SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Lumb माता " माता सन्निहितनिपातस्य धारणेन कस्य को वा पुरुषार्थः ? वृद्धानां पुरतः तत्संततेविनाशो नैव गुरुजनसम्मतः । HIM शंखचूडः मैवमम्ब ! तक्षकेण प्रभुणाऽहमेव गरुत्मते उपहारीकृतः । मत्तोऽन्यस्य कस्यचिदप्यत्र अवकाशो नैव। तत्प्रतिनिवर्तस्व अम्ब ! । गरुत्मत आगमनं सन्निहितम् । हा कष्टम् ! को वा मत्पुत्रस्य त्राता ? (आक्रन्दति) (शंखचूडः प्रणतातिहरं हरं महादेवं ध्यायन् बलिपीठमुपसर्पति ।) हा पुत्र ! को वा मां नष्टसर्वस्वां दीनां त्राता ? (करुणमाक्रन्दति) (जीमूतवाहनः सहसा तयोर्मातापुत्रयोर्मध्ये समुपतिष्ठते ।) जीमूतवाहनः अहमस्मि मातः ! तव प्रियपुत्रस्य त्राता । यच्छ मे रक्तपटपरिधानम् । तव पुत्रेण सह स्वगृहं निवर्तस्व । शंखचूडः (साश्चर्य) मैवमार्यपुत्र ! धन्योऽस्मि मयि तव सहानुभूत्या। किन्तु एकस्य मातुरश्रूणि परिमृज्याऽपरस्य तवैव मातुर्नयनाभ्यामश्रूणि मोचयितुं नैव युक्तं भो: ! (एवमुक्त्वा शंखचूडोऽम्बया सह तद्देशं विहाय दूरं गतः । पुनश्च जीमूतवाहन एकल एव स्थितः । तदैव श्वश्र्वा प्रहितः सेवको रक्तपटपरिधानं गृहीत्वा जीमूतवाहनमुपसर्पति ।) HD सेवकः प्रभो ! विजयतात्, राज्ञी तव श्वश्रूर्नवपरिणीताभ्यां युवाभ्यां दम्पतीभ्यां दशदिनपर्यन्तमेतदमोघं रक्तपटपरिधानं विवाहविधिं पुरस्कृत्य परिधातव्यमित्याज्ञापयति । तव प्रियभामिनी पवित्रं रक्तपटपरिधानं परिधृतवती । त्वमपि गृहाण तथा परिधत्स्व भोः ! SHIR जीमूतवाहनः तथास्तु, तथास्तु, अवश्यं परिधास्ये, गच्छ शीघ्रम् । राज्यै सूक्तं निवेदय । (सेवकः जीमूतवाहनस्य प्रसारितहस्ते रक्तपटपरिधानं निधाय प्रतिनिवर्तते ।) MED Im Jain Education International 113 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy