SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ तृतीय: प्रबन्धः अष्टमोऽधिकारः ममतात्यागः [द्रुतविलम्बितम् ] सकलदोषसुपोषविषौषधि-र्विमलवित्तविनाशनिशाचरी । अकलकल्मषगाढतमस्विनी, विजयते ममता भववर्धनी Jain Education International ममतयाऽमतया सह सङ्गतिं त्यज रतिं विरतेर्यदि वाञ्छसि । कृपणता न च यावदपाकृता, न समुदञ्चति तावदुदारता हृदि ममत्वमहो विलसेत्तरां, किमु भवेद् विषयैः प्रतनूकृतैः । हि भवेदहित्र विषोज्झितः किमपि केवलकञ्चुकमोचनात् शुचिमनास्तरुणी वरवर्णिनी, मलमणुं सहते न मनस्विनी । मलिनताविलमङ्कधृतात्मजं, सपदि चुम्बति सा ममतादृता यदिह लोचनगोचरमस्तित - ज्जगति पश्यति नैव विलोचनः । ममतया ननु यन्नयनं हृतं स तु यदस्ति न तत्पुनरीक्षते वितरणेन वदान्यतया कृतं सूतमहो चरितेन तपस्यया । भवतु भावनयाऽवनयात्वलं, यदि हृदो ममता न बहिष्कृता यदि विनाशयितुं ममतां मनः, परिचयं सह तत्त्वबुभुत्सया । विदधतादनिशं परितो यतो, द्वयममात्र न तिष्ठति कुत्रचित् प्रथमवर्णपुरो ममताकृतेः, शरनिपातनमाचर साचरम् 1 निजकरूपमरं प्रविमुच्य सा, समतया हितया परिणंस्यति 31 For Private & Personal Use Only ૫ સો શક કા દા ॥७॥ ૫૫ www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy