SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ११. प्रतिपन्नक्रिया स्वीकृता नियमादयोऽवश्यंतया पालनीयाः । यदा कदाचित् शारीरिकपीडाया उपद्रवः, देवतादीनां प्रकोपः, स्वबन्धुजनानां विरोधश्च भवेयुः तथाऽज्ञानादबुधजना अवमन्येरन्, एवं सङ्कटे आपतिते सत्यपि प्राणत्यागेनाऽप्युररीकृतानां नियमादीनां सम्यक् पालनं कुर्यादेव । १२. कुलधर्मानुपालनम् - येन कारणेन स्वकीयो वंशः कलङ्कितो भवेत् तथा किमपि नाऽऽचरेत् । किन्तु स्वकुलस्य स्वकुटुम्बस्य च मर्यादामनुसृत्यैव सदा वर्तनीयम् । १३. असद्व्ययपरित्यागः व्यसनार्थमहङ्कारपुष्ट्यर्थं च धनव्यय आत्मनोऽहितकारकोऽशुभकारी च भवति । अतः तादृशं धनव्ययं निराकुर्यात् । - १५. देवपूजा-नवीनजिनगृहनिर्माण-प्राचीनधर्मस्थानो १४. सत्स्थाने व्ययः द्धारादिशुभकार्येषु दीनदुःखितपीडितसत्त्वानां साहाय्यकरणेषु च धनव्ययः प्रयोक्तव्य: । एषु सत्स्थानेषु सत्कार्येषु च धनस्य विनियोग एव लक्ष्मीनां फलमस्ति । यः शक्तौ सत्यामपि शुभमार्गे धनव्ययं न करोति तस्य गृहे भवान्तरे न भवति श्रीदेव्या आगमनम् । कथितं च- “व्यवसायस्य फलं वैभवोऽस्ति, तस्य फलं सुपात्रेषु दानमेवाऽस्ति । अन्यथा एतद्द्वयमपि दुर्गतेः कारणं भवति ।" विशिष्टफलदायि कार्यं कर्तुं सदाऽऽग्रहः Jain Education International 1 प्रधानकार्ये निर्बन्धः करणीयः । - - १६. प्रमादस्य विवर्जनम् - मद्यपानं विषयो विकथा कषायो निद्रा चैवं प्रमादः पञ्चधाऽस्ति । यथाशक्ति तत्प्रमादस्योज्झनं विधेयम् । 54 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy