________________
उपालम्भपंचविंशतिका
मुनिधुरन्धरविजयः
विनम्रनाकीन्द्रकिरीटमुक्ता-फलेषु संलीनमनेकरूपम् । समग्रलोकत्रयतारणाय, समर्थमानौमि युगादिदेवम् संसारकान्तारसुरद्रुकल्प ! संकल्पसंपूरणकामधेनो ।। चिन्तामणेऽचिन्तितदानकृत्य !, जय प्रभो ! त्वं जगदीशरूप ! ॥२॥ बालोऽहमज्ञो जगदीश्वराय, तुभ्यं कथञ्चित्कटुवाग्भवेन । स्तवेन किञ्चित्कथयामि नाथ !, क्षमस्व दुःखार्तिभवं प्रलापम् ॥३॥ निरर्गलं लालपतरतवाडग्रे, नाऽऽयाति लज्जा मम लेशतोऽपि । निरङ्कुशं चेष्टितमर्भक स्य, स्वमातुरग्रे नहि शोभते किम् ? ॥४॥ लुब्धोऽरिम मुग्धोऽरिम मदोद्धतोऽस्मि, वक्रोऽस्मि संसारसुखातुरोऽस्मि । निर्बन्धलक्ष्मीललनोत्सुकोऽस्मि, तथाऽपि मां तारय नाथरूप ! ॥५॥ शुद्धान् प्रबुद्धान् भुवि तारयन्ति, सर्वेऽपि किं तत्र महत्तमत्वम् । अस्मानबुद्धान् यदि तारयेस्त्वं, तदैव ते तारक ! नाथता स्यात् ॥६॥ नाथोऽसि चेत्त्वं जगतोऽखिलस्य, अनाथरूपा इव किं भवेम ? । दुःखौघतो दुर्गतितोऽन्तरङ्ग - दुवैरिवृन्दात् नहि पासि किं नः ? ॥७॥ दुष्टस्य दण्डः सुजनस्य रक्षा नाथस्य धर्मः खलु मुख्य एषः । दुर्लक्ष्यमत्रैव करोषि चेत्ते, नाथत्वधर्मो न सुरक्षितः स्यात्
૮
Jain Education International
For Private 12ersonal Use Only
www.jainelibrary.org