________________
कथा
शठे शाठ्यं समाचरेत्
विजयसूर्योदयसूरिः आसीदेको वञ्चकः । चौर्यवृत्तिना स जीवति स्म । स मनस्येवंविधमभिमानं दधाति स्म "यदखिलं जगत् वञ्चयामि, किन्तु न मां कोऽपि वञ्चयितुं समर्थ" इति।
एकदा स कस्यचिदपि ग्रामस्य सीम्नो निर्गच्छन्नासीत् । सीम्नि चैकः कूपोऽप्यासीत् । तन्मुखस्योपर्युपविश्यैको बालको रुदन्नासीत् ।
वञ्चकेन पृष्टम्- "भोः ! किमर्थं रोदिषि ?" इति ।।
बालकेन कथितम्- "मम रजतपात्रमस्मिन् कूपे पतितमतो मे पिता मां ताडयिष्यती" ति ।
"मा चिन्तां कुरु, अहमेव निष्कास्य दास्यामी"ति कथयित्वा दयया स वञ्चको वस्त्राण्युत्तार्य स्वां पोट्टलिकां च कूपकण्ठे मुक्त्वा कूपेऽवातरत् । सम्पूर्ण कूपतलमीक्षितं तेन, किन्तु नाऽऽप्तवान् वञ्चको रजतपात्रम् । पुनरीक्षितम् तेन । श्रान्तेन तेनोच्चैःस्वरेण पूत्कृत्य पृष्टम्-“भो ! बालक ! कुत्राऽस्ति ते रजतपात्रम्"। प्रत्युत्तरो न लब्धः । पुनरपि पूत्कृतम् । किन्तु प्रत्युत्तरं नाऽलभत । ___ततः कूपान्निर्गत्याऽपश्यत्, किन्तु न बालकः, न वस्त्रम्, न पोट्टलिका चेति न किमपि तत्राऽऽसीत् । तदा स स्वगतमुक्तवान्- "जगद्वञ्चकोऽपि वञ्चितोऽनेन बालकमात्रेणे" ति ।
MARITRAATHMousam
91
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org