________________
p
100000
| मित्रावसुः
मलयवती
( सख्या सहितां मन्दिरान्निस्सरन्तीं मलयवतीं जीमूतवाहनः परिलक्ष्य तस्या मुग्धमनोहरसुन्दराकृत्या हृतमनस्कः सञ्जातः । ते च युवत्यौ समीपस्थेषु गुच्छगुल्मेषु निलीने सत्यौ तयोर्जीमूतवाहनात्रेययोः सञ्चलनं वीक्षमाणे तिष्ठत: । तौ जीमूतवाहनात्रेयौ तन्मन्दिरं प्रविश्य वेत्रास उपविशतः। जीमूतवाहनः प्रियाया: सुन्दरं भावचित्रं विलिख्य आत्रेयाय दर्शयित्वा तस्य प्रशंसनं निरीक्षते । आत्रेयश्च तत् मलयवत्या: प्रतिरूपं सुन्दरं भावचित्रं श्लाघते । तयोर्मिथः सँल्लापस्य शुश्रूषया बहिरेव गवाक्ष्या अधः प्रदेशे सा अवहिता तिष्ठति । एवं सति मित्रावसुर्नाम सिद्धानां युवराजो मलयवत्या अग्रजो मन्दिरं प्रविश्य तौ जीमूतवाहनात्रेयावुपगच्छति, सहसा जीमूतवाहनः प्रियाया भावचित्रमागन्तुरगोचरीचिकीर्षया वस्त्रेण समाच्छादयति ।) जीमूतवाहन ! अस्मत्प्रजाः सर्वा मद्भगिनीं परिणेतुं त्वामेव अनुरूपं संदधते । अनेन संबन्धेनोभयोर्विद्याधर-सिद्धसमुदाययोः कल्याणं भविता । मत्पिता मन्मुखेन तेऽभिनन्दनान्युपहरति ।
जीमूतवाहनः प्रिय भ्रातः नूनं सम्भावितोऽस्म्यनेन त्वदभिलषितेन । किन्त्विदं ते आवेदयितुमहं नितरां खिन्दे, अन्यथा मा भावयेथाः । अत्राऽहं निःसहायस्तिष्ठामि भोः ! अहं तावदन्यायां कन्यायामनुरक्तोऽस्मि तदन्यां कन्यां कथं वाऽहं वरये ?
Jain Education International
( चतुरिका मलयवतीं निपुणं वीक्षते । मित्रावसुकृतं प्रस्तावं जीमूतवाहनः कथमुत्तरयतीति सावधाना भवति ।)
(इदं जीमूतवाहनप्रत्युक्तं श्रुत्वैव मलयवती मूर्च्छिता विसंज्ञा भूमौ निपपात । सखी च तां सान्त्वयितुं प्रवृत्ता ।)
सखि ! त्वं शीघ्रं राजसौधं गच्छ । अहमपि क्षणार्धेन त्वामनुसरामि । मम शीघ्रं प्रत्यागमनं पूज्यपितरौ भ्रातरञ्च आवेदय ।
106
For Private & Personal Use Only
www.jainelibrary.org