SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ कथा Jain Education International अहो ! बन्धूनां सहृदयता ! मुनिरत्नकीर्तिविजयः पुत्रः पाकं सज्जीकुर्वन्नासीत् । वारं वारं फूत्कारं कुर्वति सत्यपि चुल्ल्यां स्थितानि काष्ठानि न ज्वलन्ति स्म । स स्वगतमुक्तवान् 'एतानि कीदृशान्यार्द्राणि सन्ति, महति श्रमेऽपि न ज्वलन्त्येव ?” एवं विचार्य पुनरेकवारमुच्चैः सशब्दं फूत्कृतवान् । तत्फूत्कारेण च काष्ठानि प्रज्वलितानि । तज्ज्वालायां च तस्य मुखमपि प्रकाशितमभवत् । सर्वामपि तस्य क्रियामेकस्मिन् भग्नपल्यङ्के उपविष्टः पिता पश्यन्नासीत् । तस्मिन् गृहे तौ द्वावेव वसतः स्म । पिता मोहन: श्रमिक आसीत् । ततः प्राप्तेन वेतनेन तौ कथमप्याजीविकां निर्वहतः स्म । गृहमपि जीर्णप्रायमासीत् । गृहस्योपरितनभागाज्जलमपि स्रवति स्म । 'पितः ! श्वो व्रीहीन् कुत आनेष्यावः ? विक्रयिकोऽपि ऋणेन सम्प्रति दातुं निषिध्यति' पाकं कुर्वन् पुत्र उक्तवान् । किन्तु पिता कथं तस्योत्तरं दातुं शक्नुयात् ! सोऽपि किमपि न जानाति क्षणं विचार्य स उक्तवान्- 'वत्स ! एवं कुरु यत् श्वस्तस्त्वमपि मया सह कार्यार्थमागच्छ ।' - पितुर्वचनमङ्गीकृतवान् पुत्रः । द्वितीयदिनादारभ्य तौ द्वावपि कार्यार्थं गन्तुं प्रवृत्तौ । एवं चोभाभ्यामपि प्राप्यमाणेन वेतनेन प्रथमं तूदरभरं भोजनं प्राप्तुमशक्नुताम् । कदाचिच्चाऽपरदिनार्थं भोजनं धान्यं वाऽवशिष्यात् तदा तद् 92 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy