्यावः ? विक्रयिकोऽपि ऋणेन सम्प्रति दातुं निषिध्यति' पाकं कुर्वन् पुत्र उक्तवान् ।
किन्तु पिता कथं तस्योत्तरं दातुं शक्नुयात् ! सोऽपि किमपि न जानाति क्षणं विचार्य स उक्तवान्- 'वत्स ! एवं कुरु यत् श्वस्तस्त्वमपि मया सह कार्यार्थमागच्छ ।'
-
पितुर्वचनमङ्गीकृतवान् पुत्रः । द्वितीयदिनादारभ्य तौ द्वावपि कार्यार्थं गन्तुं प्रवृत्तौ । एवं चोभाभ्यामपि प्राप्यमाणेन वेतनेन प्रथमं तूदरभरं भोजनं प्राप्तुमशक्नुताम् । कदाचिच्चाऽपरदिनार्थं भोजनं धान्यं वाऽवशिष्यात् तदा तद्
92
For Private & Personal Use Only
www.jainelibrary.org