SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ - SE TEAM "यस्मिन् सर्वाणि भूतानि आत्मैवाऽभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥" ई.३.७ ।। तथा च भगवद्गीतायां "सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।" गी. ६-२९ "आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ! । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥" गी. ६-३२ "समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम् ॥" गी.१३-२८ "यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥" गी.१३-३० ___ आत्मीयतायां सत्यां आत्मौपम्ये सिद्ध एव यथा क्षमा प्रेम सौहार्द मैत्री च संतिष्ठन्ते तथैव तेनैव अन्योन्यव्यवहारे सत्यसन्धता अर्थात् आर्जवं, अन्योन्यं विश्वासः, अजिज़, अकुटिलता च स्थिरीभवन्ति । यत्र कुटम्बसदस्येषु अन्योऽन्यं आत्मीयता, आत्मौपम्यं वर्तते तत्र क्षमा, प्रेम, आर्जवं, सत्यसन्धता च सहजं संजायन्ते । एवं समस्ते न केवलं मानवसमुदाये, अपि तु पशुपक्षिजाते अपि आत्मीयता, आत्मौपम्यं इत्यादिकं अप्रयत्नेन सहजतया समुल्लसन्ति । तेऽपि नः सहजीविनो भूत्वा तेष्वपि नः क्षमा, दया, सौहार्द, सद्भावना च सञ्जायन्ते। __ अनेन अहिंसातत्त्वविचारोऽवसितः । इदानीं प्रकृतमहिंसाया अनुष्ठानम् । तस्याः प्रायोगिकतां विचारयामः । द 2. 58 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy