SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ - Sote धर्मोऽयं साधयितव्यः सिद्धश्च कर्तव्यः । धर्मे ईयत्ताया नास्ति किमपि महत्त्वम्, गुणवत्तैवाऽत्रेष्टव्या इष्टा च । किन्त्वद्येयत्ताया एव प्रभावः सर्वत्र दरीदृश्यते । यस्मिन् कस्मिंश्चिदपि कार्ये इयान् इयान् इयान् - इत्येव वाक्कोलाहलः श्रूयते । सर्वत्र सङ्ख्ययैव धर्मस्य साफल्यं गण्यते । सिद्धिरपि धर्मस्य तयैव मीयते । 'एष परमधार्मिकः, अर कथम् ? यतोऽनेनेयती इयती धर्मक्रिया कृता, इयत्तप आचरितम्, इयान् धनव्ययः कृतः - इत्यादि ।' किन्तु यस्य कस्यचिदपि मनुष्यस्य धर्मसिद्धिर्जाता न वा - इत्यत्र सत्पुरुषा एव प्रमाणम् । अत्र श्लोके श्रीहरिभद्रसूरिभगवद्भिर्धर्मसिद्धेलिङ्गानि सम्यग् वर्णितानि सन्ति । यस्य हृदये जीवने वा धर्मः सिद्धो जातः स कीदृशो और भवति-इत्यस्य प्रमाणानि एतानि । एतादृग्भिर्लक्षणैरेव ज्ञातुं शक्यते । यद् धर्मोऽस्य जीवने सिद्धो जातो न वा, नाऽन्यथा । एकैकं पश्यामः। (१) औदार्यम् यो धर्ममाचरति स कदापि सङ्कचितहृदयो भवितुं नाऽर्हति । धर्म औदार्यं प्रकटयत्येव । धर्मो यत्र परिणतो जातस्तस्य हृदयं विशालं व्यापकं च भवति । यः सर्वान् स्वस्मिन् समावेष्टुं न प्रभवति तं कथं का नाम धर्मत्वेन वक्तुं शक्यते ? भिन्नभिन्नस्वभावान् जीवानाश्रित्य भिन्नभिन्नप्रकारो व्यवहारोऽभिप्रेत एव धर्मे, न किन्तु दुर्व्यवहारो व्यवहाराभावो वा कुत्राऽप्यभिप्रेतः । यो धर्मं साधयति स सर्वान् स्वीकरोत्येव, कांश्चित् मैत्रीभावेन कांश्चित् प्रमोदभावेन कांश्चित् करुणाभावेन कांश्चिच्च माध्यस्थ्यभावेन । सर्वानपि जीवान् स तेषां जोर हितचिन्तनरूपेण मैत्रीभावेन स्वकीयान् करोति, तत्राऽपि ये काम 45 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy