SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ न केवलं लोकदृष्ट्या किन्तु शुभाशयेन गुणग्राहिस्वभावतया च । अत एव च परसत्कृत्यानां प्रशंसां श्रुत्वा स न कदापि ज्वलनमनुभवति किन्त्वानन्दमेवाऽनुभवति । एतादृशो जनो गम्भीरो धीरश्च भवति । स गम्भीरो भवति न गूढः, स धीरो भवति न भीतः । सत्प्रवृत्तिषु स्वस्य परस्य चाऽपि क्षतिं सोढुं तस्य गाम्भीर्यं यथाऽस्ति तथाऽसत्प्रवृत्तीनां निषेधे धैर्यमपि तस्य अस्ति । (३) पापजुगुप्सा धर्मपापयोर्मध्ये सूर्यान्धकारयोरिव सम्बन्धोऽस्ति । एकस्याs - स्तित्वेऽपरं न तिष्ठत्येव । धर्मो यत्रोदितः सिद्धश्च जातस्तत्र कथं नाम पापं पापवृत्तिर्वा स्थातुमलं भवेत् ? धर्मस्य कर्ता केनाऽपि रूपेण पापं नाऽनुमन्यते कदापि । पापं प्रति जुगुप्सा तस्य हृदये उत्पद्यत एव । पश्चाच्च तस्य वृत्तितः प्रवृत्तितो विचारतश्चाऽपि पापं शनैः शनै: निवर्तते । स्वस्य लाभाय यज्जायेत तत्सर्वं कर्तव्यरूपं सद् वा स्यात्, तदेव तादृशमेव वा कार्यं यदि परः करोति तदा तु तदसदेव - इति तस्य गणना न भवत्येव । यत्पापरूपमकर्तव्यं च तत्पापरूपमकर्तव्यमेव भवति । स पापं पापत्वेनैव पश्यति स्वीकरोति च तत्स्वकृतं वा स्यात् परकृतं वा । न कदापि तत्प्रवृत्तौ स मुदमाप्नोति । कदाचिदनिवार्यरूपेण यदि तादृशं किमपि स्वल्पमपि करणीयं स्यात् तर्हि तदर्थं हृदयेस दुःखमनुभवति यत्- 'कदाऽहमेतस्मात् मुक्तो भविष्यामि ?' इति । धर्मं कुर्वन् सन्नपि हृदये पापभयं पापजुगुप्सा वा नोद्भवेत्असम्भवमेतद्। एतत्तु तदैव शक्यं यदा कदाचित् धर्मं सम्यगनवबुद्ध्यैव कोऽपि धर्मं करोति अथवा किमपि स्वार्थं पुरस्कृत्य वा धर्मं करोति । Jain Education International 47 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy