Book Title: Agam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
________________
मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० ६ चतुर्थ भाषाजातमध्ययननिरूपणम् ६४३ भासं असावज्जं जाव भासिज्जा ॥सू० ६॥ ___ छाया-स भिक्षुर्वा भिक्षुकी वा मनुष्यं वा गोणं वा मृगं वा पशुं वा पक्षिणं वा सरोस्पं वा जलचरं वा स तं परिवृद्धकायं प्रेक्ष्य नो एवं वदेत, स्थूल इति वा प्रमेदुर इति वा वृत्त इति वा वध्य इति वा पाच्य इति वा, एतत्प्रकारां भाषां सावधां यावद् नो भाषेत, स भिक्षुर्वा भिक्षुकी वा मनुष्यं वा यावत् जलचरं वा स तं परिवृद्धकायं प्रेक्ष्य एवं वदेव-परिवृद्धकाय इति वा उपचितकाय इति वा स्थिरसंहनन इति वा वितमांसशोणित इति वा बहुप्रतिपूर्ण इन्द्रिय इति वा एतत्प्रकारां भाषाम् असावयां यावद् भाषेत, स भिक्षुर्वा भिक्षुकी वा विरूपरूपा गाः प्रेक्ष्य नो एवं वदेत्-तद्यथा-गावो दोह्याति वा दम्य इति वा गोरह इति वा वह्य इति वा रथयोग्य इति वा एतत्प्रकारां भाषां सावद्यां यावद् नो भाषेत, स भिक्षुर्वा भिक्षुकी वा विरूपरूपा गाः प्रेक्ष्य एवं वदेत, तद्यथा युवा गौरिति वा धेनुरिति वा रसवती इति वा हस्त्र इति वा महान् इति वा महावयाः इति वा संवहन इति वा एतत्प्रकारां भाषाम् असावधाम यावद् अभिकाङ्ख्य भाषेत, स भिक्षुर्वा भिक्षुको वा तयैव गत्वा उद्या. नानि पर्वतान् वनानि वृक्षान् वा महतः प्रेक्ष्य नो एवं वदेत, तथा प्रासादयोग्य इति वा तोरणयोग्य इति वा गृहयोग्य इति वा फलकयोग्य इति वा अर्गलायोग्य इति वा नौ योग्यइति वा उदकद्रोणीयोग्य इति वा पोढ-चंगवेर-लांगल-कुलिकयन्त्र-लष्टि-नाभि-गंडीआसनयोग्य इति वा शयनयान उपाश्रययोग्य इति वा एतत्प्रकारां भाषां नो भाषेत, स भिक्षु भिक्षुकी वा तयैव गत्वा उद्यानानि पर्वतान् वनानि वृक्षान् वा महतः प्रेक्ष्य एवं वदेत्, तद्यथाजातिमन्त इति वा दीर्घवृत्ता इति वा महालया इति वा प्रयातशाखा इति वा विटपिशाखा इति वा प्रासादीया इति वा यावत् प्रतिरूपा इति वा एतत्प्रकारां भाषाम् असावा यावद् भाषेत, स भिक्षु भिक्षुकी वा बहुसंभूतानि वनफलानि प्रेक्ष्य तथापि तानि नो एवं वदेत तद्यथा-पक्यानि इति वा पाकखाद्यानि इति वा वेलोचितानि इति वा टालानि इति वा धिकानि इति वा एतत्प्रकारां भाषां सावधां यावद् नो भाषेत, स भिक्षुर्वा भिक्षुकी वा बहुसंभूतानि वनफलानि आम्राणि प्रेक्ष्य एवं वदेत् तद्यथा-असमर्था इति वा बहुनिवर्तितफला इति वा बहुसंभूता इति वा भूतरूपा इति वा एतत्प्रकारां भाषाम् असावद्याम् यावद अभिकाङ्ख्य भाषेत, स भिक्षुर्वा भिक्षुकी वा बहुसंभूता ओषधी प्रेक्ष्य तथापि तान एवं वदेत, तद्यथा-पक्का इति वा नीला इति वा छविभत्य इति वा लाजिमा इति वा भर्जिमा इति वा बहुखाद्या इति वा एनत्प्रकारां भाषां सावधां यावद् अभिकाक्ष्य नो भाषेत स भिक्षुर्वा भिक्षुकी का बहुसंभूताः ओषधीः प्रेक्ष्य तथापि एवं वदेत्, तद्यथा-रूढा इति वा बहसंभता इति वा स्थिरा इति वा उच्छिता इति वा गर्भिता इति वा प्रसूता इति वा ससारा इति वा एतत्प्रकारां भाषाम् असावद्यां यावद् भाषेत ॥ सू०६॥
श्री सागसूत्र :४