SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ १७. लोकाचारानुवृत्ति:- शिष्टपुरुषैः मान्यजनैः साधुजनैर्वा यथा व्यवहियते तथा व्यवहारोऽस्माभिर्विधीयेत । तथाविधदेशकालयोर्या शिष्टसम्मता प्रणालिका-चर्याऽस्ति तदनुगुणमेव सदा वर्तनीयम् । आस्तां साधुजनैः सामान्यजनैरपि न जनविरुद्धं कार्यं कर्तव्यम् । कथितं च लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥ (प्रशमरतिप्रकरणम् - १३१) Jain Education International अन्यथा स्वदेशकालविरुद्धाचरणेन तु तद्देशवासिजनताया विरोधसम्भावनात् भवेदनर्थः । १८. सर्वत्रौचित्यपालनम् - सर्वेषु स्थानेषु कालेषु जनेषु चौचित्यपूर्वकमेव सज्जनैः व्यवहर्तव्यम् । अत्रौचित्यार्हा नव विद्यन्ते । यथा- पिता माता बन्धुः पत्नी: तनयः स्वजनाः गुरुजना: नागरिकाः धार्मिकाश्च । १९. गर्हितेऽप्रवृत्तिः- यैः कार्यैः धर्मः स्ववंशश्च कलङ्कितौ स्यातां तानि निन्द्यकार्याणि कण्ठगतैः प्राणैरपि न आचरितव्यानि । निन्द्यकार्यकारिणोऽन्यत् शुभमपि कार्यं जने भवत्युपहासाय । तादृशामशुभकार्याणां त्यागादेवाऽऽचारशुद्धिर्भवति, तथाऽऽचाराशुद्धिरेव वस्तुतो धर्मोऽस्ति । अन्ते भिन्न-भिन्नरीत्योपरिवर्णितं सदाचारस्वरूपमवगम्य यदि चेत् केनाऽपि प्रकारेणाऽस्माकं जीवनेऽसदाचारो वर्तेत तदा तमसदाचारं विहाय वयं सर्वे लेशतोऽपि सदाचारिणो भवेमेति मे मतिः । 55 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy