SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः अध्यात्मस्वरूपम् [आर्या वृतम्] રૂ अध्यात्मं यद्गीतं, तत् कीदृगिति मनसि जिज्ञासा । अध्यात्मस्य विशुद्धं, तस्मै वाच्यं स्वरूपं सत् ॥१॥ अधिकृत्याऽऽत्मानं या, काचिदिह भवेत् क्रियाऽऽत्महितसहिता । सा सर्वाऽप्यध्यात्म, मुक्त्वा मिथ्यात्विनोऽभव्यान् રો कुरुते भवाभिनन्दी,भववर्द्धनकारिणी क्रियां शश्वत् । न च साऽध्यात्म यस्मात्, क्षुद्रत्वादेर्महादोषात् क्रमशो गुणसोपानं, प्राप्याऽध्यात्मस्थितेः क्षणान्मोक्षम् । गन्ता भवति त्वरितं, चिरेण यदि पुद्गलार्धान्तः રોજી कश्चिद्भद्रकवृत्ति-भव्यात्मा भवति मन्दमिथ्यात्वः । तस्याऽप्यध्यात्म स्याद्, गुणानुरागाद्गुणप्राप्तेः કો निश्चयत: परिणामः, केवलिनमृते न वेदितुं शक्यः । तद्व्यवहारातीर्थ, विधीयते व्रतविधानादि દ્દિો किञ्चिद्विषयविशुद्धं, भवति तथाऽऽत्मपरिशुद्धमपि किञ्चित् । अनुबन्धविशुद्धं च, त्रिविधमनुष्ठानमिति बोध्यम् ॥७॥ तत्राऽऽद्यं नो सम्यक् त्वितरदुभयमपि भवति भवतिरोऽर्थम् । दम्भमपाकृत्यैव, क्रियते चेत्तर्हि मोक्षाङ्गम् સોટો Jain Education International For Private & Vonal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy