________________
स
स्थितोऽध्यापकं प्रत्यवक्, यतो हि 'नाऽहं सर्वज्ञः, अल्पश्रुतोऽह'मिति वास्तवं यथार्थमेव आर्जवेण मया निवेदितं शिक्षणाधिकारिणे, तेन प्रथमः पाठः अर्थात् सत्यसन्धता आर्जवं च मया सुष्ठु शिक्षिते इत्यवदम् । द्वितीयस्तु पाठः योऽद्याऽप्यपूर्णः शिक्षितस्तिष्ठति क्षमा । यद्यपि भवद्विहितं वेत्रप्रहारं दण्डनं मया प्रसन्नतया सोढं, तथापि तस्मिन् समये अन्यायेन मां दण्डयन्तं भवन्तं प्रति क्रोधः विद्वेषश्च मे मनसि समुद्भूतौ इत्यतः क्षमा- निर्वैरता नाम द्वितीयः पाठः पूर्णतया - ऽद्याऽप्यशिक्षितस्तिष्ठति इति यथार्थमेव मया निवेदितं गुरो !' इति ।
प्रेम, अनुरागो नाम तस्मिन् प्रियव्यक्तौ ममेत्यभिमानोऽर्थान्ममतैव । स्वहृदि अनुभूतस्य 'अहं' 'अह'मित्यन्तःस्फुरणस्याऽऽनन्दोत्कर्षस्य परस्मिन्नपि प्रियव्यक्तौ दर्शनमनुभवनमेव प्रेम नाम, अनुरागो नाम । अनेन प्रकारेण यदा व्यक्तिः व्यष्ट्यात्मा जलबिन्दुस्थानीयः, अतिमानसध्यानेन भावातीतात्मनिष्ठया बुद्धिसाक्षिणं प्रत्यगात्मानं, शुद्धचेतनमात्रं, सुखदुःखादिद्वन्द्वनिर्मुक्तं शान्तं नित्यतृप्तं सर्वचिन्तासमुत्थितं नित्यानन्दघनं, समुद्रस्थानीयं प्रत्यभिजानीते, तदा तत्समकाल एव सोऽसौ सर्वात्मा, विश्वात्मा, महात्मा बोभवीति । सर्वेषु भूतेषु यदा आत्मीयता आत्मौपम्यं प्रसरति तदा कुटुम्बसदस्येष्विव कुटुम्बसदस्येतरेष्वपि अभेदवृत्त्या क्षमा, प्रेम, दया, मैत्री, सौहार्दं च सहजमेव सञ्जायन्ते ।
इदमेव सत्यं उपनिषदा उच्चैरुद्घष्यते
Jain Education International
"यस्तु सर्वाणि भूतानि आत्मन्येवाऽनुपश्यति सर्वभूतेषु चाऽऽत्मानं ततो न विजुगुप्सते । "
57
For Private & Personal Use Only
-
www.jainelibrary.org