________________
सप्तमोऽधिकारः वैराग्यविषयः [हरिणी]
भवभवनतो निर्वाणं चेदवाप्तुमभीप्स्यते, करणनिकराणां विश्वासः क्षणं न विधीयताम् । दुरितभरितैरौर्जीवश्चतुर्गतिचारकात्पदमपि शिवे धर्तुं नेष्टे परात्मनि वर्त्मनि
॥१॥
तरुणहरिणो गीतोत्कर्णः पुरो हरिणीं श्रितः, करुणमरणं वज्राघातैः शरैर्व्यथितोऽञ्चति । श्रवणरसिकस्तद्वद्गीतात्तमोगतिमश्नुते, तदिह कुरुताच्छास्त्रश्रुत्या श्रुती हितसंहिते
॥२॥
नयनविषयं रम्यं रूपं निरूप्य तदाकुलः, पतग इव संमूढः प्राणी विमुञ्चति जीवनम् । न खलु विकलं येनोन्मार्गे प्रवर्तितमीक्षणं, निजपरहितं तेनाऽनन्तं प्रसाधितमीहितम्
॥३॥
यदिह मधुपो गन्धं जिघ्रन् सरोरुहबन्धने, पतति परितः प्राणानिष्टान् जहाति हहाऽवशः । तदिह सुरभि वाञ्छन् घाणेन्द्रियार्पितचेतनः, क्षयविरहितं शुद्धात्मस्थं न विन्दति सौरभम्
॥४॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org