SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ---- ------ wwwwww शंखचूड: पिता शंखचूड: गरुडः गरुडः Jain Education International न, न केवलं रत्नं भोः ! त्रिलोकरत्नं विनष्टमिति दूयमानहृदयोऽहं निवेदयामि । धिङ् मां सज्जनप्राणघातिनम् । कश्चिद् विद्याधरो राजकुमार इहागत्य आपन्नमृत्युं मामल्पक्षुद्रजीविनं मृत्युमुखाद् विमोच्य स्वीयान् प्राणान् निर्घृणाय गृध्रराजाय उपहार्यकृत । तस्य तव प्रियसुनोर्हन्ता वैनतेयो नैव, अहमेव तस्य हन्ता । (विलपन् ) क्व गतोऽसि पुत्र अस्मान् विहाय ? त्वां विहाय कथं वा वयं जीवेम पुत्र !? (शंखचूडमुद्दिश्य) वत्स ! चितां समेधय । अग्नाविदं वृद्धशरीरं हुत्वा प्रयातं जीमूतवाहनमनुगच्छामि । जिजीविषा मे सुतरां नास्ति विनष्टप्रियपुत्रकस्य हतभाग्यस्य । (विलपन्) वत्स ! अङ्गुलीयकमवमुच्य मम पादयोः पातयित्वा मम पादसेवनं चिकीर्षसि वा ? मा मा त्वरिवं भोः ! सम्भवेदपि यत् त्वत्पुत्रकः स नागो नेति संपश्यता ं गरुडेन राजकुमारोऽमराकृतिर्विमुक्तः स्यात् । ( तेन शंखचूडप्रदत्तेन समाश्वासनेन किञ्चिदिव समाहितास्ते रक्तबिन्दुपङ्क्तिमनुजग्मुः । गिरिशिखरे सुदूरे गरुडो नागबुभुक्षुर्यदा रक्तपटमपसारयति स्म तीक्ष्णनखैः क्षतविक्षताङ्गनराकृतिं दृष्ट्वा चकित: सन्) अहो ! विचित्रमिदम् । अद्यपर्यन्तं मदुपहारीकृताः सर्वे नागाः मन्नखप्रहारमसहमानाः भयभीता वेपमाना आसन् । एष निर्भीतोऽप्रकम्पितः शान्तमना हसन्मुखो दृश्यते । (जीमूतवाहनोऽवशिष्टलेशमात्रप्राणः कष्टेन किञ्चिदिव समुत्थाय गरुडं विलोकयति ।) (साश्चर्यं) कस्त्वम् ? न त्वं नागः । (तस्मिन्नेव समये शंखचूडस्तत्रोपगच्छति । गरुडमुद्दिश्य) 118 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy