________________
Jain Education International
(२)
झेनगुरोः सविधे त्रयः शिष्या आगताः ।
एकेन कथितम् गुरुणा पृष्टम् - कस्त्वम् ?
स आह- श्रेष्ठिपुत्रोऽहम् ।
गुरुरवोचत् - षण्मासानन्तरमागच्छेः । मह्यं दीक्षा दीयताम् ।
द्वितीयेन प्रोक्तम्
गुरुरुवाच
कस्त्वम् ?
स आह अहं राजपुत्रः ।
गुरुणोदितम् - वर्षद्वयस्य पश्चादागच्छेः ।
तृतीयेन व्याकृतम्
गुरुः कथयाञ्चकार कस्त्वम् ।
-
-
1
भवान् मह्यं दीक्षां ददातु ।
1
प्रभो ! कृपया मे दीक्षां प्रदेहि ।
स आह "कोऽह " मिति न जानाम्यहम् ।
गुरुणा तत्क्षणमेव तस्मै दीक्षा दत्ता ।
माता पशूनां सुतसत्तयैव धनार्जनैस्तुष्यति मध्यमानाम् । वीरावदातैः पुनरुत्तमानां लोकोत्तमानां चरितैः पवित्रैः ॥
(भविष्यपुराणे)
103
For Private & Personal Use Only
www.jainelibrary.org