SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ पा Kum माता TITIO मार्ग "गरुडः प्रया पाय नाऽहं कस्याऽपि जन्तोर्जीवं हिंसितास्मि, नाऽहं कस्यापि जीवस्य प्राणानपहर्तास्मि । हा हन्त ! अस्ति लोके कश्चिन्महानुभावो योऽमृतमपि समानीय मत्पुत्रकमुज्जीवयेत् ? (अमृतमिति स्मारितः सन् हृष्टपुलकितः सन् केकायते) तिष्ठ तिष्ठ मातः ! माभैषीरम्ब ! सुधासञ्जीवनी यत्र कुत्र वा त्रिलोक्यां विद्यताम्, तदहं गृह्णामि, गृहीत्वा क्षणार्धेन प्रत्यागच्छामि । (उड्डयते । अनतिदूर एव सञ्जीवनीसंपन्नं गिरिवरमुपलभ्य तद्गतां सञ्जीवनीमूलिकाप्रभावितां मृत्तिकां संगृह्य प्रतिनिवर्तते। तां च सञ्जीवनीमृत्तिकामद्भिः संमिश्य तया ईषन्मात्रसन्धारितप्राणस्य जीमूतवाहनस्य रक्तसिक्तकलेवरमभिषिञ्चति । जीमूतवाहनो सुप्तोथित इव सजीव: सकलाङ्गः समुत्तिष्ठते ।) (गरुड एतावत्पर्यन्तमात्मनः प्रमादेन निघृणतयाऽविचारेण हतानां नागानां मृतकलेवराणां तथा च तेषामस्थिसञ्चयस्योपरि सञ्जीवनीमृत्तिकयाऽभिषिञ्चति, तेऽपि सर्वे नागा सुप्तोत्थिता इव सजीवाः सकलाङ्गाः समुत्तिष्ठन्ते । तत्काल एव तक्षको नागाधिपतिरपि तत्रोपतिष्ठते । स्वबन्धुजनान् सर्वानुज्जीवितानुपलभ्य हर्षोल्लासेन मोमुद्यते । नागानां आनन्दस्त्वया संपादित इत्यतस्त्वं 'नागानन्द' इति विश्रुतो भव इति च जीमूतवाहनायाऽऽशिषं व्याहरति । जीमूतवाहनः अनुजानीहि मां खगोत्तम ! । गरुडः निरपराधिनं विद्याधरवंशतिलकमेवं प्रमादपरवशतया निघृणं हिंसितवन्तं मां क्षन्तुमर्हसि जीमूतवाहन ! । राज्यलिप्सया प्रवृत्तमाने युद्धोद्यमेऽवश्यंभाविनो वैशसस्य परिजिहीर्षया स्वायत्तं राज्यमेव त्वं पर्यत्याक्षीः । वृद्धमातापितृसेवैव राज्यभोगविलासादपि श्रेयसीति amIID Tim In 120 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy