SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ कथा वणिम्बुद्धिः * विजयसूर्योदयसूरिः द्वौ भिक्षुकौ आस्ताम् । एकः संन्यासी, द्वितीयस्तु द्विजः । एतौ द्वावपि भिक्षयाऽऽजीविकां कुर्वतः स्म । एकदैकस्य यजमानस्य गृहेऽकस्माद् द्वावपि मिलितौ । यजमानस्य गृहे तस्मिन् दिने इक्षूणां दण्डान्यागतान्यासन् । तत एकं दण्डं द्वाभ्यामार्पयत् स यजमान: । स दण्ड: पश्चाद्भागे कृशो, मध्यमे च भागे स्थूल आसीत् । अत: कया रीत्या विभज्य गृहणीयावेति संजातो विचारः । तदैव नन्दनामा वणिक आगतः । द्वाभ्यां इक्षुदण्डं तस्मै दत्त्वा गदितम् - विभज्याऽऽवाभ्यां देहि । तदा वणिकेन किञ्चिन्मनसि विचार्य प्रोक्तम् - शास्त्रे कथितमस्ति यत् - " अग्रे अग्रे विप्रा: "; इत्युक्त्वा इक्षुदण्डस्याऽग्रभागं ब्राह्मणायाऽदात्, ब्राह्मणेनाऽपि स गृहीतः । तदनन्तरं च "जटिलो योगी" ति शास्त्रवचनमुक्त्वा मूलं च सन्यासिने प्रदत्तम् । पश्चात् " मध्यो यः कन्दः, स गृह्णाति नन्दः" इत्युक्त्वा स - रसं मध्यभागं स्वयं गृहीत्वा गतवान् । * एता: कथा: पूज्याचार्यश्रीविजयसूर्योदयसूरिमहाराजैः स्वविद्यार्थिकाले लिखिताः आसन् । Jain Education International 90 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy