________________
गुणिजनास्तान् तेषां गुणप्रशंसनरूपेण प्रमोदभावेन स्वीकरोति, ये च मा दुःखिता दरिद्राः पीडिता वा तान् तदुःखनिवारणोपायचिन्तनरूपेण करुणाभावेनाऽङ्गीकरोति, ये च दोषयुक्ता जनाः स्वकीयान् दोषांन् स्वभाववशात् कर्मवशाच्च त्यक्तुं न प्रभवन्ति तेष्वपि द्वेषमनाप्य - 'भवतु नाम, एतेऽपि कालेन गुणिनो भविष्यन्त्येव' - इति माध्यस्थ्यभावेन तान् स्वकीयान् करोति । सर्वेषां हितं कल्याणमेव वा स सततमभिलषति । तस्य मैत्री स्वार्थरहिता भवति, प्रमोद ईर्ष्याशून्यो भवति, करुणाऽहंकाररहिता भवति माध्यस्थ्यं च तिरस्कारमुक्तं भवति । निरपेक्षमेव केवलमौदार्यं तस्य हृदये विलसति ।
स कस्मैचित् किञ्चिदपि ददाति चेदपि प्रत्युपकारमनपेक्ष्यैव और ददाति । दानं यदा स्वभावो भवति तदैव तदौदार्यमित्युच्यते । औदार्येण सहौचित्यमपि स रक्षति । मातापितृ-गुरु-कलाचार्य-वृद्धादिगुरुजनानां पर कार्येषु तस्य कर्तव्यबुद्धिरेव स्यात् न तूपकारबुद्धिरिति तत्रौचित्यम्, दीनानाथदरिद्रादिभ्यो दाने च तिरस्कारवृत्तेरभाव एवौचित्यम् । औचित्यपूर्वकमेवौदार्यं गुणत्वं बिभर्ति, अन्यथाऽहङ्कारं जनयति । (२) दाक्षिण्यम्
'दक्षिणोऽनुकूलस्तद्भावः दाक्षिण्यम्' । धर्मजन्यमेतद् दाक्षिण्यमस्ति न व्यवहारजन्यम् । व्यावहारिके दाक्षिण्ये कदाचित् सदसद्विवेकवैकल्यं दृश्यते । लज्जाऽपि तत्र दाक्षिण्यस्य पर्यायरूपा भवति । तादृशं च का दाक्षिण्यं कदाचिदसत्कार्येऽपि प्रवर्तयति । किन्तु धर्मजन्यं दाक्षिण्यं तु र सदसद्विवेकयुक्तमेव भवति । सत्प्रवृत्तिष्वेव तस्य रुचिः प्रवर्तते प्रवर्धते च । कस्याऽपि सत्प्रवृत्तिं सत्कार्यं वा श्रुत्वा स तत्रोत्साहितो भवति,
46 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org