SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ AD निश्चित्य राज्यभोगविलासिजीवनाद् व्यरंसीः । अल्पीयस एकस्य नागस्य प्राणानां रिरक्षयिषया स्वीयानमूल्यानतिप्रियानपि प्राणानहौषीः । जीवकारुण्यस्य वसुधाकुटुम्बत्वस्य आत्मौपम्यस्य सर्वात्मनिष्ठायाश्च लोकोत्तरमादर्श प्रत्युपस्थापयांचकर्थ । सर्वैराचन्द्रार्कं तवैषोऽमोघस्त्याग उपगीयतात् । हार्द मेऽभिनन्दनं स्वीकुरु जीमूतवाहन ! । जीमूतवाहनः अहिंसा निर्वैरभाव एव परमो धर्म इति सुष्टु जानीहि पक्षिराज!। प्रेम विना जीवनं शुष्कं नीरसमिति बुध्यस्व । यथैव हिंसा तत्कृतं दुःखं च तवाऽप्रियमनिष्टं तथैव हिंसा तत्कृतं च दुःखमन्येषामपि जीवानामप्रियमनिष्टमित्यवगच्छ सखे ! । अतो कदापि जीवान् मा वधीः । महाशक्तिमतस्तव शक्तिः खलस्य इव परपीडनाय मैवाऽस्तु अपि तु रक्षणाय सम्पद्यताम् । उक्तं खलु-दुर्बलानां बलं राजा । त्वमसि खगराज इत्यतस्त्वं दुर्बलानां जीवानां रक्षको भूयाः ।। मांसभक्षणाद्विरम । धान्यफलैः सस्योत्पन्नैः प्राणान्धारयस्व। (तक्षकमुद्दिश्य) सहजस्वभावमप्यतिक्रम्य विषदंशनाद्विरमत। धान्यफलैः सस्योत्पन्नैः प्राणान् धारयध्वम्। प्राणघातकमपि विषं वः सिद्धौषधं भूयात् । लोकाराध्यस्त्वं संपत्सीष्ठाः । (ततो जीमूतवाहनः सबन्धुजनस्तान् सर्वानापृच्छति। स्वस्थानं प्रति निष्कामति ।) मित्रावसुः जीमूतवाहन ! उपलब्धेष्वसंख्येष्वादशेषु बहुप्रकारै-निंबोधितेष्वपि कथमिदमुपलभ्यते यत्, जीवा अहिंसां निर्वैरभावनां च नाऽनुतिष्ठन्ति, अपि तु हिंसामेव वैरभावमेव च साधयन्ति ? "मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुनाः निष्कारणमेव वैरिणो जगति ।" स्वभावो दुरतिक्रम इति मन्ये । Im m माया IP Kा KTIm m Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy