SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ बहुविधरसं स्वादं स्वादं गदार्दितमानसो, भवघनवने भ्रामं भ्रामं विमुह्यति मुह्यति । प्रभवति न वै दुःखात्माऽसौ शिवाय भवाय वा, सपदि रसनां तत्स्वाधीनां विधाय भवाभवः ॥५॥ कमलदलवत् स्निग्धस्निग्धं त्वगिन्द्रियगोचरं, चिरमभिलषन् स्पर्श सद्योऽधिगत्य च मोदते । गिरिवरगजः स्पर्शासक्त्या जहात्यपि जीवनं, कुरु तदचिरं चेन्मोक्षेच्छा त्वचो विजयं स्वयम् ॥६॥ भवमधिगतस्तिर्यङ् मोडमरोऽपि च नारको, भवति भवभूद् भूयो भूयो भ्रमलितरामिह । क्वचिदपि सुखं नैवाप्नोति स्वतत्रतयोज्झितो, विषयविकल: क्लेशावेशागवत्यतिदुःखितः ॥७॥ विषयविषतो येषां चित्तं भवेन्नहि चञ्चलं, विरतिरमणी तेषां सक्ता त्यजत्यपि नाऽञ्चलम् । अपि च ममता तेभ्यो दूरं व्रजत्यपमानिता, प्रसरति ककुपप्रान्ते प्रान्ते तदीययशस्विता ॥८॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy