________________
नमोऽत्थूणं अरहंताणं ( नमः अस्तु अर्हद्भ्यः )
( ल० ) तत्र 'नमोऽस्त्वर्हद्भ्यः' इत्यत्र 'अस्तु' = भवत्वित्यादौ प्रार्थनोपन्यासः, दुरापो भावनमस्कारः तत्त्वधर्म्मत्वात्, अत इत्थं बीजाधानसाध्य इति ज्ञापनार्थम् । उक्तं च,
'विधिनोप्ताद्यथा बीजादङ्कुराद्युदयः क्रमात् । फलसिद्धिस्तथा धर्म्मबीजादपि विदुर्बुधाः ॥ वपनं धर्म्मबीजस्य सत्प्रशंसादि तद्गतम् । तच्चिन्ताद्य कुरादि स्यात्कलसिद्धिस्तु, निर्वृतिः ॥ चिन्ता-सत्श्रुत्यऽनुष्ठानं - देवमानुषसम्पदः । क्रमेणाऽङ्कुर-सत्काण्ड - नाल- पुष्पसमा मताः ॥ फलं प्रधानमेवाहुर्नानुषङ्गिकमित्यपि । पलालादिपरित्यागात्त् कृषौ धान्याप्तिवद् बुधः ॥ अत एव च मन्यन्ते तत्त्वभावितबुद्धयः । मोक्षमार्गक्रियामेकां पर्यन्तफलदायिनीम् ॥ इत्यादि । ( पं० ) नमो० । 'वपन = मित्यादिश्लोक:, 'वपनं', -निक्षेपणं, 'धर्म्मस्य' = श्रुतचारित्ररूपस्य, 'बोजं' = फलनिष्पत्तिहेतुः, धर्मबीजं, तस्या 'ऽऽत्मक्षेत्रे इति गम्यम् । किं तदित्याह 'सत्प्रशंसादि' 'सत्' संशुद्धं तच्चेट में लक्षणं
=
'उपादेयधियाऽत्यन्तं संज्ञाविष्कम्भणान्वितं । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ॥'
तस्य =
=
'प्रशंसादि' = वर्णवाद - कुशलचित्त- उचितकृत्यकरणलक्षणम्, 'तद्गतं' = धर्म्मगतम् । 'तच्चिन्तादि', धान्य, चिन्ता = अभिलाषः, आदिशब्दात् सत्श्रुत्यादि कक्ष्यमाणम्, अंकुरादि = अंकुर-सत्काण्डादि वक्ष्यमाणमेव । 'फलसिद्धिस्तु निर्वृत्तिरिति' प्रतीताम् । 'चिन्ता.....' इत्यादि श्लोको भावितार्थ एव । 'फलं....' इत्यादि श्लोकः, फलं साध्यं, किं तदित्याह 'प्रधानमेव' = ज्येष्ठमेव, फलमिति पुनः सम्बध्यते ततः प्रधानमेव फलं फलमाहुः । अवधारणफलमाह 'नानुषङ्गिकमित्यपि ' नोपसर्जन भवमपीति । दृष्टान्तमाह 'पलालादिपरित्यागात् ' पलालपुष्पे परित्यज्य, 'कृषौ' = कर्षणे, (धान्याप्तिवद् = ) धान्याप्तिमिव 'बुधा: ' = सुधिया । 'अत एव' इत्यादि, 'अत एव' फलं प्रधानमेवेत्यादेरेव हेतो:, ('च') 'चकारो ऽर्थप्रातमिदमुच्यत 'इति सूचनार्थ:, ' मन्यन्ते = प्रतिपद्यन्ते, 'तत्त्वभावितबुद्धयः' = परमार्थदर्शिधियः, 'बोक्षमार्गक्रिया' = सम्यग्दर्शनाद्यवस्थां, 'एकां' = अद्वितीयादिरूपां मोक्षमार्गत्वेन, ‘पर्यन्तफलदायिनी' मित्यादि = मोक्षरूपचरमकार्यकारिणीं शैलेश्यवस्थामित्यर्थः, अन्यावस्थाभ्यो ह्यनन्तरमेव फलान्तरभावेन मोक्षाभावात् ।
'नमोऽत्थूणं अरहंताणं' ( नमः
अस्तु अर्हद्भ्यः )
यहां 'अर्हत्परमात्माको नमस्कार हो' इस वाक्यमें 'हो' पदसे प्रार्थनाका उपन्यास किया गया । अर्थात् नमस्कार वर्तमान कालमें करनेकी सामर्थ्य नहीं है कि जिससे अब नमस्कार करनेका दावा रखा जाए अतः नमस्कार करनेका सामर्थ्य प्राप्त होने के लिए प्रार्थना की जाती है। इस प्रकारका प्रार्थनाका उपन्यास यह सूचित करता है कि भाव नमस्कार दुर्लभ है; कारण, भावनमस्कारमें ही सच्चा नमस्कारत्व धर्म है इसलिए वैसा नमस्कार ज्यों त्यों सिद्ध नहीं हो सकता । समझ लो कि नमस्कारादि धर्म एक तरहका पेड और वह
स्थापन आदिसे सिद्ध हो सकता है। कहा है कि :- जिस प्रकार विधिपूर्वक बोये गए बीज द्वारा क्रमशः अंकुरादिसे फल पर्यन्त उत्पत्ति होती है इसी प्रकार धर्मके बीजसे भी अन्तिम फल पर्यन्त की सिद्धि होती है; ऐसा विद्वान लोग कहते हैं ।
Jain Education International
३९
For Private & Personal Use Only
www.jainelibrary.org