________________
हिसाताण्डवस्य अवलो
T
अहिंसायाः अनुष्ठानं प्रायोगिकता च
प्रथमं परधर्मद्वेषस्य तत्कृतस्य च हिंसाताण्डवस्य अवलोकनं । तावत्कुर्मः । अरब्बीप्रवाद्यनुयायिनां मन्तव्ये ईश्वरः खुदेति कथितः स्वकल्पितो व्यक्तिरूपेश्वरः । अत एव देशकालपरिच्छिन्नः मर्त्यस्वभावः स एव नैजो देवः । अन्यधर्मेष्वाराधिता देवाः तुच्छा: हीनाः । महम्मदीयान् विहाय परधर्मीयाः सर्वे काफिराः (Infidel) येषांक समूलविनाशः न केवलं नैव पापकृत्यं, नैव दोषाय, अपि तु तेषां महम्मदीयजनाङ्गस्य आद्यं कर्तव्यमेव । सोऽयमन्यधर्मीयाणां व्यवस्थितनिर्मूलनं 'जेहाद्' इति कथितं, यत् बाबरुप्रभृति औरङ्गजेब्पर्यन्तं विजृम्भितं, यच्च अद्याऽपि भारतस्य वायव्यभागे (ईशान्ये च क्रैस्तवानुयायिसमेधितं)-उग्रगामिकृतं विजृम्भते, एकान्तेन हिन्दुमन्दिराणां लुण्ठनं, बलात्कारेण मतान्तरणं, असम्मते मतान्तरणे मरणदण्डनंसर्वमेतत् ऐतिहासिकं कटुसत्यं सर्वविदितं वर्तते ।
किञ्च महम्मदीयानां मते केवलं मनुष्यस्यैव आत्मा (Soul) अस्ति । पशुपक्षिणां तावद् आत्मा नास्ति, ते च पशुपक्षिणः सृष्टिकृता करुणामयेन मानवानां आहारार्थमेव, निहत्य भक्षणार्थमेव सृष्टा भवन्ति।। संवत्सरे एकस्मिन् पर्वदिने समेतां मूकप्राणिनां गो-अजाव्यादीनां मूकप्राणिनां सहस्रशः सामूहिकं निर्दयं हननमाकण्ठं च भक्षणं प्रचलति। मनुष्याणामात्मास्तित्वस्य तथा पशुपक्षिणामात्मराहित्यविषये क्रैस्तवजनाङ्गस्य महम्मदीयानाञ्च सहमतिरस्ति । अस्मिन् विषये प्रमाणनिरूपणं बैबल्-धर्मग्रन्थे पश्यामः । कदाचिद् ईसुप्रभुः सूकरसमुदायस्यैकस्य पैशाचत्वारोपणेन सामूहिकहत्यां व्यदधात् । नूनमिदं दारुणो निर्दयः पशुमेधः सर्वथाऽसमर्थनीयः सन् प्रातिवेश्मिकस्या-ऽप्यात्मवत् प्रियदर्शनं (Love thy neighbour as thyself) नैव भवितुमर्हति ।
प्रियदर्शन
59 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org