SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ - सम्प्रति श्रीपरकालस्वामिभि-रायैराश्चर्यकरतपश्चर्यैः । सानुग्रहमर्पितया पत्रिकया वाक्क्रतुप्रबोधिन्या ॥२२॥ पापिनि कलावपि युगे विधित्सतोः कर्म किमपि कार्तयुगम् । युवयोर्हि साहसिक्यं ग्राहं ग्राहं प्रहृष्यामः ॥२३॥ इदमेव हि जन्मफलं प्राणफलं वा धनर्धिफलमथवा । पुंसां स्वदेवताभि-र्यद्धरिराराध्यते द्विजैरसार्धम् ॥२४॥ तद् युवयोस्सत्कुलयो-रन्वयभाजां पुराणपुरुषाणाम् । वक्तुं सुचरितनिचयं कस्य न जिहेति जिद्वैव ॥२५॥ तत्राऽनाहूतैर-प्यस्माभिर्गन्तुमरित हि न्यायः । किं पुनरेतादृशि वां प्रणये विनयेन सारमये ॥२६॥ किन्तु चिरापरिशीलित-दूरपथैः स्थीयते यदस्माभिः । अत्रैव तद्धि सत्यं काष्ठप्रायेण कायमात्रेण ॥२७॥ साकं समस्तभावै-श्चेतोभिस्तु प्रयातमेव जवात् । तस्मात् किं नः क्षुण्णात् कथिता खलु भावनाऽपि फलदात्री ॥२८॥ प्रारिप्सिलवागध्वर-रम्यावभृतोत्सवप्रवृत्तीनाम् । श्रवणसुखाय द्राक् पुन-रेको लेखो विलेखनीयः स्यात् ॥२९॥ स्वत एव सर्वविदुषो-स्सद्गुरुचरणाजसेवया च चिरम् । व्यपगतदुश्शङ्कितयोः किं परमाशासास्यमस्तु तदपीदम् ॥३०॥ 88 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy