________________
।
(Indeed a montsrous, cruel act of ordering the killing out of those dumb creatives, our fellow beings, quite unbecoming of the apostle of love).
अत्र वैज्ञानिक तथ्यं किमिति जानथ ? वस्तुतः तेषामपि पशुपक्षिणामपि आत्मा मनुष्याणामिव समान एवाऽस्ति । अस्माकमिव इन्द्रियविषयोपभोगः, सुखदुःखानुभवः, मोहशोकादिवेदनाश्च तेषां समानैव । केवलं तेषां वैशिष्ट्यं, न्यूनता च मनुष्याणामपेक्षया इयमस्ति यद् यद्यपि ते इन्द्रियार्थान् भुञ्जते सुखदुःखादिवेदनाश्चाऽनुभवन्ति तथापि 'अहं अस्य प्रमाता भोक्ता कर्ता' इत्येवंप्रकारं विवेचनं आत्मप्रज्ञा अहंबोधश्च (Self-Awareness) तेषां नास्ति । नूनं बुद्धिसामर्थ्य, ग्रहणस्मरण-भावन-योजन-भाविकल्पनादिचित्प्रवृत्तिषु, सौहार्द-मैत्रीसहानुभूति-कृतज्ञतादिविषयेषु ते पशुपक्षिणो मनुष्यानप्यतिशेरते । अत्र प्रसङ्गमेकमुदाहरामः । __ पूर्वं रोम्चक्राधिपत्ये आण्ड्रोक्लिस नामको युवा दास (Slave) आसीत् । एकदा राज्ञो रञ्जनाय आयोजितायां क्रीडायां सिंहेन सह योद्धं स: सिंहावरोधे प्रक्षिप्तः । तत्र युध्यता सिंहेन प्रेमवात्सल्येन स समालिङ्गितः । तेन सिंहेन सह मोदमानं नृत्यन्तं आण्ड्रोक्लिसं वीक्ष्य प्रेक्षकवृन्दं विस्मयमूकं स्तब्धं चाऽभवत् । पूर्वं कदाचित् आफ्रिकीये कस्मिन्श्चिदरण्ये विहरता आण्ड्रोक्लिसेन सिंह एकोऽनतिदूरे पादतले कण्टकविद्धो यातनया दूयमानोऽवलोकितः । सहजानुकम्पया स सिंह मंदं मंदमुपसृत्य पादतलवेधकं कण्टकं विकृश्य च विमोचयामासः । स च सिंह: कञ्चित् स्वोद्देशं पलायितः । अयमेव केसरी यः काकतालीयेन राजभटैः आण्ड्रोक्लिसेन दासेन सह राज्ञो मनोरञ्जनाय यो मरण्यादानीत आसीत् । राज्ञा अभिनन्दिताय आण्ड्रोक्लिसाय
C
.
..
60 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org