SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ - स्वस्त्यस्तु सर्वजगते सन्तस्सन्तोषदन्तुरास्सन्तु । भुवि तत्क्रियाश्च धा निष्प्रत्यूहाः प्रवर्तन्ताम् ॥२॥ अस्ति ननु राजधानी काचन कर्णाटजनपदाभरणम् । महिशूरनामधेया स्वविभूतिलवावधीरितत्रिदिवा ॥३॥ तामध्यास्त वितन्द्रः सद्गुणसान्द्रः स कृष्णभूमीन्द्रः । विबुधजनाम्बुधिचन्द्रः किमन्यदन्यो हरिश्चन्द्रः ॥४॥ तेन दिगधीश्वरांश-प्रभवेनार्थिप्रदेयविभवेन । पित्रेव सप्रमोदं गोवा सर्वत्र गुप्तानाम् ॥५॥ अधुना तत्प्रतिबिम्ब-श्रीमच्चामक्षमामघोनाऽपि । तस्मादप्यत्यर्घ रक्षित्रा रक्ष्यमाणानाम् ॥६॥ उपनिषदर्थरहस्य-श्रवणस्मरणाद्युपायकलनेन । वाङ्मनसाडगोचरमपि तत्त्वं तत् किमपि कुर्वतां साक्षात् ॥७॥ विद्यारवष्टादशसु प्रागल्भ्यप्रतिभटत्रपाक्षेत्रम् । अपि बिभ्रतामजनं स्वप्नेऽप्यस्पृष्टविनयविरहाणाम् ॥८॥ श्रीकृष्णनृपतिदत्तं मुक्तामयमखिलसुग्रहगुणाढ्यम् । सद्वृतमग्रहारं दधतामथवा तमावसताम् ॥९॥ प्रतिषेधेऽपि स्पष्टं ध्वनिभङ्या विदधतीं विधिं वचन । प्रौढामिवाऽनुभवतां वनितां कवितां मनोजरसाम् ॥१०॥ अणुमात्रमपि मरन्दं सुमनसि धूलीविनेव पुष्पलिहाम् । दोषानपास्य तनुमपि गुणमभ्युपजग्मुषां विदुषाम् ॥११॥ Jain Education International 86 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy