________________
कथा
संस्कृतिः
मुनिधर्मकीर्तिविजयः
प्रायः पूर्वतनकालीनस्य 'मुम्बाई'नगरस्येयं कथाऽस्ति ।
तदात्वे इदानींतनकालवन्नाऽतिविस्तृतं तन्नगरम् । तथाऽपि सुखसाधनसंभारैः संपूर्णमासीत् । तत्र वसन्तो गृहिणो धनिकाः किन्तु तेऽभिमानिनोऽप्यासन् ।
तन्नगरात् नाऽतिदूरं वनमेकमासीत् ।
केचिनगरजना वनात् काष्ठान्यानीय विक्रीणन्ति स्म । एकदा काचिदेका दुर्बला वृद्धा काष्ठाभारं मस्तकस्योपरि धृत्वाऽऽगच्छन्त्यासीत् । किन्त्वतिभारात् परिश्रान्तया तया स काष्ठभारोऽधो मुक्तः । कञ्चित् कालं विश्रम्य तं काष्ठभारं ग्रहीतुं प्रयतते स्म, किन्तु तं काष्ठभारं मस्तकस्योपरि स्थापयितुं न प्राभवत् सा । ततस्सा मार्गे गच्छतो जनान् विज्ञपयति स्म, परन्तु न केऽपि जनास्तां वृद्धां साहाय्यं कुर्वन्ति स्म । एवं कश्चित् कालो व्यतीतः।
तदा धृतनूतनोज्ज्वलवसनस्तेजोन्वितमुख एकः पुरुष आगतः । तेन दृष्टा सा वृद्धा । तस्याः परिस्थितिं ज्ञात्वा तत्र गत्वा स्वयमेव तं काष्ठभारं गृहीत्वा तस्याः मस्तके स्थापितवान् । वृद्धाऽतीव प्रसन्ना बभूव । - नाऽन्य एष कोऽपि, किन्तु "महादेव रानडे" इति भारतस्याऽनन्यो देशभक्तः सन्निष्ठो न्यायाधीश आसीत् ।
Jain Education International
98 For Private & Personal Use Only
www.jainelibrary.org