SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अन्यथा पापजुगुप्सा त्ववश्यंभाविन्येवाऽस्ति । सूर्यो नामैव प्रकाशः, कथं तस्मिन्नुदिते सत्यन्धकारः स्थातुमलं भवेत् ? यथैतन्न सम्भवति तथैव धर्मे उदिते सति चित्ते पापमपि स्थातुं न प्रभवति एव। धर्मो यस्य हृदये उदितस्तस्य हृदये पूर्वकृतानां पापानां पश्चात्तापः प्रवर्तते, वर्तमानकाले क्रियमाणानां पापानां स संवरणं करोति तथा भविष्यत्काले करिष्यमाणानां पापानामकरणप्रतिज्ञामपि स करोति । धर्मसिद्धे- र रेतत्फलमस्ति। (४) निर्मलो बोधः यथा यथा धर्मस्याऽऽचरणं भवति तथा तथा हृदयं निर्मलं भवति, अन्तःस्थं ज्ञानज्योतिः प्रकाशितं भवति, बोधश्च निर्मलो भवति, यतस्तस्य और धर्मस्य मूलमस्ति सम्यग्ज्ञानम् । ज्ञानपूर्वकः कृतो धर्म एव समीचीनो भवति । किं सत् किमसत् ?, किं कर्तव्यं किमकर्तव्यम् ?, किं मम परकीयं च किम् ?, आत्मा कीदृशो देहः कीदृशः ?, संसारः कीदृशः तत्सम्बन्धाश्च कीदृशाः ? - एतादृशः सर्वोऽपि तस्य बोधः स्पष्टो भवति, विवेकश्च चित्ते जागर्ति । यथा यथा च बोधस्तस्य निर्मलो निर्मलतरो वा भवति तथा तथा सङ्क्लेशा हीयन्ते उद्वेगा: क्षीयन्ते चित्तं च शान्तं प्रशान्तं गम्भीरमुदारं च भवति । एतादृशं क्लेशविमुक्तं जीवनमेव किं धर्मस्य वास्तवं फलं नास्ति खलु ? (५) जनप्रियत्वम् यः सम्यग् धर्ममाचरति स जनप्रियो भवत्येवेत्यत्र नास्ति कोऽपि न संशयः । एतादृशं गुणिनं धार्मिकं जनास्तु प्रशंसन्त्येव किन्तु तत्सार्धमेव धर्ममपि प्रशंसन्ति धर्मं प्रति च रुचिमन्तश्चाऽपि ते भवन्ति । एवं च 48 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy