Book Title: Nandanvan Kalpataru 2007 00 SrNo 19
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521019/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनथनकल्पतरुः १९ ः सङ्कलनम् : कीर्तित्रयी दक्षिणायनम् वि.सं. २०६३ Ca >> C " शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुर्नन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ www.jalnelibrary.org Page #2 -------------------------------------------------------------------------- ________________ नन्दनयनकल्पतरू: १९ Marwain-rinninair : सङ्कलनम् : कीर्तित्रयी दक्षिणायनम् वि.सं. २०६३ शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये ।। कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ For Private & Personal use only i Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः ॥ एकोनविंशी शाखा ॥ (संस्कृतभाषामयं अयन-पत्रम् |) सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ वि.सं. २०६३, ई.सं. २००७ मूल्यम् : रू. १००/ प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 26622465 सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः" C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 26574981 M. 9979852735 मुद्रणम् : क्रिष्ना ग्राफिक्स' नारणपुरा गाम, अमदावाद ।। दूरभाष : 079 - 274943933 Page #4 -------------------------------------------------------------------------- ________________ जानाजानानानागाजागाजावाजा माननानानानानागाजावाजा गया प्रास्ताविकम् देशस्य वर्तमाना स्थितिरत्यन्तं दयाजनिकाऽस्ति । सर्वत्र किं कथं च प्रचलति-इत्यपि ज्ञातुं न शक्नुवन्ति बुधजनाः । सर्वेऽपि ते मौनमवलम्बितवन्तो दुःखेन च सर्वं पश्यन्तः स्थिताः सन्ति । मौनमेवाऽऽश्रयणीयं तैः, नाऽन्यः कोऽपि मार्गोऽस्ति तेषाम् । कदाचित्तु ते तेषां मन्तव्यं प्रकटयन्त्यपि, किन्तु भित्त्या शिरआस्फालनमिव तन्निरर्थकं जायते । संस्कृतेर्गानं वयं बाढं कुर्महे, तदर्थं च गर्वमप्यावहामो वयम् । किन्तु किं तेन ? किमस्माकं तद् गानं स गर्यो वा सार्थक्यं भजतेऽपि ? सर्वेष्वपि क्षेत्रेषु संस्कृतेहसि एव परिदृश्यतेऽनुभूयते च, न विकासो गौरवं वा । कदाचित् कुत्रचिच्च कश्चित् प्रसङ्ग उपस्थितोऽपि भवति येन स्वसंस्कृत्यर्थं वयं गौरवमनुभवेम । किन्तु, विद्युत्स्फुलिङ्ग इब कदाचिदेव, न स्थिरः कोऽपि प्रकाशः संस्कृतेरनुभूयते । कुत्राऽस्ति तस्याः स्थिरं ज्योतिः ? एतस्याः स्थितेर्मूलं त्वेकमेव, तच्चाऽस्ति शिक्षणम् । संस्कृते रक्षकं संवर्धकं पोषकं चाऽस्ति शिक्षणम् । किन्तु तत्र जातेन कुठाराघातेन वयमनभिज्ञा इवैव व्यवहरामः । कदाचिच्च जानन्तोऽपि वयमुपेक्षामह एव । अनयोपेक्षयैवाऽद्य समस्या समुत्थिताऽस्ति, यस्याः परिहारोऽपि दुष्करी जातोऽस्ति। यद् वयं शिक्षयामो यश्च शिक्षयितुमभिलषामस्तेन किं सत्संस्काराणां पोषणं भवत्युत कुसंस्काराणामुत्तेजनं भवति ? - इति त्वस्माभिरेव निश्चेतव्यम् । व्यक्ते : स्वत्व-परिचायनमित्येक एवोद्देश्यः शिक्षणस्य । तत्पश्चाद् न किमपि कर्तव्यशेषमवशिष्यते शिक्षणस्य । स्वत्वपरिचायनेनैव व्यक्तेर्व्यक्तित्वस्य निर्माणं विकासो वा जायते । किन्तु, गर्ते पतितः कश्चिद् व्रणितश्चेत् किं विलेपनमुपयोगि ?, रोगः समुद्गतश्चेत् किमौषधं प्रयोक्तव्यम् ?-इत्येतदस्ति वर्तमानकालीनस्याऽस्माकं शिक्षणस्य स्वरूपं तात्पर्यं वा ! एतादृशमेव शिक्षणं दातुं वयमुत्सुका अपि । किन्तु रोग एव यथा तस्य IN नोद्गच्छेद्, पथा च गर्ने पतनमेव तस्य न स्यात् - एतादृशस्य शिक्षणस्य तु M कल्पनाऽपि नाऽस्माभिः कृतैव । एतदेव निष्फलत्वं नामाऽस्माकम् । मनोवृत्तेदौर्बल्यं तु कस्य न विद्यते ? सर्वैरपि तदनुभूयत एव । किन्तु तत्सहैव चौन्नत्यमपि मनोवृत्तेः सर्वेषु विद्यत एव । केवलं तस्योज्जागरणं परिचायनं वाऽऽवश्यकम् । तदुज्जागरणं परिचायनं वा येन जायते तलामैव शिक्षणम् । Page #5 -------------------------------------------------------------------------- ________________ ||| || ||| ||IN D ||| ||| || शिक्षकाश्च ? शिक्षकास्तेषामाचरणं जीवनरीतिश्चापि विद्यार्थिनां कृते आदर्शरूपा भवेयुः । शिक्षणं न वाणिज्यमपि तूत्तरदायित्वमस्ति - एकस्य जीवनस्योत्तरदायित्वम् । एतादृशमुत्तरदायित्वं ये न सम्यङ् निर्वहन्ति तेषामपराधस्तु कियान् महानिति विचारणीयम् । ___ तादृशं किं कृतमाचरितं वाऽस्माभिर्येन बालकास्तेषामुन्नतस्य स्वत्वस्य सत्त्वस्य च परिचयं प्राप्नुयुः ? विभिलैर्माध्यमैस्तेषां पुरतोऽस्माभिः किं कीदृशं च प्रस्तुतम् ? सर्वत्र पश्यन्तु नामदूरदर्शने, सामयिकेषु, वृत्तपत्रेषु, चलच्चित्रेषु च; नैतावदेव विद्यालयेषु महाविद्यालयेषु वा यादृशी स्पर्द्धाऽऽयोज्यते, तदपि निरीक्षन्तां नाम - कुसंस्काराणामाधानमुत्तेजनं चैव तेन जायते । ज्येष्ठविद्यार्थिन: कनीयसः सन्त्रस्यन्ति । एषा प्रवृत्तिस्तु वृद्धिं गताऽद्य । 'विद्यानां लयो यत्र स विद्यालयः' इति व्युत्पत्तिरद्य सत्यं जायमाना परिदृश्यते । एतत्सर्वमपि विषपरीक्षणमिव भयजनकमस्ति । तेषां कोमले मानसे कीदृश्यो विकृतयः प्रविशन्ति ? एतल केवलं तेषां स्वेषां कृतेऽपि तु कुटुम्बस्य, ग्रामस्य, राज्यस्य, राष्ट्रस्य च कृतेऽपि भविष्यति काले हानिं जनयति । अस्याः स्थितेः क उत्तरदायकः ? उलतः कश्चिदादर्शः प्रस्तोतव्यस्तेषां समक्षं, तादृशमेव च शिक्षणीयं येन ते स्वकीयजीवनस्य मूल्यं जानीयुः, स्वकीयस्वत्वस्य सत्त्वस्य शक्तेश्वाऽप्यपरं रचनात्मकं पार्श्वमभिगच्छेयुश्च । एतदस्ति दायित्वं मातापितॄणां शिक्षकाणां विभिन्नपदस्थितानां राजकीयपुरुषाणां च । किन्तु बहुलतयात्र निष्फलतैव प्राप्ताऽस्ति । दोषारोपणे वयं निपुणाः, किन्तु न स्थितेः सम्यकपरिशीलनाय सज्जाः । नाऽत्र सर्वथा युववर्गस्य दोषः । तेषां तादृश्याः स्थितेर्निर्माणेऽस्माभिः कियान् भागो नियूंढ इत्यपि चिन्तनीयमेव । मूलगामी विचारो विमर्शो वा यावन्न प्रवर्तेत न तावत् किमपि परिवर्तनं शक्यम् । दोषारोपणं सुरं सुलभं चापि कित्त्वात्मनिरीक्षणमात्मपरीक्षणं हत्यन्तं दुष्करं दुर्लभं च । करिष्यामः किं वयमेतद्पमात्मनिरीक्षणम् ? न केवलं संस्कृतेर्गानेन, विगानेन वा युवव्रजानां किमपि कार्यं सेत्स्यति । प्रथमाऽऽवश्यकताऽस्ति शिक्षणस्य संरचनायां पद्धतौ वाऽऽमूलचूलपरिवर्तनम् । तद्विना सर्वेऽपि प्रयत्ना क्षारोपरि विलेपनमिव निष्फला भविष्यन्ति । इति शम् । आषाढकृष्णदशमी कीर्तित्रयी अहमदाबाद-राजनगरम् | AON Page #6 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः डॉ. वासुदेव वि. पाठक 'वागर्थ' ३४, सरस्वतीनगर, आंबावाडी, D अमदावाद-१५ मान्याः सङ्कलनकर्तारः मुनयः, "नन्दनवनकल्पतरुः" सादरं प्रणतयः । ह्यः एव प्राप्तः अष्टादशतमोऽङ्कः । प्रीत्या पठितः । निर्व्याजतया र वाच्यं यत् सामयिकस्याऽस्य पठनेन, रुचिरं रोचकं रम्यं सारस्वतं च सारदम् । समेष्वङ्केषु सत्तत्त्वं प्राप्यते सत्प्रसन्नता ।। नन्दनवनकल्पतरोश्छाया, सद्गुरुचरणैश्च मुदा पुष्टा । नन्दयति नितान्तमहो पुण्या, मादयति मनोहरता मिष्टा ।। सम्मेलनं संस्कृतसेवकानां, गीर्वाणवाणीरतसज्जनानाम् । गुरोः कृपालब्धसुधासमृद्धा, कीर्तित्रयी साधयतीति धन्यम् ।।अस्तु ॥ अङ्कस्य प्रास्ताविके, राज्यधर्मरूपं प्रथमं कार्यं शिक्षणमिति सत्यं सूचितम्। 'सेल्फफायनान्स'- युक्त्या सर्वकारेण तदेव वर्ण्यते इति कारुण्यम्; पतनस्य प्रारम्भः । यावदस्माकं पाठशालापद्धतिः प्रवर्तते स्म, गुरुशिष्यपरम्परा च यावद् ॥ ऋद्धाऽऽसीत्, तावत् शिक्षणे सत्त्वमासीत् । विदेशीयैस्तद् विचार्यैव सा विनाशिता, स्वशासनं स्थापयितुम् । अधुना, अस्मदीया एव, शिक्षणस्य व्यापारे व्यस्ता विवेकविनाशिनः विषसिञ्चकाश्च जाताः । विना विवेकं स्वातन्त्र्यं स्वच्छन्दत्वेन वर्धते । स्वच्छन्दत्वेन सत्त्वस्य नाशश्च सर्वनाशकः ॥ "भवति विनिपातः शतमुखः" ॥ भवद्भिः समीचीना कृतैषा चर्चा, शासकानां, समाजस्य च कृते, वैचारिकेऽपि फलके स्यात् तथाऽपि श्रेयस्साधकम् ॥ अस्तु शिवम् ॥ सम्पूज्यैः आचार्यवर्यैः विजयशीलचन्द्रसूरीश्वरैः श्रीवर्धमानजिनस्तवनस्य कृतः गीतानुवादः सुखयति । प्रणम्यन्ते पूज्याः एतदर्थम् । एतादृशानां गीतानां स्वरनियोजनं करणीयं, प्रचार: प्रसारश्च कार्यः ॥ लेखकानां सम्पर्कसङ्केतः सम्पादकानामुदारत्वं सूचयति । एतदर्थं धन्यवादाः ॥ D . Page #7 -------------------------------------------------------------------------- ________________ वाचकानांप्रतिभावः Dr. M. R. Dwivedi M.A. (Sanskrit), B.A.M.S Nandapur पू. श्रीविजयशीलचन्द्रसूरिवर्याः, सप्रेम नमो नमः । अष्टादश्यां शाखायां "अहो मातृत्वम्" सत्यघटनैषा नितरामरोचत मह्यम् । "उत्तम शासनम्" कथेयमपि अतीव बोधप्रदा आसीत् । अस्याः पठनेन महाभारतस्य श्लोकोऽयं स्मृतिपथमायाति । कालो वा कारणं राज्ञो राजा वा कालकारणम् । इति ते संशयो मा भूद् राजा कालस्य कारणम् ॥ यथा राजा तथा प्रजा । राज्ञः मनसि ये ये विचाराः आयान्ति तेषां प्रभावः प्रजायाः मानसोपरि भवत्येव इति सत्यं सुचारुरूपेण विशदीकृतमस्ति अत्र । धन्यवादाः । वाचकानांप्रतिभावः डा. रूपनारायणपाण्डेयः प्रयागः सप्तदशं नन्दनवनकल्पतरूं सम्प्राप्य प्रसीदामि । प्रास्ताविकं नितरां तथ्यमूलकमस्ति । भारतीयानां धर्मसहिष्णुतां विज्ञाय इतरधर्मावलम्बिनोऽत्राऽऽगत्य दीनान् दरिद्रान् च किमपि धनं दत्त्वा, सेवां वा कृत्वा तान् स्वधर्मे निवेशयन्ति । इत्थं ते दीनान् अशिक्षितान् च स्वधर्मात् पृथक्कुर्वन्ति । नीतिरेषा सर्वथा निन्दनीयाऽस्ति । अत्राऽस्माकमपि कश्चिद् दोषोऽस्ति । वयं स्वधर्मस्य दीनान् दरिद्धान् पीडितान् च न संरक्षामः । अस्माकं तान् प्रति साहाय्याभावोऽपि कोऽपि हेतुः । अस्माभिः सम्भूय धर्मान्तरणप्रवृत्तिनिरोद्धव्या । यथा भगवता रामेण वनवासिनो वानरा निषादादयश्च प्रेम्णा समालिङ्गिताः, तथाऽस्माभिरप्येते प्रेम्णा सौहार्देन च सम्माननीयाः संरक्षणीयाश्च । श्रीमुनिकल्याणकीर्तिविजय-मुनिधर्मकीर्तिविजय-राजेन्द्रमिश्रप्रभृतीनां रचना नितरामभिनन्द्यसत्त्वाः । पत्रिकेयं पाठकान् न केवलं नन्दयति, अपि तु समाजं सन्मार्गमप्युपदिशति, सुरभारतीसाहित्यमपि च संवर्धयति । जयतु संस्कृतं संस्कृतिश्च । Page #8 -------------------------------------------------------------------------- ________________ Poses 2e0 commad COM अनुक्रम LOOL COM कृतिः कर्ता पृष्ठम् श्रीचिन्तामणिपाष्टिक स्तोत्रम् श्रीमद्विजयनेमिसूरीश्वरशिष्यः प्रवर्तकमुनिश्रीयशोविजयः ०१ मुनिधुरन्धरविजयः ०४ श्रीशङ्केश्वरपार्श्वनाथजिनस्तोत्रद्वयम् श्रीशत्रुञ्जयपाश्र्थनाथस्तवनम् श्रीरैवताचल(गिरनार)तीर्थयात्रा सुभिकल्याणकाविलाः मुनिकल्याणकीर्तिविजयः ०८ मुनिकल्याणकीर्तिविजयः ०९ (सर्वशारमान्यं सत्यम् ॥ व वि. पाठकः पृथ्वीवन्दनम् डॉ. आचार्य रामकिशोर मिश्रः १३ Page #9 -------------------------------------------------------------------------- ________________ कृतिः कर्ता पृष्ठम् गावजाहिकादयमा प्रा. अभिराज राजेन्द्र मिश्रः १४ (हाईकू-षट्कम् डॉ. वासुदेव वि. पाठकः १६ चिन्तनधारा मुनिरत्नकीर्तिविजयः १७, आदिकविवाल्मीकि:कविः किं वा मनोवैज्ञानिक:? डॉ. महेश्वरः द्विवेदी २१ पत्रम्....... मुनिधर्मकीर्तिविजयः २३ आलाचनम कतिः संस्कृताश्रिता किम एच्. वि. नागराजराव् ३० ग्रन्थसमीक्षा सागरविहङ्गमः डॉ० रूपनारायणपाण्डेयः ३२ Page #10 -------------------------------------------------------------------------- ________________ कृतिः कर्ता पृष्ठम् 1966080 श्रीकृष्णचन्द्राष्टकम् डॉ० रूपनारायणपाण्डेयः ३४ काव्यानुवादः मुनिकल्याणकीर्तिविजयः ३६ अनुवाद मुनिकल्याणकीर्तिविजयः ३७ 9 प्रक्षिपरिवत ललितकथा देवषि कलानाथ शास्त्री शास्त्रप्रौढिचमत्काराः स्मरणम्) दुःखमिश्चित हास्यम् मुनिधर्मकीर्तिविजयः। ६० Page #11 -------------------------------------------------------------------------- ________________ कृतिः कर्ता पृष्ठम् कथा परोपकाराय सतां विभूतयः मुनिरत्नकीर्तिविजयः गुणोषु यत्नः क्रियताम् मुनिरत्नकीर्तिविजयः ६८ न्याय्यात् पथः पवित्र _ मुनिधर्मकीर्तिविजयः पदं न धारा: पथ मुनिधर्मकीर्तिविजयः। ७५ अहिमाया विजया भाग्यपरीक्षणम मुनितीर्थबोधिविजयः ७७ दौर्भाग्धमुत सौभाग्धम् । मुनिविश्वचन्द्रविजयः ९८ पुनर्नवा प्रा. अभिराज राजेन्द्र मिश्रः। ९९ 10 Page #12 -------------------------------------------------------------------------- ________________ कृति: प्राकृतविभागः श्रीमधुमतीमण्डन- श्रीजीवत्स्वामिद्वात्रिंशिका पाइयकहावली १. फलसालस्स कहा २. मुक्खस्स कहा सउन्दलाचरियं कर्ता कीर्ति 11 आचार्य श्रीविजयपद्मसूरिः १११ डॉ. आचार्य रामकिशोर मिश्रः ३. Xerox प्रतयो नैव परिशील्यन्ते । (Computer prints स्वीक्रियन्ते ।) ४. अन्यत्र सामयिके प्रकाशितं प्रकाश्यमानं वा साहित्यं न प्रेषणीयम् । आचार्यश्रीविजयकस्तूरसूरिः ११६ लेखकेषु वाचकेषु च सूचना १. सुरुचिपूर्णं शिष्टं च गद्यं वा पद्यं वा सर्वमपि साहित्यं स्वीक्रियते प्रकाशनार्थम् । २. पत्रस्यैकस्मिन्नेव पार्श्वे शिरोरेखामण्डितं स्पष्टं च लिखित्वा प्रेषणीयम् । पृष्ठम् १०८ ५. वाचकैरपि स्वसङ्केतपरावर्तनेऽवश्यं ज्ञापनीया वयं येन सामयिकप्रेषणे सौकर्यं स्यात् । प्रतिभावानामपि केवलं प्रशंसायामेव तात्पर्यं न स्यात् किन्तु वस्तुनिष्ठः प्रतिभावो भवतु । ६. ११८ Page #13 -------------------------------------------------------------------------- ________________ सन विशेषविज्ञप्तिः र आचार्यपदशताब्दीसमर्चना वि.सं. २०६४तमवर्षं विंशशताब्द्याः यथावस्थिततत्त्वप्रणयनप्रवीणविशुद्धधियां विद्वद्व्न्दवन्द्यानां परमप्रभावकाणां शासनसम्राजां जैनाचार्यवर्यश्रीविजयनेमिसूरीश्वरभगवतामाचार्यपदारोहणशताब्दीवर्ष-मस्ति । यस्मिन् काले सामान्यतया संस्कृतभाषाविदोऽपि जनाः समाजे विद्वन्मुख्यत्वेन पूज्यन्ते स्म तस्मिन्नपि काले तैर्व्याकरण-काव्य-कोशालार-च्छन्दस्तर्कादिशास्त्राणां पारगामित्वं प्राप्य षड्दर्शनानि, स्वान्यसिद्धान्ता, आगमा, अन्यानि च शास्त्राणि स्वयमधीतानि स्वशिष्येभ्यश्चाऽध्या-पितानि; विशुद्धप्रज्ञाबलेन च व्याकरणमधिकृत्य बृहल्लघुपमलघुहेमप्रभाख्यास्त्रयो गन्थाः, न्यायविषयकाश्च न्यायसिन्धु-प्रतिमामार्तण्ड-अनेकान्ततत्त्वमीमांसासप्तभङ्गयुपनिषद्-नयोपनिषद्-इत्याख्या मूलग्रन्थाः न्यायालोकटीका-न्यायखण्डनखण्डखाद्य(जैन)टीका-सन्मतितर्कटीका-अनेकान्त-व्यवस्थाटीका-इतिटीकाग्रन्थाश्च विरचिताः; सहैव रघुवंशमहाकाव्यस्य द्वितीयसर्गस्य २९ श्लोकानां किरातार्जुनीयमहाकाव्यस्य च १९ श्लोकानां चाऽपि विस्तृता वृत्तिर्विरचिता । एवं च समग्रेऽपि जैनसमाजे ज्ञानयोगस्य महज्ज्योतिः प्रज्वलितं तैः । वि.सं. १९६४ तमे वर्षे ज्येष्ठशुक्ल-पञ्चमीतिथौ योगविधिपुरस्सरं जैनशासनेऽस्याः शताब्धाः सर्वप्रथममाचार्यपदं समधिरूढवन्तस्ते । एनं शुभावसरमुपलक्ष्य नन्दनवनकल्पतरोरागामिनी शाखा श्रीविजयनेमिसूरिविशेषाङ्कत्वेन प्राकाश्यं नेष्यते । अस्य विशेषाङ्कस्य कृते गुरुगुणवर्णनमधिकृत्य रचितं गद्यं पद्यं वा संस्कृतभाषया प्राकृतभाषया वा रचितं साहित्यं प्रेषयितुमामव्यन्ते विद्वज्जनाः । 12 Page #14 -------------------------------------------------------------------------- ________________ प्रथमैकवचनान्तपदैः श्रीचिन्तामणिपाष्टिक स्तोत्रम् श्रीमद्विजयनेमिसूरीश्वरशिष्यः प्रवर्तकमुनिश्रीयशोविजयः श्रीचिन्तामणिपार्श्वनाथममरस्तुत्यक्रमाम्भोरुहं, दर्पोद्दामकरीन्द्रकुम्भदलनप्रख्यातकण्ठीरवम् । क्रोधक्रूरभुजङ्गगर्वगिलनश्रीवैनतेयोपम, स्तोष्येऽहं प्रथमान्तशब्दनिवहैरेकत्वसंराजितैः ॥१॥ (पृथ्वीच्छन्दः) जयत्यखिलख्नेचरप्रखरमौलिरतप्रभाप्रभासितपदाम्बुजप्रचलरेणुपुञ्जेन्दिरः । निरस्तजनमानसप्रभवदर्पकाडम्बरः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥२॥ जयत्यतुलविक्रमप्रहतमानमायानलप्रजातमवरोगकप्रशमनप्रजाताक्षरः । विपद्ब्रजधराधरोद्दलनवज्रपातस्मृतिः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥३॥ जयत्ययभरोद्भवत्प्रबलदुःखदावानलप्रदनभविमानसप्रशमदानधाराधरः । विमुद्रनवमल्लिकाकुसुममित्रकीर्तिव्रजः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥४॥ Page #15 -------------------------------------------------------------------------- ________________ जयत्यमदीर्घिकाजलजजालगर्वापहप्रसृत्वरविलोचनप्रशमितोग्रपापज्वरः । प्रमोहरजनीशतक्षपणवाक्यभानूदयः, प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥५॥ जयत्यवनिसंस्थिताखिलकुसूष्टिवादप्रथानिरस्तभविसन्मतिप्रबलदानकल्पद्रुमः ॥ प्रभीषणभयार्णवप्रबलकर्णधारक्रमः । प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥६॥ जयत्यसमसद्युतिप्रकरसारपीयूषकप्रसिञ्चनकृतावनिप्रबलशान्तिसङ्गक्रमः ॥ सुधासमसमुच्छलद्वचनजातवेगोद्धरः। प्रभूतकणारसप्रसरणः स चिन्तामणिः ॥७॥ जयत्यजितविक्रमप्रवरदन्तवेगोद्भवत् समग्रकलुषद्रुमोद्दलनदृप्तदन्तावलः ॥ समस्तभुवनोदयप्रथनवैनतेयारवः प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥८॥ जयत्युरुगुणावलिप्रसितचित्रमुक्ताफलप्रकाशिचरणावगत्युदितशुद्धजैनागमः ॥ अचिन्त्यचरितोज्ज्वलज्ज्वलनभासपक्षच्छविः प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥९॥ (अनुष्टुब्बृतेन स्तुत्यनामगर्भो बीजपूरक प्रबन्धः) जय चिन्ताव्रजोद्धार ! जय तापहरो र ! ॥ जय मन्युप्रसंहार ! जयोष्णिक्स्तु तसंवर ! ॥१०॥ Page #16 -------------------------------------------------------------------------- ________________ (शार्दूलविक्रीडितवृत्तेन कविनामगर्भश्चक्रबन्धः) यः सौख्यं विदधाति भव्यभविषु प्रौढप्रतापोदयः शोकं हन्ति स सर्वभूतभयसंहारो विहारो गिराम् ॥ विज्ञानप्रसुवां सुरेन्द्रभरसंपूज्यो महर्षिः सदा जन्तुक्रोधशमः शिवाय भविनां भूयात् स चिन्तामणिः ॥११॥ श्रीनेमीश्वरसूरिराज्यसमये भव्यारविन्देनभाविद्वत्कै रवचन्द्रिका समजनि प्रौढप्रभावरमृतेः । तस्यैवाऽतुलतेजसो मम गुरोरेषा स्तुतिः पावनी, यावद्भूमिरतो धराधरधरा तावज्जनैः पठ्यताम् ॥१२॥ एना पार्श्वगुणप्रवाहकणिकाबोधेन धर्मद्रुमप्रोल्लासामलशान्तिवारिविसरप्रोद्वर्षिणी मानवाः !। अज्ञेनाऽपि मया कृतां भणत भोः किं वर्धितः पावको, मूढेनाऽपि न तार्णकूटदहने प्रौढप्रभावो भवेत् ॥१३॥ एषा यशोविजयसञ्जकृता तनोतु, मोदं नवा बुधजनस्य किमस्ति तेन । श्रीपार्श्वपादयुगले तु समर्प्यमाणा, पापानि सर्वभविनां निहनिष्यतीह ॥१४॥ श्रीनेमिसूरिपादाब्जप्रभावविहिता स्तुतिः । पठ्यमाना सदा भूयात् सर्वकल्याणकारिणी ॥१५॥ निजस्फुरद्वाग्वज्रविदारितपाखण्डप्रचण्डखर्वगर्वपर्वतमहोपदेशामृतसेकसंवर्द्धित भव्यभविहृदयगमातिशर्मदजिनोपज्ञसुज्ञानदानसिद्धान्तसारकारुण्यलताचार्यवर्यश्रीमद्विजयनेभिसूरीश्वरपादपङ्कजमिलिन्दयशोविजयमुनिना विरचितं प्रथमैकवचनान्तपदसन्दर्भितश्रीचिन्तामणिपाश्र्वाष्टकं स्तोत्रं समाप्तम् ।। Page #17 -------------------------------------------------------------------------- ________________ श्रीशङ्केश्वरपार्श्वनाथजिनस्तोत्रद्वयम् मुनिधुरन्धरविजयः (१) (हरिगीतं छन्दः) सकलमङ्गलकारि-हारि-दिव्य-महिमा नायकः, कलिकालकल्पतरूपमो यः सर्ववाञ्छितदायकः । यः साधकानां स्वल्पकालेनैव सिद्धिविधायकः, शङ्ग्रेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥१॥ दूरीकरोति सर्वदुरितोपद्रवान् यो दर्शनाद्, विद्रवन्ति नु वेदना यत्नात्रजलसंस्पर्शनात् । क्लेशा अशेषा नामशेषा यस्य चरणस्पर्शनात्, शङ्गेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥२॥ यन्नामजपतो विघ्नवृन्दं दूरतः प्रपलायते, यदिव्यरूपं भक्तजनतानेत्रयोरमृतायते । यत्स्मरणमेवाऽशेषवाञ्छापूर्तये सञ्जायते, शवेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥३॥ यो निर्मितो भगवानषाढिश्रेष्ठिना शुभवासने, उत्सर्पिणीसमये पुरा दामोदरार्हच्छासने । ज्ञात्वा रतो निजमुक्ति हेतुं यस्य नित्योपासने, शङ्केशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥४॥ वैमानिके किल देवलोके दीर्घकालं यः स्थितः, चान्द्रे विमाने भानवे चाऽसङ्ख्यकालं चर्चितः । वैताढ्यशैले नमिविनमिविद्याद्यराभ्यामर्चितः, ___ शकेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥५॥ Page #18 -------------------------------------------------------------------------- ________________ पाताललोकेऽसङ्ख्यकालं यावदेषोऽवस्थितः, धरणेन्द्रपद्मावतीकोटाकोटिपाटीपूजितः । अन्यैश्च सङ्ख्यातिगसुरेश्वरदानवेशैः सेवितः, शङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥६॥ चैरिप्रयोजितविद्यया जाते जरा निजबले, पातालतस्तपसाऽऽनिनाय श्रीधवो यं भूतले । नष्टा जरा सा यस्य सिक्के खात्रनीरे निर्मले, शृङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥७॥ श्रीपार्श्वकृपया प्राप्य विजयं यत्र शङ्खः पूरितः, गगनचुम्बिदेवनिलयस्तत्र हरिणा कारितः । स्वस्थानतोऽपि च सदा नमति स्म भक्ति प्रेरितः, शृङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥८॥ ॐ ह्रीँ तथा श्रीँ अर्हमित्यक्षरयुतः शङ्खेश्वरप्राकृपार्श्वनाथाय च नमोऽसौ षोडशो मन्त्राक्षरः । गुरुणा प्रदत्तो यस्य सिध्यति दिव्यमहिमा भारवरः, शङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम चन्दना ॥९॥ पौषदशमीपर्वकाले त्रिदिनसेवासङ्गतः, प्रतिकृष्णदशमीदिव्यदिवसेऽदृश्यभावेनाऽऽगतः । चरणसेवां यस्य कुरुते धरणनागेशः स्वतः, शङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥ १० ॥ त्वं मे पिता माता च बन्धुस्त्वं स्थितिश्च गतिर्मतिः, त्वं देवता च गुरुश्च भर्ता त्वं हि मे प्रीती रतिः । त्वं प्राणरूपः प्रियतमो मे नाथ ! दैन्ये वैभवे, मम सर्वसिद्धिधुरन्धरः स्वामी त्वमेव भवे भवे ॥११॥ Page #19 -------------------------------------------------------------------------- ________________ (हरिगीतं छन्दः) शङ्केश्वराः परमेश्वरा नागेश्वरार्चनभास्वराः, श्रीपार्श्वदेवाः पादसेवानित्यवाकीश्वराः । तव दर्शने संस्पर्शने ये हर्षनेत्रोदकधराः, संसारपारावारसबलोत्तारभीतास्ते नराः ॥१॥ अक्षीणपुण्योऽयं क्षणस्तव वीक्षणक्षणरक्षणः, देवदुर्लभदिव्यदिवसो वदनदर्शनलक्षणः । तव चरणरेणुचारुविचरणचारिमाञ्चितकुन्तलः, भूयां भवेऽभिनवे कदा शुभभावभावितभूतलः ॥२॥ तव गुणगणानां गीतगानं गायतां गुणरागिणां, तव रूपरसरसनारसिकताधारिणां च विरागिणाम् । तव दिव्यवचसां वारिधौ वाणीप्रवाहविहारिणां, शुभभव्यभावभवा भवन्ति भवा भवेषु भवारिणाम् ॥३॥ तव दिव्यमुद्रा दुःखदुर्मतिदुरितदरविद्राविणी, तव दिव्यनेत्रेऽपारकरुणा सुधाधारामाविणी । तव दिव्यकाया क्षीरसिन्धुतरङ्गशोभाधारिणी, मम हृदयकमले वसतु सततं वरसमाधिकारिणी ॥४॥ स्मृत्वा भवन्तं विकसितेन हृदा मुदा नलिनायितं, श्रुत्वा भवन्तं तप्तचेतोवृत्तिना तुहिनायितम् । दृष्ट्वा भवन्तं नाथ ! नयनैर्हर्षितैश्च घनाचितं, स्पृष्ट्वा भवन्तं देव ! तनुना पुलकितेन वनायितम् ॥५॥ मणिमुकुटमण्डितमस्तकं केयूरकलगलकन्दलं, चलकर्णयुगलालम्बिकाञ्चनरलनिर्मितकुण्डलम् । शशिबिम्बनिर्मलदिव्यमुक्तादामदीपोर:स्थलं, त्वामीश ! वीक्ष्य विभूषितं मम नृत्यतीह मनश्चलम् ॥६॥ Page #20 -------------------------------------------------------------------------- ________________ सुकुमालपदतलकोकनदमम्भोजसमविलसत्कर, वरवदनसुन्दरपुण्डरीकं नेत्रनीलेन्दीवरम् । शुभब्राहारिहेमसरसीरुहशोभापीवरं, तव चङ्गमङ्गं भाति लक्ष्मीधाम पद्मसरोवरम् ॥७॥ सन्ध्याक्षणे प्रकटीकृतायां दीपमालायां भवानाविष्करोति विश्वविरमयकारिरुपछटां नवाम् । परिवर्तमानां प्रतिपलं तां शमितचित्तोपप्लवां, सम्प्रेक्षमाणाः प्राप्नुवन्ति सम्मुदं प्रशमोद्भवाम् ॥८॥ हे नाथ ! तव चरणाम्बुजन्मनि मानसं मम लीयतां, नेत्राम्बुजं मम रूपशोभां तव सदा पेपीयताम् । हरताम्बुजाभ्यां तव शिरसि मे वास ईश ! विधीयतां, हृदयाम्बुजान्मम कलुषकलिलं तव कृपातो हीयताम् ॥९॥ इत्थं स्तुत ! श्रीपार्श्वजिनवर ! शमपुरवरमण्डन ! तव नामजपतः शमितनिखिलोपद्रवावलिभण्डन ! । वरकल्पतरुसम ! परममहिमाबलदुरितदलखण्डन ! हे ! सर्वदेवधुरन्धर ! त्वं देहि बोधिमदण्डन ! ॥१०॥ समृद्धि एपार्टमेन्ट चन्दननी पाछळ, हाई-वे, नवा डीसा - ३८५५३५ Page #21 -------------------------------------------------------------------------- ________________ - 000रूर लरूVD ललकल श्रीशत्रुञ्जयपाथनाथस्तवनम् मुनिकल्याणकीर्तिविजयः (राग: आशावरी) वन्दे पार्श्वजिनेश्वरदेवं, श्रीशत्रुञ्जयतीर्थविभूषण-मपगतदूषणसेवम्.... वन्दे .... ॥ श्यामलकायं दितभवमायं विशसितकर्मानायं, स्मितमयवदनं करुणासदनं प्रहतदुरितसमुदायम्.... वन्दे .... ॥ यद्यपि बहुकालं हे स्वामिन् ! त्वत्तो दूरमुषितवान्, तदपि सुविहितः शुभलेशो मां त्वन्निकषा प्रापितवान्.... वन्दे .... ॥ एवं सत्यपि नाथ ! विनटितः पीड्ये रिपुषट्केन, याचे तेन त्वत्साहाय्यं मह्यं देह्यचिरेण .... वन्दे .... ॥ उपशमरसभरपूर्णसरस्वन् ! कल्मषतिमिरविवस्वन् ! वितरतु देव ! सकलकल्याणं, भव्यजनाम्बुजभास्वन् ! .... वन्दे .... ॥ .। .. .. .. । Page #22 -------------------------------------------------------------------------- ________________ M ...I N wwwwwww VAVV Www श्रीरैवताचला गिरनार)तीर्थयात्रा मुनिकल्याणकीर्तिविजयः श्रीकृष्णवंशप्रभवैर्हि यादवैः, प्रपालितो यः सुचिरं धराधवैः । समुद्र-तीर्थाद्रि-वनैः सुभूतिको, . देशेषु प्रष्ठः प्रथते सुराष्ट्रकः ॥१॥ (उपेन्द्रवंशा) राराष्टि मुख्यपुरमत्र हि जीर्णदुर्गं, यच्छोभते बहुमहालयपूर्णदुर्गम् । देवालया गुरुकुलानि मठाश्रमाश्च, सन्त्यत्र दुर्गमपथे नगरे प्रभूताः ॥२॥ (वसन्ततिलका) तत्पार्श्वतो विलसतीह समुच्चशृङ्गः, शैलो हिमालयगिरेश्च चिरन्तनोऽसौ । शास्त्रेष्वसावभिहितः खल रैवतेति, सम्प्रत्यसौ हि गिरनार इति प्रसिद्धः ॥३॥ (वसन्ततिलका) दृक्पातनादपि स मोहयतीव नृणां, चित्तानि, काय-वदनानि निरीक्षणेन । सन्तर्पयत्यतितमां बत यात्रिकांश्च, गार्वनैः परिवृतः सहनिहरैर्यः ॥४॥ (वसन्ततिलका) ARE . . . . . . . . . . . . Page #23 -------------------------------------------------------------------------- ________________ 'क्षणे क्षणे यन्त्रवतामुपैति, तदेव रूपं रमणीयतायाः । इतीरिता या विबुधैर्हि व्याख्या, बिभर्ति तामेष गिरिर्नु साक्षात् ॥५॥ ( उपजातिः) सहकारवृक्षैर्विलसत्पताकं, तुङ्गैश्व शृङ्गैः शुचिछत्रयुक्तम् । श्री नेमिनाथस्य निषीदनार्थं, सिंहासनं शैलमयं चकास्ति ॥ ६ ॥ ( उपजातिः) सोपानानां पतित्राऽस्ति रम्या, सङ्ख्याचितैरङ्गिता तत्र तत्र । घट्टे घट्टे विद्यते ह्यापणालिः, श्रान्ताद्यर्थे खाद्य-पेयादिकानाम् ॥७॥ ( शालिनी) जिनालयानां च सुरम्यश्रेणिविराजते शैलशिरः प्रवेणी | तत्राऽस्ति मुख्यं पृथुमण्डपं च, श्रीनेमिनाथस्य मनोज्ञचैत्यम् ॥ ८ ॥ ( उपजातिः) श्रीनेमिनाथः कीदृश: ? जना: प्राहुः सहइ एत्थ खु णेमिजिणेसरो, विमलकज्जलसामलविग्गहो । असियसिंधुजलंमि दिवायरो, aणु णिमज्जिय झत्ति समागओ ॥९॥ ( द्रुतविलम्बितम्) १० Page #24 -------------------------------------------------------------------------- ________________ MEWATER WWW अत्रास्ति भैरवजपाभिधमुच्चशृङ्गमारुह्य यत् तु मनुजा विविधाभिलाषाः । कामं प्रपत्य मरणं शरणीभवन्ति, हा कष्टमज्ञजनदुश्चरितं किलैतत् ॥१०॥ (वसन्ततिलका) अद्रेनितम्बे सहकारवृक्षैः, पूर्णं सहस्राम्रवणं चकास्ति । दीक्षा गृहीतेह नु नेमिनाथैः, सत्केवलज्ञानमपीह लब्धम् ॥११॥ (उपजातिः) अस्याऽद्रेर्लसदुच्चशृङ्गफलके निःशेषकर्मक्षयानिर्वाणं समवाप्य सिद्धिधरणौ यः शाश्वतं संस्थितः । तं श्रीयादववंशपुष्करतले दीप्तं नवं भारकर, वन्दे रैवतशैलमौलिमुकुटं श्रीनेमिनाथं जिनम् ॥१२॥ (शार्दूलविक्रीडितम्) . . . . . . . . . . . . . . . . . . ११ Page #25 -------------------------------------------------------------------------- ________________ सार्वसारमायं सात्यामा ) डॉ. वासुदेव वि. पाठक: ‘वागर्थ' सत्यं हि परम तत्वं, सत्यं धर्मार्थबोधकम् । सत्येन साध्यते सत्यं, सत्यं सत्यार्थसाधकम् ॥ प्राप्यते येन सत्येन प्रीत्यात्मिका, सर्वकल्याणदात्री त्वहिंसा मुदा । कान्तिदं शान्तिदं सत्यरूपं शिवं सुन्दरं सद्गुरोराशिषा साध्यते ॥ सत्यं यत्पमं सदात्मनिरतैर्भद्रं यहोवात्मकमर्हद्-बुद्धमयं शिवं मुनिवरैर्नित्यं त्वहुर्मज्द वा । सत्-नामेति च राध्यते सुमनसा अल्लाह ताओ इति, तत्त्वं तद्विदधातु शान्तिमतुलां तुष्टिं च पुष्टिं शुभाम् ॥ ३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५ १२ Page #26 -------------------------------------------------------------------------- ________________ पृथ्वीवन्दनम् + Da डॉ. आचार्य रामकिशोर मिश्रः पश्वी हि तां भगवती शिरसा नमामि | विश्वम्भरां क्षितिमिलामचलामनन्तां, सर्वंसहां वसुमतीं धरिणिं धरित्रीम् । गोत्रां रसां मनसि यां वसुधां स्मरामि, पृथ्वी हि तां भगवतीं शिरसा नमामि ॥१॥ (२) अङ्गो यदा विचलितां न ररक्ष भूमि, तां कश्यपो जगति रक्षितवान् विशालाम् । तन्नामधारणधरा त्वभवत् स्थिरा या, तां काश्यपी भगवतीं पृथिवीं नमामि ॥२॥ भूर्दुष्टभारचलिता ह्यभवद्यदानीं, दत्तं तदोरु च भुवे ऋषिकश्यपेन । तन्नामकीर्तिरभवद्धि ततश्च यस्याः, उर्वी हि तां भगवतीं पृथिवीं नमामि ॥३॥ क्षोणिं महीं कुमवनिं च वसुन्धरां माम्, गां कुम्भिनी च विपुलामिह रनगर्भाम्, यां सागराम्बरधरां हृदि धारयामि, पृथ्वीं हि तां भगवती शिरसा नमामि ॥४॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २०११०१ Page #27 -------------------------------------------------------------------------- ________________ NOUGIESIEBIGEREI प्रा. अभिराज राजेन्द्र मिश्रः . नूनं पृषोदरत्वात् तव बन्धुता प्रसिद्धा, विपरीतलक्षणत्वात् । तव साधुताऽपि सिद्धा, नूनं पृषोदरत्वात् ॥१॥ वाग्घरिरसि प्रभो ! त्वं संसदि च सुध्युपास्यः । द्वन्द्वेऽप्यहो समर्थो, भूम्नेतरेतरत्वात् ॥२॥ दीर्घोऽस्यकरसवर्णे, जानासि राजनीतिम् । आस्यप्रयलसमता, सिद्धान्तभञ्जनत्वात् ॥३॥ सन्तीह ये कृदन्ताः कोऽर्थो नु तद्धितानाम् । अग्रेसर: क्रियायां, ध्रुवमात्मनेपदत्वात् ॥४॥ कर्मैव जीवनं तत्पुरुषोऽसि कर्मधारय । बहुव्रीहितां भजेथा, मुक्तोऽचिरं द्विगुत्वात् ॥५॥ लोकेषु बहुवचनता स्वजनेष्वपि द्विवचनः । नूनं त्वमेकवचनो न भवस्यभूतिमत्त्वात् ॥६॥ नो कर्म भाललेख्ने, हस्ते न सम्प्रदानम् । सम्बन्धमपि न हृदयेऽनुभवस्यपायसत्त्वात् ॥६॥ सन्धावपि प्रभो ! ते क्वचिदस्ति पूर्वरूपम् । पररुपता क्वचिद् वा, स्वार्थान्धजीवनत्वात् ॥८॥ फणिनाऽपि तेन भाष्यं कथमेव ते चरित्रम् ?। गूढोऽसि मादृशानां शब्देन्दुशेखरत्वात् ॥॥ . . १४ Page #28 -------------------------------------------------------------------------- ________________ DOOOL | DUD • किमतः परं सुखम् ? स्वप्ने मया सुरपुरं दृष्टं, किमतः परं सुखम् ?। . विहृतं नन्दनवने यथेष्टं, किमतः परं सुखम् ? ॥१॥ ऐरावतपृष्ठाधिरोहणान्दोलितेन वपुषा । मया पुरन्दरपदमपि जुष्टं, किमतः परं सुखम् ॥२॥ अनवद्याङ्गि मेनके ! सुन्दरि ! रमरसि मृत्युलोकम् ?। स्वप्नेऽप्सरसं प्रतीति पृष्टं, किमतः परं सुखम् ॥३॥ अभ्यस्तं तुम्बुरुणा सार्धं मया तववाद्यम् । हाहा-हूहूभ्यां सह गीतं, किमतः परं सुखम् शचीकरैालितोऽभवं, वर्धापितश्च हरिणा । तच्छंसायां काव्यं पठितं, किमतः परं सुखम् ॥५॥ स्नातं मयाऽऽकाशगङ्गायां, दुग्धा कामदुहा । मुहुर्मुहुः पीतं मयाऽमृतं, किमतः परं सुखम् દો आरक्षितं मदर्थं स्थानं यन्मरणादूर्ध्वम् । इन्द्रसभायां तदपि लोकितं किमतः परं सुखम् ॥॥ पदे-पदे भोगास्तथाऽपि भोगेच्छा नाऽऽसीन्मे । अनुभूतं शैशवमक्लिष्टं, किमतः परं सुखम् દો स्वप्नो यद्यप्यसौ विलीनः किन्तु मतिर्लब्धा । यन्नैरीयमेव सर्वस्वं, किमतः परं सुखम् ॥ टीचर्स कालोनी, वरिष्ठ माध्य. विद्या. समीप, लोअर समर हिल, शिमला-१७१००५ शिमला-२७००० १५ Page #29 -------------------------------------------------------------------------- ________________ १२DRODGO Gos ANN WWW wwwwsDARS (हाईकू* - षट्कम) डॉ. वासुदेव वि. पाठकः ‘वागर्थ' LARVA उदितः सूर्यः अज्ञानतमोहर्ता सद्गुरुवर्यः॥ धन्यान् करोति सागराम्बा धरा वत्सला धात्री। शृणोति देवः पिपीलिकापदेऽपि नूपुरनादम् ॥ विद्युच्चलेऽपि जीवने, सत्साफल्यम् ईशकृपया ॥ सरिता-तीरे केवलं स्थित्वा, काक्षे सुखं, सन्तृप्तिम् ॥ कार्यस्य कर्ता अहमिति क्रियते कर्मबन्धनम् ॥ सरस्वती नगर, अमदावाद-१५ 'हाईकू' इत्येष विदेशीयः काव्यप्रकारः । अत्र पञ्च, सप्त, पञ्च चेति वणैर्निबद्धा पङ्क्तित्रयी । प्रसङ्गो विचारश्च कोऽपि सूत्रात्मकरीत्या निरूप्यतेऽत्र । वाचकस्तस्याऽर्थवैविध्ये रमते । गुजराते विशेषतः आ.झीणाभाई देसाई नामकैः कविवर्यैः अस्य प्रकारस्याऽवतारः, प्रचारश्च कृतः । संस्कृतभाषाया यस्मिन्कस्मिन्नपि साहित्यप्रकारे सुखदा सरला चाऽभिव्यक्तिरित्यनुभूयतेऽत्र । Page #30 -------------------------------------------------------------------------- ________________ चिन्तनधारा | S/आस्वादः-चिन्तनधारा मुनिरत्नकीर्तिविजयः कामं वनेषु हरिणास्तुणेन जीवन्त्ययलसुलभेन । धनिषु न दैन्यं विदधति ते खलु पशवो वयं सुधियः ॥ अत्यन्तं मार्मिकोऽयं व्यङ्गः । परमत्र किञ्चिद् वैशिष्ट्यमस्ति यदेष मर्म तु विध्यत्येव, न च दुःखमुत्पादयति किन्तु जागरयति, सुषुप्तिमपहरति । येनाऽन्यो जागृतः स्यात् तादृशो व्यङ्गोऽपि सार्थक एव । उन्निद्रणं हि कविकर्माऽस्ति । हितबुद्ध्या प्रेरितो व्यङ्ग एव जागरयति । यस्य हि चेतसि शल्यं वर्तते सोऽपि व्यङ्गं तु प्रयुज्यत एव, किन्तु द्वेषप्रेरितत्वात् स व्यङ्गो व्यथयति परान् । अत एव तादृशस्य व्यङ्गस्य तु नाऽस्ति किमपि मूल्यम् । तेनाऽहङ्कारस्तु तुष्यति न किन्तु कार्यं सिद्ध्यति । निर्मलाशयेन कथितमेव शीघ्रमधिकं च फलं सम्पादयितुमलं भवति । आशयस्यैव महत्त्वं सर्वत्र । मनुष्यमुद्दिश्याऽत्र व्यङ्गः कृतोऽस्ति । प्राणिसृष्टौ मनुष्यो हि 'बुद्धिमान्' इतिरूपेण परिलक्ष्यते । स्वकीयस्य सुखस्य बोधस्तु प्रायः सर्वेष्वपि प्राणिषु विद्यत एव । किन्तु मनुष्यः पदमेकमग्रेसरो वर्तते, यतः सुखेन सहैव स्वहितस्याऽवबोधोऽपि तस्य विद्यते । अत एव हि स सर्वोपर्यस्ति, सर्वत्र सृष्टौ चाऽऽधिपत्यमपि तस्यैव प्रवर्तते । मनुष्यस्य परिचय एक एवाऽस्ति-विचारः, विचारेभ्यश्चोदीयमानो विवेकः । | मनुष्यस्य प्रवृत्तिस्तस्य विवेकं विचारशीलतां वा प्रकटयति । मनुष्यसकाशादेव | विवेकोऽपेक्ष्यते । मनुष्यस्य धर्मः स्वभावः स्वरूपं वा यत्किमप्युच्यतां स विवेक एव, नाऽन्यत् किमपि । आहार-निद्रा-भय-मैथुनानि, सामान्यमेतत् पशुभिर्नराणाम् । धर्मो हि तेषामधिको विशेषो, धर्मेण हीनाः पशुभिः समानाः ॥ 50 अत्र सुभाषिते निर्दिष्टो धर्मः कः ? एष विवेक एव । यत्र विवेकोऽस्ति । तत्राऽर्थोऽपि कामोऽपि च शोभते । तत्राऽर्थोऽपि नाऽनय भवति, नाऽपि कामोऽहिताय निन्दायै वा जायते । यदा हि मनुष्य: स्वधर्माद् विवेकाद् भ्रश्यति तदैव स स्वस्य परस्य > चाऽप्यहितं करोति । अत एव च तस्य तुलना पशुभिः सह क्रियते । गीतायां 'यदा यदा Page #31 -------------------------------------------------------------------------- ________________ हि धर्मस्य ग्लानिर्भवति भारत !' - इत्यत्र दर्शिता धर्मग्लानिरपि किं विवेकग्लानिरेव न ? | विचार्यताम् । विवेकमण्डितो मनुष्यो देवानामपि पूज्यो भवति किन्तु स एव यदा विवेकं | परित्यजति तदा पशुभ्योऽपि हीनतरो जायते । न हि कश्चित् पशुभ्यो विवेकमपेक्षेत । यतोऽविवेक एव तस्य स्वभाव: स्वरूपं वा । भवतु नाम यत्किमपि शिक्षणं पशूनां किन्तु विवेकोदयस्तस्य न सम्भवत्येव । अभ्यासवशात् शुनको यद्यपि निर्दिश्यमानां वस्त्वानयनादिकां क्रियां कर्तुं प्रभवत्येव | तथाऽपि कदा भषणीयं कस्य वा पुरतो भषणीयमित्यस्य विवेकस्तं शिक्षितुं न शक्यते । | स परिचितापरिचितयोर्मध्ये भेदमेव जानाति, न सदसतोर्विवेकं कर्तुं पारयति । एतदेव तस्य पशुत्वम् । अविवेकित्वमेव पशुत्वं विवेकित्वं च मनुष्यत्वम् । एनं विवेकं पुरस्कृत्यैव विचारणीयोऽयं श्लोकः । विवेकमहिमगानमेव ध्वन्यतेऽस्माच्छ्लोकात् । मनुष्यस्याऽविवेकोऽधर्मो व्यथयति कविम् । श्लोकार्थोऽत्र नाऽऽवश्यकः, स त्वयत्रसुलभ एव, केवलं मर्मैवाऽत्र यत्नसाध्यमस्ति । 'ते खलु पशवो वयं सुधियः ' व्यङ्गपूर्वकं कथयति कवि : अहो ! एवं सत्यपि ते पशवो वयं च सुधियः ! | सत्यमेवाऽऽश्चर्यकरमेतत् । मनुष्यरूपेण गौरवं यद्यभिलषितं तर्हि विवेकं पुरस्कृत्यैव वर्तितव्यं सर्वैः । | विवेकशील एव गौरवपूर्वकं जीवितुं प्रभवति । विवेकरहितस्य तु दैन्यमेवाऽऽ श्रयणीयं भवति । दैन्यं च मनुष्यत्वस्योपहासः । हस्तौ संयोज्य म्लानवदनो भूत्वा कस्याऽपि पुरतः प्रार्थनं नामैव न दैन्यमपि त्विच्छानामनल्पत्वमपि दैन्यं, पदार्थानां परिस्थितीनां वा पराधीनत्वमपि दैन्यमेव । आदिनमारात्रि वा सुखसाधनानां पदार्थानां प्राप्तये सङ्ग्रहाय वैव सततं वृत्तौ वर्त्तने वा किं मनुष्यत्वस्य गौरवमस्ति ? 'शीतकयन्त्रमावश्यकमेव, विद्युद्व्यजनं विना तु क्षणमपि स्थातुं न प्रभवामि, वातानुकूलकं त्वनिवार्यमेव'.... अहहह । न केवलं धनिषु दैन्यमपि तु धनेषु पदार्थेष्वपि च ! अहो विडम्बनम् ! जीवनं तु स्वयमेवाऽऽनन्दस्य | सुखस्य च खनिरस्ति किन्तु मनुष्यस्तत् पदार्थेषु मृगयति । आङ्ग्लभाषायामेकं काव्यमस्ति । पुनः पुनः पठनीयं विचारणीयं चाऽस्ति 'We squander health in seeking wealth; we toil, we hoard, we save And then squander wealth in seeking health only to find the grave. १८ Page #32 -------------------------------------------------------------------------- ________________ "प्रथमं तावद् वयं सम्पदः समुपार्जनेऽतिरक्ता: स्वास्थ्यमपि न परिगणयामः । भूरि श्रमं कुर्महे, यथेच्छं सम्पदः प्राप्तिमपि (कदाचित्) कुर्महे, तदनु तस्याः संरक्षणमपि RO कुर्महे । परं तत्पश्चात् (स्वास्थ्यं विना सम्पद उपभोगोऽशक्य इत्यवबुध्य) पुनः स्वास्थ्यं KC प्राप्तुं (तुच्छमिव मत्वा) धनव्ययं कुर्महे । किन्त्वन्ततो गत्वा चितां विहाय किमप्यन्यद् | न लभामहे ।" | कस्याऽपि सुखसाधनादिकस्य प्रापणं तु नाऽपराधः । मनुष्यो यत्नेन श्रमेण वा | किमप्यर्जयतु नाम, न तत्र काऽप्यापत्ति: । किन्तु विवेकं परित्यज्य लोभाविष्ट आसक्तश्च सन् स किमपि प्राप्तुं प्रयतते तदा तस्याऽपराधो जायते- जीवनं प्रति स्वात्मानं च प्रति कृतोऽपराधः । आवश्यकताया इच्छायाश्च मध्ये भेदस्य बोधो नाम विवेकः । अत्र श्लोके कृतो व्यङ्ग एतादृशं भेदमनवबुध्य प्रवृत्तान् जनान् प्रत्यस्ति । आवश्यकतापूर्तये कृताः प्रयत्नाः सफला भवन्ति, न किन्त्विच्छापूर्तये कृताः प्रयत्नाः । सम्राट्सकन्दर इतिहासप्रसिद्धः पात्रमस्ति । विश्वविजयो न तस्याऽऽवश्यकताऽपि त्विच्छाऽऽसीत् । किन्तु न सा पूर्णा जाता। लघुवयस्येव स दिवङ्गतः । यदा तेन सत्यमवगतं तदा तस्य कालः सन्निहित आसीत । अतः स सचितवान- 'मम मरणानन्तरं यदा शवाच्छादनं करणीयं स्यात तदा मम हस्तौ न बन्धनीयौ नाऽप्याच्छादनीयौ। एवमेवाऽनवबद्धहस्तस्याऽनाच्छादितहस्तस्य चैव ममाऽन्तिमयात्रा भवतु, येन सर्वेऽपि जानन्तु नाम यत् किमपि भूरिश्रमेणाऽप्यजितमपि न कस्याऽप्यनुगच्छति, न च कस्याऽपीच्छा कदाऽपि परितृप्ता परिपूर्णा वा भवति' इति । बहुशो मनुष्यो यत् सङ्घर्षरतो दृश्यते तन्नाऽऽवश्यकतापूर्तये किन्त्विच्छायाः परिपूर्तये एव सङ्घर्षः सम्प्रवर्तते । यश्च नाऽऽजीवनं समाप्ति गच्छति । दारिद्यं न साधन सम्पदादीनामभावमवलम्बते किन्तु मनोवृत्तिमवलम्बते – ‘स हि भवति दरिद्रो यस्य तृष्णा bp विशाला' । एतादृशो जनो दीन एव भवति । न स जीवनस्याऽऽनन्दमनुभवितुं शक्नोति ।। सर्वं सत्यपि स रिक्ततामेवाऽनुभवति । स स्वयं सर्वत्राऽनुकूलो भवितुं न यततेऽपि तु र (सर्वमपि स्वस्याऽनुकूलं यथा स्यात् तथा प्रयतते । यच्च न शक्यमेव । एतेन चर) | सर्वदाऽसन्तुष्टचित्तः स सदा दीनमिवैवाऽवतिष्ठते । । अत्र हरिणा दृष्टान्तत्वेन गृहीताः । यतस्ते वनवासिनः । मनुष्यस्य सम्पर्कस्तु तेषामद्याऽपि न जातः । प्रायश एवं दृश्यते यद् मनुष्यस्य सम्पर्के यः कोऽपि प्राण्यागतश्चेत् १९ Page #33 -------------------------------------------------------------------------- ________________ AC सोऽपि दीन इवैव व्यवहरति । शुनकमेव पश्यन्तु नाम । यस्य कस्याऽपि पुरतः स स्वपुच्छं IMCI पटपटायते । प्रश्नस्त्वेक एवाऽत्र जायते यत्- कृत्यमेतद् मनुष्य एनं शिक्षितवानुत शुनको | | मनुष्यं शिक्षितवान् ? मनुष्यस्य जीवनमानन्दरूपमस्ति । यश्चाऽऽनन्दमनुभवितुं न शक्नोति तस्य जीवनं 5) | निष्फलमेव । आनन्दो नाऽन्यत् किमपि, केवलं विवेकमपेक्षते । यत्र विवेकोऽस्ति तत्र | साधनानां न्यूनाधिकता गौणा जायते । विवेकशीलो यतः कुतोऽप्यानन्दं प्राप्तुमनुभवितुमर्हति ।। 84 अत एवोक्तम्- ‘एको हि चक्षुरमलं सहजो विवेकः ।' श्लोकस्याऽस्य बोध एक एव- मनुष्यस्य सुधीत्वं विवेके प्रतिष्ठितमस्ति । अतो विवेकिना भाव्यं मनुष्येण ! इति शम् । यदमी दशन्ति दशना, रसना तत्स्वादमनुभवति । प्रकृतिरियं विमलानां, क्लिश्यन्ति यदन्यकार्येषु ॥ (सुभाषितरत्नभाण्डागारे) २० Page #34 -------------------------------------------------------------------------- ________________ आस्वाद: FACEHATI आदिकविवाल्मीकिः; कविः किं वा मनोवैज्ञानिक: 2 डॉ. महेश्वरः द्विवेदी ___ आसीत्पुरा ईक्ष्वाकुवंशजोऽम्बरीषो नामा नृपतिः । स एकदा यज्ञं कर्तुं निर्णीतवान् । यज्ञार्थमुपयोगिन्यनेकानि वस्तून्यानीय तेन पूर्वसज्जा कृता । तत्रैको यज्ञपशुरप्यानीतः । तत्पशुरप्यन्यैर्वस्तुभिः सह यज्ञशालायां रक्षितः । यजमानस्याऽम्बरीषस्याऽवधानात् तं यज्ञपशुं नीत्वा इन्द्रः पलायनमकरोत् । पशुमदृष्ट्वा पुरोहितो राज्ञेऽकथयत्- "राजन् ! यो राजा यज्ञपशुं रक्षितुं न शक्नोति तं राजानमनेके दोषा घ्नन्ति । यज्ञकर्मणः प्रारम्भपूर्वमेव पशुमानयस्व" इति । तच्छ्रुत्वाऽम्बरीष उद्विग्नो जातो 'विपत्तौ आपतितः' इति । पुनरप्यवदत् पुरोहितः- "यदि स एव यज्ञपशुः प्राप्तो न भवेत् तद्दन्यं पशुं प्रतिनिधिरूपेणाऽऽनयस्व । पशुनाऽन्येन यज्ञकर्म करिष्यामो वयम्" । यज्ञपशोरन्वेषणाय विविधान् देशानटितवानम्बरीषः । महता यत्नेनाऽपि पूर्वानीतो यज्ञपशुस्तु नैव मिलितः । तेन द्वितीयपशोरन्वेषणस्य विचारः कृतः । अन्वेषणं कुर्वन् पृथिवीमटन् स भृगुतुङ्गपर्वतमागतः । तत्र तेन सपरिवार ऋचीकनामा मुनिरुपविष्टो दृष्टः । तं मुनिं प्रणम्य राजाऽम्बरीषोऽवदत् - "अटितवानहमनेकान्भूभागान् यज्ञपश्वर्थम् । न लब्धः कुत्राऽपि यज्ञपशुः । अहं प्रार्थयामि यद् - भवान् भवतः पुत्रं विक्रीणातु यज्ञार्थम् । समुचितं मूल्यं गृहीत्वाऽप्येकं पुत्रं मे ददातु' इति । ज्येष्ठं पुत्रं शुन:पुच्छं स्वसमीपे निगृह्य ऋचीकेनोक्तम् – “पुत्रमिमं तु नैव दास्यामि केनाऽपि मूल्येन । यतः स मेऽतीवप्रियः । तच्छ्रुत्वा सहसैव ऋचीकस्य पत्नी तत्राऽऽगतवती । तयोक्तम्-कनिष्ठमिममहं न दास्यामि, स मेऽतीवप्रियः । ऋचीकस्य पुत्रत्रयमासीत् - शुन:पुच्छ:, शुन:शेप:, शुनकश्चेति । शुनःपुच्छ: पितृवल्लभः; शुनकश्च मातृवल्लभः । केवलो मध्यमः शुनःशेपोऽवशिष्टः । मुनिना VER शुनःपुच्छो गृहीतः, मुनिपल्या शुनकः । अम्बरीषो मुनिसमीपे उपविष्टः, ईदृशी / २१ Page #35 -------------------------------------------------------------------------- ________________ श्री स्थितिः । स्तब्धः खलु परिवेशः । शुन:शेपो मनसि सन्तापमनुभवन् व्याकुलः । व्याकुलता तस्य मुखे स्पष्टतया दृश्यते स्म । स्थितावस्यामादिकविरेकं श्लोकं लिखति । प्रायेण हि नरश्रेष्ठा, ज्येष्ठा पितृषु वल्लभाः । मातॄणां च कनीयांसस्तस्माद्रक्ष्ये कनीयसम् ॥ श्लोकेऽस्मिन् आदिकवेर्लोकमानसस्याऽभ्यासो दृश्यते । श्लोकोऽयमनुमोदयति मानसशास्त्रमपि । यथोक्तं मनोवैज्ञानिकेन एडलरेण-'व्यक्तित्वनिर्माणे जन्मक्रमोऽतीव महत्त्वपूर्णः । यथा ज्येष्ठमपत्यमाधिपत्ययुक्तं मानसं धारयति । सर्वेषु कनिष्ठः सामान्यतया प्रेमभाजनं भवति, अत एव तस्य मनः कोमलं भवति । स न सोढुं शक्नोति स्वल्पमपि दुःखम् । स्वल्पेनाऽपि दुःखेन स आकुलीभवति । अतस्तस्मिन् न दृश्यते विशेषतया स्वावलम्बित्वं स्वातन्त्र्यं वा। स पराश्रयी भवति । मध्यमो ज्येष्ठकनिष्ठयोर्मध्ये निवसति । अतो निराधार इव मन्यते स्वम् । स स्वाश्रयी कुशली च भवति' । एडलरस्याऽनेन मन्तव्येन सह वाल्मीकेरपि सामञ्जस्यं प्रतिभाति । एडलरात् बहुकालपूर्वमेव कथितमिदमादिकविना । अनेन सिद्धं भवति यदादिकविः कविना सह मनोवैज्ञानिकोऽप्यासीदेव। शौन:शेपोपाख्यानेऽस्मिन्नादिकवेर्मनोवैज्ञानिकरूपं समक्षमागच्छति । तत्पश्चादम्बरीषो मध्यमं शुन:शेपं गृहीत्वाऽगच्छत् । अग्रे शुन:शेपो विश्वामित्र-कृपयाऽस्माद् घोरसङ्कयत् विमुक्तो जातः । - व्याख्यातुमेव केचित् कुशलाः शास्त्रं प्रयोक्तुमलमन्ये । उपनामयति करोडलं रसांस्तु जिदैव जानाति ॥ (सुभाषितरत्नभाण्डागारे) %3 २२ Page #36 -------------------------------------------------------------------------- ________________ पत्रम.... नमो नमः श्रीगुरुनेमिसूरये ॥ मुनिधर्मकीर्तिविजयः। आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । तव कुशलं कामये । अस्मिन् जगति प्रायो न कश्चिदपि सुख्यस्ति । सर्वेऽपि प्रायो दुःखिनो भवन्ति ।। कस्यचिदार्थिकपीडा, परस्य शारीरिकपीडा, अन्यस्य कौटुम्बिकपीडा, अपरस्य मानसिकपीडा । बाधते, ततो दुःख्यस्ति । यदि कस्यचिदेतासु न का अपि पीडाः स्युस्तदा तस्याऽन्यस्य । स्वभाववशाद् दुःखं भवति । प्रतिव्यक्ति भिन्नभिन्नस्वभावो वर्तते । गृहे एकस्या अपि व्यक्तेविचित्रस्वभावात् । समस्तेऽपि वेश्मन्यशान्तिः क्लेशश्च स्यात् । कदाचिद् बाह्यदृष्ट्या शान्तिर्दृश्यते, किन्तु सा शान्तिः श्मशानभूमिरिव स्यात् । वातावरणे शान्तिर्दृश्यते न तु मनसि । चित्ते तु भृशमुद्वेगः ! क्लेशः सन्तापश्चैव प्रवर्तते । मनसा परस्परं भिन्नता विद्यते । परस्परं मुखं दृष्ट्वा श्वेव स्वान्ते - तु घुर्घरायते । एतादृशेषु सदनेषु सर्वेष्वद्यतनसुखसाधनेषु सत्स्वपि प्रसन्नताया आनन्दस्य च । ! लेशोऽपि न दृश्यते । हन्त ! यगृहे प्रसन्नताऽऽनन्दश्च नाऽनुभूयते तद् गृहं कथमुच्यते ? अद्य ! । प्रायः सर्वेष्वपि गृहेष्वेतादृशी परिस्थितिर्दृश्यमानाऽस्ति । तत एवाऽहं ब्रवीमि- 'प्रायो न - कश्चिदपि सुखी विद्यते' । अद्यैकां हृदयद्राविणी सत्यघटनां लिखामि । एकदा निश्यात्मचिन्तनेऽहं रममाण आसम् । तदैको युवाऽऽगतवान् । 'सातं वर्तते' ! इति पृष्टं तेन । अहमुवाच- धर्मलाभः । कोऽस्ति ? स अवोचत् - किं न ज्ञातोऽहम् ? क्षणं विचिन्त्य, अहो ! त्वं ? कदा कुतश्चाऽऽगतः ? - इत्यहं पृष्ट्वान् । तेन सर्ववृत्तान्तः कथितः । क्षणं तूष्णीं स्थित्वा 'गुरुदेव !' किञ्चिद् ! H------- २३ Page #37 -------------------------------------------------------------------------- ________________ । वक्तुमत्राऽऽगतवानहम् । 'निःसङ्कोचं वद' मया व्याकृतम् । भवान् मां मे कौटुम्बिकजनानपि च जानाति । मम न कोऽप्यन्यो भ्राता, न च भगिन्यपि विद्यते, तथाऽपि मातापितरौ विहायाऽत्राऽनिच्छयैव वसामि । मनसि बाढं क्लेश । उद्वेगश्च प्रवर्तते । भोजनं पानं चैवं न किमपि मह्यं रोचते । निद्रादेव्यपि मां विहायाऽन्यत्र - गतवती । अतः..... अहमवोचम् - भो ! मा रोदीः, सङ्कोचं दूरीकृत्य शान्तचित्ततया यज्जातं तत् ! कथय । स उक्तवान् अहं मोहमय्यां मुम्बईनगर्यां वसामि स्म । बाल्यकालादेव धर्मसंस्कारा दृढा । आसन् । चित्ते धर्म प्रति विशेष आदर आसीत् । सदाचारः सत्सङ्गश्चैव सदा मह्यमरोचत । तत एव संयममुरीकर्तुमतीवोत्कण्ठाऽऽसीत्, तथाऽपि प्रबलमोहनीयकर्मवशात् तमङ्गीकर्तुं न । समर्थो जातः । अनुक्रमेण यौवनं प्राप्तवान् वाणिज्ये च प्रवृत्तः । एवं वेश्मनि नितरां ! शान्तिरानन्दश्च प्रवर्तमान आसीत् । नियत्यनुरूपं यथाकालं रूपाभिधेयया कन्यया सह विवाहः सञ्जातः । सा नामानुरूपं । रूपवती संस्कारी विदुषी चाऽऽसीत् । ततो मया मे पूज्यजनैश्च बाढं तृप्तिरनुभूयते स्म । "एष पुण्यशाली' अत एतादृशी कन्या लब्धेति सर्वैरुच्यते स्म । साऽपि मयि । भृशमनुरक्ताऽऽसीत् । सा सर्वान् पूज्यजनानपि सादरमासेवत । अतोऽहमपि तस्यां विशेषतोऽनुरक्त आसम् । कदाचिदप्यहं तस्याः स्वान्तमुद्विग्नं भवेत्तादृशं न वदामि स्म न च करोमि स्म।। एवं सुखेनाऽस्माकं कालो गच्छति स्म । स्नेहिजनानामनुभवेन ज्ञातमासीद् यत्, सम्बन्धः प्रेम च मनसः सामीप्येन, ! - हृदयस्यौदार्येण सारल्येन च तथा परस्परं विश्वसनीयतयैव संभवति । अतस्तया सहाऽहं। सावधानं वर्ते स्म । तस्याश्चित्ते शङ्का कुशङ्का विकल्पश्च कदाचिदपि न स्याद्, अतो 'मयैवं । कृतं, अहं तत्र गतवानासम्' इति यत्किमपि कुर्यां तत्सर्वं तस्यै सारल्येन वच्मि स्म । क्षपायां! बहिरटितुमपि नाऽगच्छम् । यदि कदाचिद् गच्छेयं तदा नियतकालेऽवश्यं प्रतिनिवर्ते स्म ।। । एवं सत्यपि तया विश्वासघातः कृतः । एकदा मित्रस्य गृहे विवाहप्रसङ्ग आसीत् । 'पञ्चतारक उपाहारगृहे तेन रात्रौ । । समारम्भ आयोजितः । तस्याऽतीवाऽऽग्रहवशादनिच्छयाऽपि तत्र गतवान् । सदनमागत्य । ! "एवं कृतम्, एतद् भक्षितम्' इति तस्यै सर्वमपि कथितम् । २४ Page #38 -------------------------------------------------------------------------- ________________ --------------------------- तदा सोच्चैः प्रलापं कुर्वत्यवदत्-त्वं मद्यपानं दुराचारं च करोषि, विभावर्यां सख्या । सहाऽटसि । तव चेष्टां निरीक्ष्य मन्मानसे शङ्काऽऽसीदेव तथा मया बहुशः श्रुतमप्येतद् । । तथाऽप्यद्यपर्यन्तं मया न किमप्युक्तम्, किन्तु तव सर्वाण्यपि कुकर्माणि जानाम्येवाऽहम् । ! ! अद्य तत्सर्वं प्रमाणीभूतम्-इति । एतन्निशम्याऽहं तु स्तब्धो जातः । सखेदमहमवोचम्- त्वं किं वदसि ! मम कृते । ! एतादृशीं कुशङ्कां करोषि ! यदि कश्चिदन्यो जनो भवत्यै किमप्यसम्बद्धं कथयेत् तदा ते । चित्ते 'मम पतिरेतादृशोऽस्ति ?' इति विकल्पो न स्यात् तदर्थमहं त्वया सह सारल्येन । व्यवहरामि, तथाऽपि त्वमेतादृशीं निम्नां शङ्कां करोषि ? गुरुदेव ! तद्दिनेऽविश्वासस्याऽङ्करः प्रस्फुटितः । पश्चात्तु निरन्तरं शङ्काकुशङ्कादिजलद्वारेण । । तदङ्को वृद्धिमेव गतः । प्रातिवेश्मिकजनेभ्यो मित्रजनेभ्यश्चाऽपि मम विषये पुनः पुनः । | पृच्छति स्म सा । मम सर्वमपि कार्यं शङ्कयैव निरीक्षते स्म । कोऽपि किमपि वदेत् तदा - तन्मनसि कृत्वा मां प्रतिदिनमुटेजयति स्म । मम कार्यालयेऽपि मेऽनुपस्थितौ सहसैवाऽऽगत्य । i 'रमेशः किं करोति ? कुत्र गच्छति ? कदेतो निर्गच्छति ? केन केन सह प्रलपति ?' इति । ! मम विषये पृच्छति स्म । पश्चात् सदनमागत्य मुखं विवर्णयति स्म । मया सह च न वदति । स्म । यत्किमपि वा प्रलपति स्म । एवं निरन्तरं क्लेशं करोति स्म । 'भवत्याः पुत्र । । इतस्ततोऽटति, दुष्टकार्याणि विदधाति' इत्युक्त्वा मात्रेऽपि क्रुध्यति स्म । गृहेऽशान्तिरेव सदा ! प्रावर्तत । अहमेकदा गृहकार्यार्थं बहिर्गतवान् । तदा कार्यालयान्मे परिचारिकया मद्भवने । । दूरभाषसम्पर्कः कृतः-श्रेष्ठिनं झटिति कार्यालये प्रेषयतु-इति । अहं यदा वेश्मनि प्रविष्टस्तदा : तु तया वाग्बाणप्रहारः प्रारब्धः । तव सख्युपयोगिकार्यार्थं त्वामाश्वाह्वयति । पश्चात् 'कार्यालये । त्वं किं करोषि, कया सहाऽटसि, त्वं कियदसत्यं वदसि, तत्सर्वं मयाऽभिज्ञातम् । सर्वेऽपि । ! युवान एतादृशा एव सन्ति', इति प्रलपितं तया । प्रिये ! भगवन्तं मनसि कृत्वा वच्मि – 'अहं न किमपि दुष्टकार्यं करोमि, न किमपि । । त्वत्तो गोपयामि । सत्यमेव वदामि', इत्युक्तं मया । गुरुदेव ! किं नाम शङ्का ! शङ्कायाः समाधानं न कदाऽपि भवति । तां बोधयितुं । । बहुशो बहवः प्रयत्नाः कृता मया, किन्तु 'अश्मन्युपरि जलम्' इत्युक्त्यनुरूपं सर्वेऽपि ! प्रयासा निरर्थका जाताः । गृहं तु श्मशानमिव जातम् । आनन्दस्त्वस्तङ्गतः । वातावरणे। ऽशान्तिरुद्विग्नतोदासीनता च प्रसृताऽऽसीत् । सर्वेषामपि मुखेषु शोकः, 'किं भवेत्' इति । -------------------------------- - २५ Page #39 -------------------------------------------------------------------------- ________________ भयश्च दरीदृश्यते स्म । अध्वनि चलन्तः पान्था इव सर्वेऽपि वर्तमानाः परस्परं न केऽपि वार्तालापं कुर्वन्ति । एवं वयं सर्वेऽपि दुःखिनः स्मः । कार्यालये कार्यचिन्ता पीडयति, सदने । चाऽस्याः क्लेशो मां पीडयति । 'किं करणीयं, कथं वसनीयं, कस्मै कथयानि च' इति ! प्रश्ना मां निरन्तरं बाधन्ते । कदाचिदसामनोवेदनावशाद् दुष्टविचारोऽप्यागच्छति- आत्मघातं - कुर्याम्.... इति । अन्ते, पितृभ्यां सह चर्चा विधाय तस्यै कथितम् - रूपे ! अत्राऽहं । सखीभिः सहाऽटामि, व्यसनं दुराचारं चाऽऽसेवे-इति शङ्का त्वद्द्यस्ति । अत एतां नगरी ! विहाय कर्णावतीनगरे गच्छेव, यतस्ते चेतसि शान्तिर्भवेत् । तत्क्षणमेव निर्णयः कृतः ।। दुःखिनौ मातरपितरौ स्वकीयगृहं वाणिज्यं च विहायाऽ श्रूणि मुञ्चन्नहं पन्या सहाऽत्र | कर्णावतीनगरे वसितुमागतवानस्मि । गुरुदेव ! मम दुर्भाग्यवशादत्राऽप्येष एव संघर्षो निरन्तरं प्रवर्तते । दश दिनानि । व्यतीतानि । एकदा सहसैव साऽवोचत् - रात्रौ दीर्घकालानन्तरं त्वं सदनमायासि । अत्राऽपि ! ते प्रेमिका वसति, अत एव त्वमन्यन्नगरं विहायाऽत्राऽऽगतवान् । एवं वेश्मनि पूर्ववत् । क्लेशस्य प्रारम्भो जातः । ह्य एव मे मित्रं विदेशत आगतवान् । पञ्चवर्षेभ्यः पश्चात् स । मीलितवान् । अतस्तेन सह सानन्दं भोजनं कृतं, चर्चा चाऽपि विहिता । प्रात:काले ! विमानोड्डयनस्य समय आसीत् । ततो विमानस्थानकस्य समीपस्थे कस्मिन्नुपाहारगृहे । तेनाऽऽश्रयः कृत आसीत् । ततस्तत्स्थाने तं मोचयितुं निशि गतवानहम् । तदा रूपामुद्दिश्य । मित्रेण जल्पितम् - भ्रातृजाये ! दीर्घकालादावां द्वौ मीलितौ स्वः, ततो रमेशस्याऽऽगमने ! कदाचिद् बहुः कालः स्यात् तदा चिन्ता न करणीया । द्वावपि गतवन्तौ । स्थानमवाप्याऽऽकण्ठं । वार्तालापः कृतः । क्षपायां साढ़ेंकवादनः समयो जातः । तदा 'अर्धघण्टयाऽऽगमिष्यामि' ! इति गृहे दूरभाषध्वनिः कृतो मया । किञ्चित्कालानन्तरं वेश्मनि गन्तुमुत्थितः, किन्तु द्वार्येव । वार्तालापे एकघण्टासमयो व्यतीतः । ततो निर्गन्तुमहं मुहुर्मुहुः प्रयत्नः कृतवान्, किन्तु स । सखा मां मोक्तुं नेच्छन्नासीत् । तथाऽपि खिन्नमानसोऽहं ततो निर्गतः । अतितीव्रगत्या यानं ! चालयित्वा झटिति भवनमागच्छम् । आकारिका ध्वानिता । पुनः पुनराकारिका ध्वानिता। किन्तु तया द्वारं नोद्घाटितम् । प्रायो विंशतिः क्षणं बहि: स्थितवान् । अन्ते, दिपावलीपर्वणि | गृहमागतेन जनकेन द्वारमुद्घाटितम् । अहं ममाऽपवरके आगतवान् । सा मां निरीक्ष्य पृष्ठं परावर्त्य शयिता । किमप्यनुक्त्वाऽहमपि शयितवान् । ततः शयनादुत्थाय तया प्रकाशः । कृतः । किं करोषि ? इति गदितवानहम् । तदा भ्रूकुटिमूर्वीकृत्य "एतावत्कालं कुत्र ! गतवान् । कया सह निश्यटसि स्म । रात्रावपि का कन्या त्वया सहाऽटितुं सिद्धा जाता' ।। समीपमागत्य- ‘पश्य, पश्य तव वदनाद् मद्यपानस्य दुर्गन्ध आयाति' इत्यवोचत् सा ।। - - - - - - २६ Page #40 -------------------------------------------------------------------------- ________________ 'मयि विश्वासं कुरु । न किमप्यकरणीयं कृतं मया' । एवं तां बोधयितुं मया बहुशः - प्रयत्नः कृतः, किन्तु स निष्फलो जातः । एवं सार्बेकघण्टासमयो व्यतीतः । ततो। जनकोऽगदत्-रे ! शाम्यताम्, क्षपा समाप्ता । भवतु, यदि नाम युवां स्वप्तुं नेच्छेतं, किन्त्वावयोस्तु निद्रा बाधते, अतः शान्तौ भवताम् । तथाऽपि प्रलपन्ती सा न शान्ता जाता । - अहं तु मुखं परावर्त्य शयितवान्, किन्तु निद्रादेवी नाऽऽलिङ्गिता । मनसि नितरामुद्वेगः । प्रसृतः, तीव्र आघातोऽपि लग्नः । तत उत्थाय जनन्या अपवरके यात्वा तस्या अङ्के वदनं ! स्थापयित्वा मुक्तमनसा रोदितवान् । माता मे पृष्ठे हस्तं प्रसार्य- 'रोदनं मा कुरु' इति । वदत्याश्वासितवती साऽप्युद्विग्ना सञ्जाता । मातर् ! किं करवाणि ? पूर्वभवे मयाऽतीव दुष्टं कर्म कृतं स्याद्, येनाऽद्यैतत् सह्यते । । मया । तस्याश्च क्लेशकारिण्यः सङ्गमो जातः । न किमप्यकरणीयं करोमि, सर्वदा तस्या | इच्छानुरूपमेव सर्वं करोमि, न कदाचिदपि तस्या नैजजीवने हस्तक्षेपं करोमि । किन्तु सा । तु शङ्कितदृष्ट्यैव मां पश्यति । एवं निरन्तरं मामुद्वेजयति । शान्त्यर्थं सर्वं सुखं विहायाऽत्राऽऽगतवान्, किन्तु... मातर् ! मज्जीवनेऽशान्तिर्दु:खं चैवाऽस्ति । कदाऽहं सुखेन । जीवितुं शक्तो भवेयम् ? इतः परमेतां वेदनां सोढुं न शक्तोऽहम्, अत आत्मघातं.... वत्स ! वत्स ! किं वदसि ? एवं कृते अस्माकं किं भविष्यति ? अतः...... जननि ! तव चिन्तयैवाऽद्यावधि नैतादृशं कार्यं कृतम्, किन्त्वितः परमेतया क्रियमाणायाः शङ्काया अग्नौ मध्ये स्थित्वा क्षणमपि जीवितुं न शक्तोऽह'मित्युक्तं मया। गुरुदेव ! किं करवाण्यहम् ? अहं तु त्रस्तः खिन्नो मूढश्च जातः । अतो मम जीवने | शान्तिर्यथा स्याद्, गृहेऽपि प्रसन्नता शान्तिरानन्दश्च भवेयुस्तथाऽऽशिषं ददातु । 'कर्मणो गतिर्गहना' इत्युक्त्यनुरूपं पूर्वभवे यत्कर्म कृतं स्यात् तस्य फलमवश्यंतया । भोक्तव्यमेव स्यात् । अत आपतितां परिस्थिति स्वीकृत्योद्वेगं विहाय धर्ममाराधय । तत्प्रभावेणैव ! सर्वमपि कुशलं भविष्यतीत्यादिवचनैर्मया सान्त्वनं दत्तम् ।। बन्धो ! गच्छता तेन मे निद्राऽप्यपहता । चित्ते विचारस्य यातायातं प्रारब्धम् ।। गृहस्यैकस्यैव जनस्य शङ्कारूपया कुचेष्टया समस्तेऽपि वेश्मनिऽशान्तिरुद्विग्नताऽराजकता च प्रसृता । सदनस्य शान्तिः प्रसन्नता चाऽपहता । तथा गृहस्य मधुरं प्रेमयुतं स्नेहार्दीभूतं च । । वातावरणमपि कलुषितं सञ्जातम् । स्वजनेषु धनेऽद्यतनसुखसाधनेषु स्वकीयगृहापणेषु च ! सत्स्वप्येकस्य कुस्वभावात् स जनोऽसहाय इव दीनो दुःखी निर्धनश्च जातः । स च सुखेन न भोक्तुं शयितुं वसितुं जीवितुं च शक्नोति । एकेन महापुरुषेण गदितम् - 'यस्मिन् वेश्मनि । २७ Page #41 -------------------------------------------------------------------------- ________________ वात्सल्यमौदार्यं विश्वसनीयता प्रेम सहानुभूतिः सेवाभावः त्यागश्च विद्यन्ते तदेव सदनमुपलक्ष्यते, . किन्तु यत्र निरन्तरमुपेक्षाऽविश्वासः शङ्का तिरस्कार ईर्ष्या कटुवचनादिप्रयोगो द्वेषश्चाऽस्ति, तन्न गृहमपि तु स्मशानमुच्यते' । अत्राऽपि तस्याः स्त्रियाः शङ्काशीलत्वेन सदनं रणभूमिरिव ! सञ्जातम् । पितृ-जननी-पति-इत्यादीनां सर्वेषां शान्तिः प्रसन्नता च विनष्टा । भ्रातर् ! शङ्का 'उद्देहिका' इव भवति । यथा यस्मिन् भवने पुस्तके चोद्देहिका - प्रविशेत् तदा सोद्देहिका तद् गृहं पुस्तकं चाऽन्तस्तः शीर्णविशीर्णं विदधाति । तद् वेश्म पुस्तकं च बहिस्तु सुन्दरमेव भासते किन्तु किञ्चित्कालानन्तरमेव तत्सर्वमेव नष्टं भवति । तथैव यस्य जनस्य मनसि शङ्कोत्पन्ना स जनः कदाचिद् बाह्यतः सुज्ञः पटुर्व्यवहारी सौम्यप्रकृतिश्चाऽपि स्यात् । समाजे सर्वतस्तस्य प्रभावः प्रवर्तेताऽपि । 'जी, जी' इत्युक्त्वा सर्वेऽपि जनास्तस्य चरणयोर्नमेयुटुंठेयुश्च किन्तु स जनोऽन्तस्तस्तु नितरां दु:खी सन्तप्त - उद्विग्नश्च भवति । तस्य चित्ते न कदाऽपि शान्तिः प्रसन्नता च भवति । यदि कदाचित् सहसैव । । कश्चिज्जन आगच्छेत् । आगमिष्यतीत्युक्तवान् जनः कारणवशाद् नाऽऽयायात् । कश्चिज्जनो ऽन्यजनं मीलितुमागच्छेत् । अन्यजना मन्दैर्मन्दैरारावैर्वातालापं कुर्युः - इति निरीक्ष्याऽपि । तस्य स्वान्ते शङ्कोद्विग्नता च प्रसरेत् । हन्त ! यस्य यस्य जनस्योपरि विशेषरागः स्यात् स कदाचिदन्यान् मीलितुं गच्छेत्, अन्यैः सह वार्तालापं वा कुर्यात् तद्यपि स शङ्काशीलो जनो ! दुःख्युद्विग्नश्च भवेत् । यतस्तस्य मनस्येकैव चिन्ता यदेष मम गुप्तवार्ता कस्मैचित् कथयिष्यति, मत्तो दूरीभविष्यति-इति । एवं शङ्काशीलजनस्य चित्ते निरन्तरमुद्विग्नताया अशान्तेश्चाऽग्निः । ! प्रज्वलितो भवति । एवं शङ्काशीलो जनः स्वयं तु दुःखी भवत्येव किन्त्वन्यानपि दुःखाब्धौ ! । निमज्जयति । प्रायः सर्वेऽपि जनाः शङ्काशीलजनाद् दूरमेव वसन्ति, न च कोऽपि तस्य । कार्यकरणे साहाय्यं कुर्वन्ति, यतस्ते तस्माद् बिभ्यति । ते जानन्त्येव यद्, यद्यहं किमपि | कार्यं करिष्यामि, वदिष्यामि च, तदा स शङ्कां विधाय क्लेशमुत्पादयिष्यते । हन्त ! कदाचिद् . । वायुनाऽपि तस्य वस्तु स्यूतं च चलेत् । गृहशुद्ध्यर्थं वस्तु स्थानान्तरं कुर्यात् तद्यपि तस्य । i चित्ते शङ्कोत्पद्यते- 'केनाऽपि मे वस्तु ग्रहीतुं द्रष्टुं च प्रयत्नो विहितः' इति । एवं तस्य कृते । येन स्वस्य सर्वस्वमपि विहाय साहाय्यं क्रियते, अन्येभ्यो रक्षणं विधीयते, अन्यैः सह - कदाचित् क्लेशोऽपि क्रियते, तथाऽपि तस्योपरि विश्वासो न स्यात् । बहुवर्षेभ्यः समीपे । वसतां मातृ-पितृ-भगिनी-पुत्र-दुहितृ-भ्रातृ-इत्यादिजनानामुपर्यपि विश्वासो न स्याद्, यदा ! कदाऽपि 'त्वमेतादृशः, त्वं मे विरोधी, मायावी, दोषदर्शी चिकित्सकश्च' इतिवचनैः । पुत्रादीनां श्रद्धाभङ्गं विधाय शङ्का क्रियते, तथाऽऽजीवनं तया शङ्कितदृष्ट्यैवोपेक्षात्मक- । २८ Page #42 -------------------------------------------------------------------------- ________________ ! व्यवहारोऽपि विधीयते । ततो हताशा उद्विग्नाश्च ते पुत्रादयो मनसि विकल्पं कुर्वन्ति यद्, निरन्तरमेतेन क्लेशेनोपेक्षात्मकव्यवहारेणाऽलम्, मम कृते तु मरणमेव श्रेष्ठम्, इति । एषा शङ्का मनसि दम्भमनुदारतां च प्रकटयति । सारल्यमौदार्यं च हन्ति, तथा स्वकीयजनेभ्य एवाऽनादरतां विरोधितां च प्रापयति । एवमेषा शङ्का जीवनोन्नतिबाधकरूपस्य पूर्वग्रहस्य जनन्यस्ति । यत्र शङ्का तत्र पूर्वग्रह: । यत्र पूर्वग्रहस्तत्र क्लेशोऽशान्तिश्चाऽस्ति । ! - एष पूर्वग्रहो व्यक्तेर्वास्तविकबोधने गुणशोधने च बाधकोऽस्ति । अद्य गृहे गृहे क्लेशोऽशान्तिश्च । प्रवर्तते, तस्या मूलं पूर्वग्रहोऽस्ति । यतोऽद्य पितरौ पुत्रं प्रति, वत्सो जनकं प्रति, श्वश्रूर्वधूं । प्रति, वधूः श्वश्रू प्रति चाऽऽशङ्कते, तथा ते परस्परं पूर्वग्रहदृष्ट्यैव वर्तन्ते । एतद्दृष्टिवशात् तत्तद्व्यक्तनिषेधात्मकवर्तनं कुशीलं चैव नयनपथमायाति, न च सुशीलं विधेयात्मकवर्तनं च दृग्गोचरीभवति । पूर्वग्रही जनो न कदाऽपि परेषां कथनं रीतिं स्वभावं च स्वीकरोति।। स त्वात्मना यद् विचारितं तदेव सत्यं सुन्दरं पूर्वापरविचारितं लाभालाभयुतं च मन्यते, : तथाऽऽत्मानमहं श्रेष्ठो दीर्घद्रष्टोदारः पूर्वग्रहमुक्तश्चैव मन्यते । अतोऽन्यान् प्रति द्वेषबुद्धिर्दृढीभवति।। । एवमेष पूर्वग्रहो मधुरं सम्बन्धं वियोजयति, निर्व्याजं स्नेहं प्रेम च तथा सदनस्यैक्यं संवादितां । च नाशयति । अत एव पूर्वग्रहस्य जननी शङ्का तु दूरत एव त्याज्या ।। बन्धो ! प्रत्येक व्यक्तिः, प्रसन्नतामानन्दं च स्पृहयति । एषा प्रसन्नता धनेना! ऽत्याधुनिकसाधनैश्च नाऽवाप्यते, अपि तु गृहस्य मधुरेण स्नेहयुतेन च परिसरेण । एवं वेश्मनः । सर्वैः सदस्यैः सह ममतायुतेन हृदयौदार्यपूर्णेन व्यवहारेणैव गृहे प्रसन्नता प्रवर्तेत । अन्ते, भ्रातर् ! यदि जीवने शान्ति-प्रसन्नताप्राप्तेरभिलाषा स्यात् तद्येतादृशं शङ्काशीलस्वभावं त्यजेः । सर्वेषां कार्यस्य निरीक्षणमवश्यं करणीयं, किन्तु शङ्का न | करणीया । सर्वैः सहोदात्तदृष्ट्या प्रेम-वात्सल्ययुतं व्यवहारं विधाय जीवने शान्ति प्रसन्नतां । चाऽऽप्नुहि, इत्याशंसे । इह तुरगशतैः प्रयान्तु मूढा धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम् । गिरिशिखरगताऽपि काकपङ्क्तिः पुलिनगतैर्न समत्वमेति हंसैः ॥ (सुभाषितरत्नभाण्डागारे) --------------------------- - २९ Page #43 -------------------------------------------------------------------------- ________________ 886058 स्कृतिः संस्कृताश्रिता किम , एच्. वि.नागराजराव् आलाचनम बहवः संस्कृतपण्डिताः कथयन्ति संस्कृतभाषायाः संस्कृतेश्चाऽविनाभावसम्बन्धो विद्यत इति । यथा नन्दनवनकल्पतरोः अष्टादशेऽङ्के आचार्यस्य * बाबूरामावस्थिमहोदयस्य वाक्यमुल्लिखितं ५२तमे पृष्ठे नाऽधीतं संस्कृतं येन न ज्ञाता तेन संस्कृतिः । अपूर्ण जीवनं तस्य संस्कृतं संस्कृति विना ॥ इति । एवं ४४ तमपृष्ठे डा. धर्मेन्द्रजैनमहाशयो लिखति "संस्कृतसाहित्ये 9 9 भारतीयसंस्कृतेः सर्वस्वं निहितम्" इति । इत्थमन्येषां संस्कृतविदुषां मुखादपि | 'संस्कृतिः संस्कृताश्रिता' इति वाक्यं श्रुतं बहुधा मया। वस्तुतोऽत्र सत्यमस्ति किम् ? इति परीक्षणीयम् । मम त्वनुभवो वर्तते, के Fb यैः संस्कृतं नाऽधीतं, यैः संस्कृतभाषा वर्तते इत्यपि न ज्ञातं तेऽपि सुसंस्कृता व 9 भूयांसो लोके सन्तीति । अमेरिकादेशे कदाचिन्मया विद्यार्थिनाऽभूयत । तदा ap ब्रेजिल्देशस्य वा चिलिदेशस्य वा कश्चन विद्यार्थी मम सतीर्थ्य आसीत् । तेनाऽहं 96 CD स्वगृहे भोजनाय आहूतः । “अहं शाकाहारी, मांसं मद्यं मत्स्यं कुक्कुटाण्डं वा न कर b स्पृशामि । अतो भोजनं माऽस्तु, केवलं तव कुटुम्बं द्रष्टुमागमिष्यामि" इत्यहमवादिषम् । सोऽवादीत् "भवत्कृते शाकैः फलैश्चाऽऽहारं संसाधयामः । कृपयाऽऽगच्छतु" इति । तत्र गताय मह्यं कीदृशं भावपूर्णमात्मीयं स्वागतं दत्तं, तस्य सुहृदः पत्नी च पितरौ च कियत्या प्रीत्या मामभ्यनन्दन्नित्यहं कदाऽपि न विस्मरामि । तैर्भारतम् (INDIA) इति देशस्य नाम श्रुतम् । संस्कृतभाषाइत्यस्या नामाऽपि न श्रुतम् । किन्तु ते सुसंस्कृता इत्यत्र न मे कोऽपि सन्देहः । किमर्थं मामियत्या श्रद्धया भवन्त आद्रियन्ते? इत्यहमपृच्छम् । "भवान् विद्वान्, CD अतो गौरवाह: " इति सुहदः पिताऽवदत् । संस्कृतं ते न जानन्तीति हेतोः किं |ab तेऽसंस्कृताः? भारतवर्षेऽपि बोभूयन्ते कोटिशो जना ये ग्रामेषु वसन्ति । बहवो व SHAKRA-9800000000000 RAORA ११50000000000000 0 0000000 |OOO ३० Page #44 -------------------------------------------------------------------------- ________________ 400000000000000 तक - मातृभाषामपि पठितुं लिखितुं वा नैव समर्थाः । ते सर्वे संस्कृतिहीना इति नाऽहं व सर्वथा भावयामि । आत्मगुणवन्तः सज्जनाः सहस्रशः शोभन्ते ग्रामे ग्रामे । Co प्राचीनकालेऽपि नार्यः संस्कृतं नाऽध्यैषत । पातिव्रत्येन पुत्रप्रेम्णा परोपकारेण 19 दयादिभिः सद्गुणैस्ता अशोभन्त । ताः संस्कृतिशून्या इति को मतिमान् ब्रूयात् ? संस्कृतमधीतवन्तः सर्वे सुसंस्कृता इति व्याप्तिरपि नाऽस्ति । वेतनाधिक्यार्थं पदोन्नत्यै वा वञ्चनां पैशुन्यं खलजनमुखस्तुतिं च कुर्वाणाः संस्कृतविपश्चितो न दृश्यन्ते किम् ? श्रीमद्रामायणे एव पश्यामः ‘इल्वलाख्यो राक्षस: संस्कृतं भाषमाणो ब्राह्मणान् वञ्चयित्वा हन्ति स्मेति । तत्र वाल्मीके र्वचनम् do61002800 260000000000000000 धारयन् ब्राह्मणं रूपमिल्वल: संस्कृतं वदन् । आमन्त्रयति विप्रान् स श्राद्धमुद्दिश्य निघृणः ॥ इति (अरण्यकाण्डे एकादशसर्गे ५६ तमः श्लोकः) अतः संस्कृताध्यायिनः संस्कृतभाषिणो वा सर्वे संस्कृतिमन्त इति वचनं न प्रामाणिकम् । १९९७ तमे वर्षे बेङ्गलूरुनगरे विश्वसंस्कृतसम्मेलनं प्रावर्तत । तत्र मयेदं CO साक्षाद् दृष्टम् । केऽपि पुस्तकप्रकाशकाः किमपि पुस्तकं विना मूल्येन वितराम a इति घोषितवन्तः । तदा तद्ग्रहणाय संस्कृतज्ञा गृध्रा इव केचन हस्ताहस्ति 9 कुर्वाणा: सम्पतन्ति स्म । ममाऽतीव दु:खं जातम् । संस्कृताध्ययनस्य शास्त्रा ध्ययनस्य च किं फलम् ? यदि तदेव पुस्तकं निजेन मूल्येन शतरूप्यकात्मकेन विक्रीयेत तत्र, द्वित्राः पञ्चषा वा तत् क्रीणीयुः । धनं न देयं, पुस्तकं लभ्यत इति O हेतोस्तत्र अहमहमिकयाऽधावन् । किमेतत् संस्कृतिद्योतकम् ? अत: संस्कृतिः संस्कृताश्रिता इति वचनमाभिमानिकम् । संस्कृतसाहित्ये संस्कृत्युत्तेजका भूयांसो विषयाः सन्ति, तदध्ययनप्रेरणाय एवमुच्यते इत्यभिप्रायोऽस्ति चेद् नाऽस्माकं विवादः । 'असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीक्षते' इति रीत्या स्तूयतां संस्कृतम् । 90, 9th Cross Navilu Raste Mysore-570023 38680020208003) ३१ Page #45 -------------------------------------------------------------------------- ________________ ..... समीक्षा सागरविहङ्गमः समीक्षक डा० रूपनारायणपाण्डेय (रिचार्डबाक्-लिखितस्य जोनाथन्-लिविङ्गस्टन-सीगल-इत्याभिधस्य आङ्ग्ल पुस्तकस्य मीराभट्टद्वारा कृतस्य 'सागरपंखी' त्यभिधस्य गुर्जरानुवादस्य संस्कृतानुवादः) SHASHA airational सागरविहङ्गमः सं० - कीर्तित्रयी । अनुवादकः - मुनिकल्याणकीर्तिविजयः । प्रकाशक - श्रीभद्रङ्करोदय शिक्षण ट्रस्ट, गोधरा । प्राप्तिस्थानम् - १२, भगतबाग, शेठ आणन्दजी कल्याणजी पेढी समीप, पालडी, अहमदाबाद-३८०००७ पृ. ८८, मूल्य : ६०-०० विद्यन्ते सुरभारत्यां मौलिकग्रन्थानामसंख्यातानि रत्नानि, किन्तु रूपान्तरग्रन्थानां संख्या : भूयसी न शोभते । साम्प्रतं केचन विद्वांसः कवयः कवयित्र्यश्च रूपान्तरकर्मणि संलग्नाः सन्ति । : वर्तमाने काले हिन्दीग्रन्थानां विशेषेण तुलसीसाहित्यस्य रूपान्तरकर्मणि डा० प्रेमनारायण, : द्विवेदिमहाभागा अग्रेसरन्ति । तेनैव गोस्वामितुलसीदासस्य श्रीमद्रामचरितमानसस्याऽन्येषां च ग्रन्थानां संस्कृतपद्यानुवादो व्यधायि । इदानी संस्कृतानुवादग्रन्थानां सम्पदं संवर्धयता श्रीमता. : मुनिकल्याणकीर्तिविजयेन श्रीरिचार्डबाक् लिखितस्य आङ्ग्लग्रन्थस्य संस्कृतानुवादः : 'सागरविहङ्गमः' इति नाम्ना व्यधीयत, श्रीमत्या मीराभट्टमहोदयया कृतं तद्गुर्जरानुवादमाधृत्य । : ग्रन्थात् प्राक् श्रीविजयशीलचन्द्रसूरेः 'आशंसा', अन्ते च गुर्जरानुवादकाः श्रीमतीमीराभट्ट: महाभागायाः प्रवेशकस्याऽपि रूपान्तरं विलसति ।। ग्रन्थेऽस्मिन् ‘जोनाथन्-खगस्य' साहसिकी उड्डयनकथा वय॑ते. :। कथं स स्वसमुदायस्य खगानां निर्वासनाज्ञामविचार्य स्वजीवितस्य : लक्ष्यमधिगन्तुं प्रायतत, अन्यान् च पक्षिणस्तत्र प्रेरणां प्रायच्छत् ? कथेयं : प्रतीकभूता विद्यते । अत्र स एको जीवात्मा । आत्मतत्त्वमधिगन्तुं केचन : एव जनाः प्रयतन्ते । ये प्रयतन्ते, ते दिव्यां स्थितिमनुभवन्ति । यद्यपि मूलग्रन्थमनवलोक्य रूपान्तरणस्य भव्यता दक्षता वा oo. ०० BAI ३२ Page #46 -------------------------------------------------------------------------- ________________ विशदतया वक्तुं न शक्यते, तथाऽपि कोऽपि जनो रूपान्तरेऽस्मिन् मूलग्रन्थस्याऽऽनन्दमनुभवितुं शक्नोति । ग्रन्थस्य भाषा सरला ग्राह्या । च। तद्यथा- 'फ्लेचरपक्षिन् ! अस्माभिरस्माकं मर्यादा बन्धनानि च क्रमशो धैर्येणैव च लङ्घनीयानि, एष एव महान् उपायोऽस्ति सर्वत्र । । शिलावेधि-उड्डयनमस्माकमभ्यासक्रमे इतोऽपि कञ्चित् कालमपेक्षते ।' (सा०, पृ. ७१) ग्रन्थेऽस्मिन् बहूनि रम्याणि चित्राणि पाठकानां मनांसि हरन्ति । ग्रन्थस्य भव्यमलङ्करणं : चित्तं समाकर्षति । मुद्रणस्य शुद्धता ग्रन्थशोभां वर्धयति । मम मतौ आङ्ग्लभाषायाः शब्दानां प्रयोगः संस्कृतभाषामनुसृत्य विधेयः । व्यञ्जनान्ताङ्ग्लशब्दानां संस्कृते स्वरान्तप्रयोगः समीचीनः स्यात् । अत्र 'जोनाथन्' इति स्थाने 'जोनाथनः' इति प्रयोगः स्यात् । विद्वज्जनैर्ग्रन्थोऽयं सङ्ग्राह्यः पठनीयश्च । जयतु संस्कृतम्, संस्कृतिश्च । . . . . मनी का पूरा, सोरामः, : प्रयागः, उ.प्र., २१२५०२ : मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून् पर्वतीकृत्य नित्यं । निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ? ॥ __ (भर्तृहरेर्नीतिशतके |) . . . . . . . %3 . - . . . . . ३३ Page #47 -------------------------------------------------------------------------- ________________ 'ग्रन्थसमीक्षा छOOD DESIOSE ॥ श्रीकृष्णचन्द्राष्टकम् समीक्षकः डा. रूपनारायणपाण्डेयः ग्रन्थकारः - श्रीकेवलरामः । सम्पादकः - श्रीगोस्वामी गोकुलनाथः । प्रकाशकम् - श्रीगोवर्धनेश-प्रकाशनमण्डलम् (मुम्बापुरी) । प्रशासकः - श्रीबिपिनभाई शाह, विपणिसंख्या ४१, प्रथम भोईवाड, श्रीगोकुलनाथजी महाराजलेन, मुम्बई-४००००२ । पृ. सं. २४१, प्रथमसंस्करणम् - वि.सं. २०६२, निःशुल्कवितरणार्थम् । वैदिकसंहितासु भगवतः श्रीकृष्णस्य चरितं वर्ण्यते - इति मन्त्रभागवते शुक्लयजुर्वेदस्य करपात्रभाष्ये च यथास्थलं प्रतिपाद्यते । पुराणेषु महाभारते च भगवतः श्रीकृष्णस्य स्तुतयो विराजन्ते । भगवता शङ्कराचार्येणाऽन्यैश्चाऽऽचार्यवर्यैर्विद्वद्भिश्च भगवान् श्रीकृष्णो रम्यैः स्तोत्रैः संस्तूयते । इमां स्तुतिपरम्परां संवर्धयता श्रीगङ्गारामतनयकेवलरामेण श्रीकृष्णचन्द्राष्टकं प्रणीतम् । ____ लघुकायग्रन्थेऽस्मिन् अष्ट पद्यानि सन्ति । ग्रन्थस्य सम्यग् बोधाय समेषां पद्यानां सरलार्थः संस्कृतेन गोस्वामिना गोकुलनाथेनाऽयोज्यत । ग्रन्थान्ते 'वेदवेदेभचन्द्रेऽब्दे माधवे | सप्तमीकुजे । शुक्ले पक्षे तुर्ययामे दिनस्याऽजनि चाऽष्टकम् ।।' इति श्लोकाद् ग्रन्थस्य रचना | १८४४ तमे विक्रमाब्देऽभूदिति ज्ञायते । मालिनीवृत्ते विरचितस्याऽस्य स्तोत्रस्य कर्ता श्रीकेवलरामः क आसीदिति विषये किमपि न ज्ञायते । अत्र विद्वांसो विचारयन्तु । श्रीकृष्णचन्द्राष्टकं नितरां रम्यं स्तोत्रमस्ति । स्तोत्रेऽस्मिन् भगवतः श्रीकृष्णस्य समग्रं चरितं दिङ्मात्रेण प्रस्तूयते । एकं पद्यं द्रष्टव्यम् । "द्विपपरिवृढदन्तं यः समुत्पाट्य सान्तं सदसि परिभवन्तं लीलया हन्त सन्तम् । ३४ Page #48 -------------------------------------------------------------------------- ________________ स्वजनसुखयन्तं कंसमाराद् भ्रमन्तं सकलहृदि वसन्तं चिन्तयामि प्रभुं तम् ॥' (श्रीकृष्णचन्द्राष्टकम्, ३) पद्येऽस्मिन् कुवलयापीडनामकस्य हस्तिनो मातुलस्य कंसस्य च Ma विनाशस्य दृश्यं नितरां ललितशैल्या सलीलमनुप्रासोपेतया भाषया वर्ण्यते । स्तोत्रस्य प्रत्येकं पद्यं नूतनं भावं विशदीकरोति । हिन्दीभाषाया महाकवेः सूरदासस्य 'पदेषु' श्रीकृष्णस्य बाललीलाया मनोरमवर्णनं कस्य सहृदयस्य हृदयं न हरति, तस्या एकं चित्रं वक्ष्यमाणे पद्ये संस्मर्यते । मायातीत: परमेश्वरः कथं मानवलीलायां नवनीतचौर्यकर्मणोः बिभेति ? पद्यस्याऽस्य नादसौन्दर्य चित्तं नितरां प्रसादयति । 'करधृतनवनीतः स्तेयतस्तस्य भीत: पशुपगणपरीतः श्रीयशोदागृहीतः । निखिलनिगमगीतः कालमायाद्यभीत: कनकसदुपवीतः श्रीशुकादिप्रतीतः ॥' (तदेव, ४) जगद्गुरु-श्रीमद्-वल्लभाचार्य-विद्यालक्ष्मी-संवर्धन-सङ्कल्पे श्रीमतां जगद्गुरुमहाराजानामाज्ञया प्रकाशितं मुद्रणादिदोषविरहितं श्रीकृष्णचन्द्राष्टकं न केवलं श्रीकृष्णोपासकानाम् अपि तु सर्वेषां सुरभारतीसमुपासकानां स्वान्तं प्रीणाति । मन्येगोवर्धनेशप्रकाशनमण्डलमन्यान् सद्ग्रन्थान् प्राकाश्यं नीत्वा देववाणीग्रन्थवैभवं विवर्धयेत् । PRE आर्योऽपि दोषान खलवत् परेषां वक्तुं हि जानाति परं न वक्ति । किं काकवत् तीव्रतराननोऽपि कीर: करोत्यस्थिविघट्टनानि ? ॥ ३५ Page #49 -------------------------------------------------------------------------- ________________ काव्यानुवादः मुनिकल्याणकीर्तिविजयः। (एकया आफिकीयबालिकया कवितैका लिखिता २००५ तमे वर्षे आङ्ग्लभाषया । सा च पुरस्कृता महापुरस्कारेण श्रेष्ठकाव्यतया । अत्र च तदनुवादः संस्कृतभाषया प्रस्तूयते ।) आङ्ग्लमूलम् संस्कृतानुवादः When I born I black. When I grow up I black. When I go under Sun, I black When I scared, I black. When I sick, I black. And When I die, I black. And you white fella !! When you born, you pink. When you grow up, you white. When you go under sun, you red. When you cold, you blue. When you scared, you yellow. When you sick, you green. When you die, you grey. And You calling me cloured ? यदाऽहं जाता तदाऽहं श्यामा यदाऽहं संवृद्धा तदाऽहं श्यामा यदाऽहं सूर्यातपेऽटामि तदाऽहं श्यामा यदाऽहं भीता तदाऽहं श्यामा यदाऽहं रुठणा तदाऽहं श्यामा तथा यदाऽहं प्रिये तदाऽप्यहं श्यामा । किन्तु, त्वं श्वेतजन !! यदा त्वं जातस्तदा त्वं पाटलः यदा त्वं संवृद्धस्तदा त्वं श्वेतः यदा त्वं सूर्यातपेऽटसि तदा त्वं रक्तः यदा त्वं शीतस्तदा त्वं नीलः यदा त्वं भीतस्तदा त्वं पीतः यदा त्वं रुग्णस्तदा त्वं हरितः यदा त्वं नियसे तदा त्वं पाण्डुर तथाऽपि त्वं मामेव वर्णितां कथयसि ? ३६ Page #50 -------------------------------------------------------------------------- ________________ अनुवादः । पक्षिपरिषत्र मुनिकल्याणकीर्तिविजयः जगतो ज्ञाता अज्ञाताश्च पक्षिण एकत्र मिलिता एकदा । तेषां चर्चाया विषय | Wआसीद् यद्- 'जगत्यस्मिन् कोऽपि देशोऽराजको नाऽस्ति, केवलमस्माकं पक्षिणां न (9 1 कोऽपि शासिता विद्यते । परिस्थितिरियं नोचिता चिराय । अतोऽस्माभिर्यथाशीघ्रं प्रयत्नान् । | कृत्वा मृगयितव्योऽस्माकं राजा। अन्यथाऽस्माकं तन्त्रं सम्यक्तया कार्यरतं न भवेद्' इति । \ सर्वेऽपि पक्षिणश्चिन्ताक्रान्ता आसन् यत् 'कथमस्माकं राजाऽस्मान् मिलेत् ?', एतदर्थं च सर्वेऽपि सर्वसामर्थ्येन प्रयतितुमुत्सुका उत्साहयुताश्चाऽऽसन् । अथ तान् चिन्तितान् दृष्ट्वा हुदहुद* - नाम्नी पक्षिणी तान् सम्बोधयितुं । ITA पर्षन्मध्यमागता । तस्या उरस्यध्यात्मज्ञानस्य रहस्यमयं प्रतीकमासीत्, मस्तके सत्यमयो मुकुट आसीत् । सा सत्यमनृतं शुभमशुभं चेति सर्वमपि जानाति स्म ।। मधुरस्वरेण तयोक्तं, "बन्धवः ! अहमस्माकं राज्ञः स्थानं जानामि । किन्तु तत्र प्राप्तुमस्माकं राजविषयिकी हार्दिकी निष्ठाऽऽवश्यकी सर्वप्रथमतया। तत्स्थानं शोधयितुं | नैकानि गुप्तरहस्यानि ज्ञातव्यानि, तथैवोत्कटा श्रद्धाऽविचला धृतिरश्रान्तश्च परिश्रम जा आवश्यकाः । यदि भवन्त एतदर्थं सिद्धास्तदा कथयेयं भवद्भयो नो राज्ञो नाम तत्स्थानं च ।" सर्वैरुक्तं, "वयं सिद्धाः स्मः ।" । सोक्तवती, "तर्हि शृण्वन्तु, अस्माकं राज्ञोऽभिधानं सीमुर्ग इत्यस्ति । स पृथिवीं A) सर्वतो वेष्टिते काफनामके पर्वते एकस्यां गुहायां निवसति । स जगतः सर्वेषामपि पक्षिणां IA राजाऽस्ति । यद्यपि स सर्वदाऽस्माकं सन्निहितोऽस्ति तथाऽपि नः सामर्थ्याभावाद् वयं 0 ततोऽतीव दूराः स्मः । अस्माकं ज्ञानं तं ज्ञातुं तत्स्वरूपं वाऽवबोद्धं नैव समर्थम् । स्वीये Hoopoe ३७ Page #51 -------------------------------------------------------------------------- ________________ स्थानेऽपि स पूर्णतया न प्रकटीभवति, अतस्तत्प्रापणं तु कठिनमेव, परं तद्वर्णनमपि । दुष्करम् । सहस्रशो विहगास्तं प्राप्तुं प्रयतितवन्तः, सहस्रशश्च तदर्थमुत्कण्ठिताः, किन्तु बुधम्मन्याः पक्षिणोऽपि तं शोधयितुं तत्सौन्दर्यं वा प्राप्तुं नैव शक्ताः । तत्प्रापणायाऽऽदरणीयः प्रवासोऽप्यतिदी? दुर्गमश्च । तत्र प्रवसितुकामेन स्वजीवितमपि पणीकर्तव्यं, तस्य शोधने च कदाचिन्मरणमपि सम्मुखीकर्तव्यम् ।" "किन्तु, यदि वयं निष्ठापूर्वकं तस्य मार्गणे प्रयत्नरता भवेमस्तदा स स्वयमेवाऽस्माकं सम्मुखमागत्याऽस्मान् स्वस्थाने नेष्यति स्वतुल्यांश्च करिष्यति ।" हुदहुदपक्षिण्या एतानि वचनानि श्रुत्वा सर्वेऽपि पक्षिणो विषयमेनं परस्परं चर्चितवन्तः। सर्वेषां मनसि स्वनृपसंशोधनस्याऽभिलाष आसीत् । अतः प्रथमं तु सर्वैरपि- "वयं सीमुर्गं शोधयिष्यामहेऽवश्यं मृगयिष्यामहे" इत्यादि कलकलः कृतः । | किन्तु यदा भावावेशोऽपगतः परिस्थितेश्च भानमभवत् तदा सर्वेषां 'कठिनैषा यात्रा, दुष्करा दुःशका चेति प्रतिभातम् । अत एकैकोऽपि पक्षी तत्र गमनाय स्वीयानिच्छां दर्शयितुं विविधान् व्याजान् विमोचनहेतूंश्च कथयितुमारब्धवान् । सर्वप्रथममेव बुल्बुल आगतः । पञ्चमस्वरेण तेन स्ववृत्तकथनमारब्धम् । तस्य कण्ठान्माधुर्यप्रवाह एव निःसृत इव । प्रत्येकं शब्दः पूर्वतनाच्छब्दान्मधुरतरो नूतनानि च रहस्यान्युद्धाटयन्निव प्रत्यभात् । अनेन हृदयस्पर्शिमाधुर्यश्रवणेन सर्वेषां पक्षिणां कोलाहलः शान्तोऽभवत् । तेनोक्तं, "सुहृदः ! अस्मिञ्जगति प्रेम्णो रहस्यान्यहमेव जानामि । आरात्र्यहं प्रेमसङ्गीतस्य गानं करोमि । वंशादीनि वाद्यान्यपि मधुरतार्थं मामेवाऽऽश्रयन्ते । अन्यच्च, पाटलपुष्पाणि ममाऽतीव प्रियाणि । तेषु विहरनहं प्रेमिजनानां हृदयेषु व्याकुलतां जनयामि । विषादप्रेरकं मे प्रत्येकं गानं नूतनमेव रहस्यमुद्घाटयति । मम सङ्गीतेन विरहिजनानां हृदयेभ्यो निःश्वासानां सागर एव समुद्भवति । पण्डिता अपि मद्गानश्रवणेन प्रेमपरवशीभूय स्वबुद्धिमप्यवमन्यन्ते ।" ___ "किन्तु पाटलपुष्पं विनाऽहं वियोगीवैकलो जीवितुं नैव शक्तः । तदपश्यतो मत्तः सङ्गीतमेव न प्रकटति, प्रत्युत मम गानरहस्यानि विलीनीभवन्ति । ममाऽन्तःसत्त्वमस्तित्वं च पाटलपुष्पाणामस्तित्वे एव विद्यते । तैर्विना नाऽहं किमपि कर्तुं शक्तः । पाटलपुष्पाण्येव (9) ना मदर्थं पर्याप्तानि । यतस्तानि मत्कृते एव प्रोत्फुल्लन्ति । ततोऽप्यधिकं न किमप्याशासे। यतः प्रेमगानं पाटलपुष्पसन्निधिं च विना कथमहमेकदिनमपि जीवितुं शक्तो भवेयम् ? | अतो राज्ञः सीमुर्गस्य प्रापणाय यात्रां कर्तुं नाऽस्ति मे सामर्थ्यम् ।" ३८ Page #52 -------------------------------------------------------------------------- ________________ श्रुत्वैतद् हुदहुदपक्षिण्या स्वस्थतयोक्तं - "भो बुल्बुल ! यदि भवान् बाह्यरूपे स्थूलसौन्दर्ये चैवाऽऽसक्तिमान् भवेत् तदा साऽऽसक्तिर्भवतोऽहितायैव स्यात् । पाटलपुष्पाणां | सान्निध्यं यद्यप्यापातमधुरं तथाऽपि तत् कण्टकैर्व्याप्तमस्ति । तैर्विद्धो भवान् तेषामाधीन्यं स्वीकृतवानस्ति । यद्यपि तानि सौन्दर्यमण्डितानि, तथाऽपि तेषां सौन्दर्यं क्षणिकं क्षणभङ्गुरं च । यः स्वयं पूर्णत्वापेक्षी स्यात् तस्य क्षणिके सौन्दर्ये कथं वाऽऽसक्तिर्भवेत् ? तथा, यदि पाटलपुष्पाणां विकाशो भवन्मानसे आसक्ति जनयति तदा, यदा तानि म्लास्यन्ति तदा भवदर्थं दुःखमेवाऽवशिष्येत ! किञ्च, वसन्तर्तावेव विकाशं प्राप्य ततो यन्म्लायति, तादृशस्य स्नेहेन मोहेन वा किं प्रयोजनम् ?" एतन्निशम्य सोऽधोमुखं ततोऽपसृतः । अथ त्वरितमेव हरितनेपथ्यः स्वर्णवर्णकण्ठहारो रक्तचञ्चपुटश्च शुकोऽग्रे आगतः । तस्य तेजसा श्येनादयोऽपि म्लाना जाताः । तत्पक्षयोराभयैव पृथिवीयं हरितवर्णा जातेव । तस्य वाणी शर्करामयीव मिष्टाऽऽसीत् । सप्रणामं तेनोक्तं, “बन्धवः ! यद्यपि वज्रकठिनहृदयैर्निष्ठुरमनुजैर्मादृशः सुन्दरः | पक्षी पञ्जरे क्षिप्तोऽस्ति, तथाऽपि कारागृहे स्थितस्याऽपि ममाऽमरत्वं प्राप्तुं तीव्राभिलाषोऽस्ति । अहममृतत्वस्य मूलस्रोतः प्राप्तुमवश्यमुत्कण्ठितोऽस्मि, किन्तु मे पक्षयोर्गरुडतुल्यं बलं नास्ति । अतः किं करोमि ? पक्षिषु खिँझरसदृशोऽहमेवमेव कालं यापयामि । " हुदहुदपक्षिण्या कथितं, "भोः पक्षिन् ! आनन्दनामकं वस्त्वेव भवान् न जानाति । तथेदं जीवनं किञ्चन लक्ष्यं साधयितुं प्राप्तं भवता । लक्ष्यप्राप्तये च सर्वसामर्थ्येन प्रयतितव्यम् । तदकुर्वन् यस्तुच्छबन्धनान्यपि त्रोटयितुं न शक्तः स कथं वा जीवतीति कथ्येत ? मन्ये भवत्यन्तः सत्त्वमेव नाऽस्ति । मम वचनेषु यदि भवतः श्रद्धाऽस्ति तदोच्चलक्ष्यं निश्चित्य तत्प्राप्तियात्रायां सम्मीलितो भूत्वा च कृतार्थो भवतु ।" सा यावत् तूष्णींभूता तावता सुवर्णमयूरो नृत्यन्निवाऽऽगतः । मनोमोहकवर्णमयैः पिच्छैस्तेन स्वीयकलाकलापः प्रदर्शितः । ततो लज्जां व्यक्तीकुर्वन्निव केकां कृत्वा कथितवान्, “विधात्रा चमत्कारिकतूलिकया मदीयाः पिच्छाश्चित्रिताः सन्ति, पक्षिभ्यश्च दिव्यतायाः सन्देशस्य कथनं मम कर्तव्यतया निश्चितमस्ति । किन्तु, एतावताऽपि मे भाग्यं नाऽस्तीर्ष्याकरम् । प्रथममहं स्वर्गे निवसन्नासम् । तत्र च सर्पेण सह मम * खिझर - इत्यनेनाऽमरत्वं प्राप्तमिति मन्यते । ३९ Page #53 -------------------------------------------------------------------------- ________________ | | गाढमैत्र्यमासीत् । एतस्मादेव कारणादहं स्वर्गान्निष्कासितो विश्वासपदाच्च भ्रंशितः ।" ।। "अथ पृथ्व्यामागतस्य मे पादावेव मदर्थं कारायितौ । अतः प्रत्यहमहं कञ्चिद् (/ देवदूतं प्रतीक्षे यो मामिहत्यादन्धतमस उन्नीय प्रकाशस्य महाप्रासादे स्थापयेत् । भवदुक्तस्य राज्ञः समीपेऽपि गन्तुं नाऽहमिच्छामि । तस्योद्यानस्य द्वारमपि प्राप्नुयामहं तदाऽप्यलम् । किञ्च, पृथिव्याः स्वर्गे वस्तुकामा मादृशाः कथं वा सीमुर्गं प्राप्नुयुः ? मम परमाभिलाषस्तु स्वर्गजीवनस्यैवाऽस्ति, अन्यत् सर्वमपि मदर्थं निरर्थकमेव !!" तदुक्तं निशम्य हुदहुदपक्षिणी स्थैर्येणोक्तवती, "भोः ! भवान् कुमार्ग प्रस्थितोऽस्ति । | स्वर्गादपीह नो राज्ञो महालयोऽत्यधिकं सुन्दरोऽस्ति । आत्मनः शाश्वतं निवासस्थानं स । एव । अस्माकं मनोरथानां परमास्पदं हृदयस्यैकैव महत्त्वाकाङ्क्षा च तस्य सत्पदस्य प्राप्तिरेव स्यात् । तत्पदं हि विराटसागर इव समस्ति । तदने स्वर्गसुखानि तु बिन्दूयते। । सागर एव यदा सुप्रापस्तदा किमर्थं वा तुषारकणस्य कृते तपः कर्तव्यम् ? यः सूर्यस्याऽनन्तरहस्यानां सहभागी स धूलिकणैः कथं वा रमेत ? पूर्णत्वापेक्षी किं कदाऽपि अल्पैरंशैः प्रीणितो भवेन्ननु ! यदि भवान् पूर्णीभवितुमिच्छेत् तदा पूर्णमेवाऽभिलषस्व, पूर्णमेव मृगयस्व पूर्णमेव च प्राप्नुहि ।" तावता पक्षिकदम्बकमध्याद् भीतभीत इव कादम्बो बहिरागतः । तच्छरीरं TA श्वेतकन्थया विभूषितमासीत् । पर्षन्मध्यमागत्य स उक्तवान्, "सुहदः ! मत्तोऽपि सुन्दरतरो निर्मलतरश्च पक्षी भवद्भिदृष्ट एव न स्यात् । प्रतिक्षणं जीवनस्य मलं वारिणा क्षालयन् जले एव च निवसन्नहं जले प्रार्थनाया आस्तरणमेव प्रसारयामि । को वा पक्षी एवंरीत्या || जले निवसेत् ? तथा, जलवासेनैव मयाऽन्येभ्यो विलक्षणा शक्तिरपि प्राप्ताऽस्ति । | मादृशः स्पष्टदृक् स्वच्छवेषः शुद्धमूलः सदाऽनुतापी च पक्षी नाऽन्यः कोऽपि प्राप्येत ।" "किन्तु सलिलादप्यन्यत् किञ्चिदपि मदर्थं कल्याणकारि नैवाऽस्ति । मम निर्वाहो वासश्च जले एव । यदा काश्चनाऽपि बाधा मां पीडयन्ति तदा जलसाहाय्येनैव ताः दूरीकर्तुं समर्थोऽहम् । यत्र चाऽहं वसामि तज्जलमपि स्वच्छमेव भवति । परं शुष्का पृथिवी मे नैव रोचते । यतोऽत्र जगति जलस्यैव प्रभावाज्जीवन्ति सर्वेऽपि जन्तवः । अतो भवन्त एव कथयन्तु, कथं वाऽहं तादृशं जलं त्यक्त्वा विषमा दरीरुल्लचितुं सीमुर्गं च प्राप्तुं शक्नुयाम् ? का वाऽऽवश्यकता मम तादृशमायासयितुम् ? अहं तु वारितले एव ना जीवामि तेनैव च सन्तुष्टोऽस्मि सन्तृप्तश्च ।" तदा, "समग्रं जीवनं जलवासस्याऽऽनन्दमनुभवन्नरे पक्षिन् ! जलवासेन भवान् | अलसत्वं प्राप्य तन्द्रारतः सञ्जातोऽस्ति । किन्तु भवतोऽतिप्रियस्य जलस्यैक एव कल्लोल | Page #54 -------------------------------------------------------------------------- ________________ भवन्तमितोऽपक्रष्टुमलम् । किञ्च, यस्य मुखं निर्मलं व्यवहारश्च शुद्धस्तत्कृत एव जलं LI हितकारि। यदि भवानपि तादृश एव तदा न मयाऽस्ति किमपि वक्तव्यम् । परन्तु / भवानाजीवनमपि तादृश एव स्थातुं शक्तो वा ?, इति चिन्तय सम्यक् " इत्येवं हुदहुदपक्षिण्या उपालब्धः सः ।। ततो मन्दमन्दं चलन् चकोरोऽग्रे आगतः । तद्व्यक्तित्वं चारुतयाऽऽत्मसन्तोषेण च शोभमानमासीत् । तस्याऽरुणवणे वस्त्रे मुक्तानां निधिरिव निहित आसीत् । रक्तवर्णाभ्यां नयनाभ्यां तादृशवर्णया च ग्रीवयोन्नतं मस्तकं धारयन् स स्वीयकोशे खड्गं वोवा तत्राऽऽगतः । लज्जालुतया तेन स्वग्रीवोर्वीकृता कथितं च, "बन्धवः ! गिरिगह्वरेषु / भ्रमणमेव मे रोचते । रत्नसङ्ग्रहणं मेऽभिरुचिः । रत्नैर्मम हृदये सार्वदिकोऽग्निः (9) प्रज्वालितोऽस्ति । यश्च मेऽतीव सन्तोषावहः । किञ्च, यदा मेऽन्तःकरणे कामनाग्निर्जागर्ति - तदा ये रत्नोपला मया गिलितास्तेऽपि शोणितेन सिक्ता इव रक्तवर्णा भवन्ति । बहुशोऽहं स्वमुभयो रत्नाग्न्योर्मध्ये पिष्यमाणं निष्क्रियमुद्विग्नं च पश्यामि । पश्यन्तु सुहृदः ! कथमहं जीवामि । ये पाषाणेषु शेरते कर्करांश्च खादन्ति तेषां जागरणं नाऽस्ति सुकरम् !" "मम हृदयं हि विषादशतैर्वणितमस्ति यतो महार्घाणां रत्नानामभिलाषो गिरिमालासु मां भ्रामयति । यतोऽन्येषां सामान्यवस्तूनामभिलाषो हि क्षणिकः, रत्नानां साम्राज्यं तु सनातनम् । शाश्वतानां गिरिकन्दराणां नि:ष्यन्दं तत् । इह जगति रत्नेभ्योऽप्यधिकमूल्यं ID नाऽस्ति किञ्चिद् वस्तु । मुक्ता अपि तत्कोटि नैव प्राप्नुवन्ति । अत एव कटिपढें खड्गं च धारयन्नहं सर्वदा रत्नान्येव मृगयमाणो भ्राम्यामि । एवं च मे पादौ रत्नेषु कर्दम इव संश्लिष्टौ, सीमुर्गप्राप्तेश्च मार्गोऽतिविकटोऽस्ति । तत्कथमहं तदर्थं साहसं कुर्याम् ? अहं | महार्घरत्नान्येव मृगयमाणो मरिष्ये। एवं च ममाऽऽभिजात्यं स्पष्टमेव । ये च मे जीवनस्याऽऽदर्शान् नाऽवबुध्यन्ते तेषां जीवनं तुच्छम् ।" तदा मस्तकं विधुन्वती हुदहुदपक्षिणी तं प्रत्युत्तरितवती, "भो पक्षिन् ! भवान् यद्यपि नैकवर्णानि रत्नानि धारयति तथाऽपि परेव भवान् । भवतस्तर्का अपि युक्तिहीनाः । भवतश्चित्तं कामनाभिर्विकृतं जातमस्ति । रत्नानां मार्गणमेव भवतोऽधोगतिः । किञ्च, रत्नानि हि तावत् वर्णमया उपलखण्डा एव । यदि तत्र वर्णा न स्युस्तदा तु तेऽपि सामान्याः प्रस्तरा एव । तथाऽपि तेषामासक्तिर्भवन्तं मूढं भवतो हृदयं च कठोरं करोति ।" "तथा, यः स्वयमेव सु-वर्णः स्यात् स कथं वा वर्णानामन्वेषणे मूढो भवेन्ननु ? - KI यश्चाऽन्तःसारधारकः स बाह्यरूपेषु कदाचिद् विमुह्येत् किल? अतो भवांस्तेषां पाषाणानां ) || मोहं त्यक्त्वा सत्यस्याऽऽन्तररत्नस्याऽन्वेषको भूयाः । तदेव भवते श्रेयस्करं भावि ।" | ४१ Page #55 -------------------------------------------------------------------------- ________________ ____ अथ च पर्षत्पुरतो देवहुमा-पक्षी समुपस्थितः । सम्राड्भ्यश्छायादानेन तेषामैवयकरणमेव तस्य कर्तव्यम् । अत एव छायादातुस्तस्य सौभाग्यवान् (हुमायून) / (0) इति सान्वर्थं बिरुदं कृतमस्ति । सर्वेभ्योऽपि पक्षिभ्यस्तस्य महत्त्वाकाङ्क्षाऽधिकाऽऽसीत् । (७) सगर्वं स उक्तवान्, "भोः पृथिवीपक्षिणः सागरपक्षिणश्च ! नाऽहमस्मि युष्मादृशः - सामान्यपक्षी । मदीयमहत्त्वाकाङ्क्षया गतिशीलोऽहं तां सन्तोष्टुं सततं प्रयत्नरतो भवामि । एवं चाऽहमन्येभ्यः पक्षिभ्यो विशिष्टो भवामि । ममाऽन्तरुदयमानाः सर्वा अपि कामना मया संयमिताः । तथा, यदाऽपि कदाचित् कामनाशुनी बुक्कति तदाऽस्थिखण्डं वैकं तस्यै | दत्त्वा तां सन्तोषयामि तत्साक्षितया च मम चेतनां नियोजयामि ।" "किञ्च, स्वीयच्छाययाऽहं महासम्राजः प्रतिष्ठापितवानस्मि । बहवो राज7 महाराजा मदीयां छायामाश्रित्यैवोदयं प्राप्ता राजन्ते । अत एव सामान्या जना मां प्रीणयितुं नाऽर्हन्ति । यस्य च्छाया सम्राजो निष्पादयन्ति तं कथं वा सामान्यास्तोषयेयुः?" DI "तथा, सर्वे जना ममाऽऽश्रय एव रक्षणं शोधयन्ति प्राप्नुवन्ति च । राजत्वस्याऽप्यहमेव शरणम् । अतो मे नास्ति सीमुर्गस्याऽऽवश्यकता नाऽपि तन्मैत्र्या अपेक्षाऽपि काचित् ।" स्मित्वा हुदहुदपक्षिण्योत्तरितं, "भो गर्वान्ध ! मुञ्चत्विदानी छायाभिमान, यतो भवान् नैवाऽस्त्यधुना राज्ञां छायादाता । साम्प्रतं तु भवतो दशाऽस्थिखण्डलेहिनः शुन इवाऽस्ति ।" "किञ्च, भवता प्रापितं सिंहासनं तु भगवानेव रक्षतु । भवतश्छायायां यदा सम्राजः सत्ताभ्रष्टा राजत्वविहीनाश्च भविष्यन्ति तदा भवतोऽभिमानः कुत्र गमिष्यति ? / भवतश्छायाप्रभावेण तै राज्यमेव नाऽप्राप्स्यत तदेव वरमासीत्, इदं दौर्भाग्यं तु तैर्न सोढव्यमापतिष्यत् खलु !" __सद्य एव स्वीयां दीर्घग्रीवां नर्तयन् श्येनोऽग्रे आगतः । तस्य व्यक्तित्वे सेनान्योऽभिमान दृश्यते स्म । तेनाऽपि स्वीयं वृत्तमुक्तम्, "अहमिह सम्राड्भिः सह मैत्री कृत्वाऽऽनन्दमनुभवामि । अन्येषां पक्षिणां विषये नाऽस्ति मे कश्चिदादरः । अहं तु मम नेत्रयोरवगुण्ठनं कृत्वा राज्ञां हस्ते उपविशामि । सभ्यव्यवहाराभ्यासेन ममाऽभिरुचयो ( रीतयश्चाऽपि संस्कृताः सन्ति येन राजभिरपेक्षित-माचरणमेव मया सर्वदा क्रियेत । अत जा एव च मम स्थानं राजास्थानेषु सदाऽविचलं भवति । एतावता किमर्थमहं स्वप्नेऽपि सीमुर्गसाक्षात्कारमभिलषेयम् ? भवतां कठिनयात्रासु नाऽहं सहयायी भवितुमिच्छामि । | राजतो कोऽपि ग्रासखण्डो मम लभेत तत एव मे सन्तोषो भवति । तदीया संसदेव च ।। ४२ Page #56 -------------------------------------------------------------------------- ________________ | मदर्थं सर्वस्वम् । तथा, राज्ञां प्रतीक्षा तेषां मृगयार्थं च पशु-पक्षिणां मार्गणमेव मम । जीवनस्य परमलक्ष्ये । तत एव च सुखमनुभवाम्यहम् ।" । एतन्निशम्य विचारशीलदृक्पातपूर्व हुदहुदपक्षिण्युक्तवती, "भो दास्यव्यसनिन् ! (0) भवान् बाह्यरूपेषु सक्तो भूत्वाऽऽन्तरमूल्यान्युपेक्षमाणो दृश्यते । सीमुर्गस्य सत्ता निःसीमाऽप्रतिरूपा च । किन्तु स सर्वथा दयालुः सत्यतया च राजाऽस्ति । सत्यश्च राजा कदाऽपि स्वीयसङ्कल्पशक्तेर्मूर्खवद् दुरुपयोगं नैव कुरुते । किन्त्वेते पार्थिवा राजानो हि कदाचिन्न्यायिनः प्रायशश्चाऽन्यायिनो भवन्ति । तन्निकटे वसतां जनानां दशा हि नितरां शोचनीया भवति । तेषां सदाऽपि जीवितव्यापायो भवति, ततश्च तैः प्रतिपदं राज्ञो A मानसमनुवर्तितुं प्रयतनीयं भवति । तेषां वृत्ती राज्ञां कृपामेवाऽवलम्बते। राजा हि 15 वह्नितुल्यः । ततो दूरे एव वासो वरः । समीपं गतानां स यदा कदाऽपि दाहयत्येव ।" IS ___ "एकं प्रसङ्गं श्रावयामि । 'एकस्य राज्ञ एकः सेवक आसीत् । स रूपवान् दृढकायश्च । राज्ञस्तस्मिन् बहु स्नेह आसीत् । स सदा तं स्वपार्वे एव स्थापयति स्म । क्षणमात्रं चाऽपि तस्य वियोगं सोढुमशक्तश्च । राज्ञा तस्मै सुन्दरवसनानि दत्तवानासीत् । । पर्षदि च तं स्वसन्निधावेवोपवेशयति स्म ।' 'अथो राजा शराभ्यासव्यसन्यासीत् । एनं सेवकं स एकत्रोपस्थाप्य तन्मस्तकोपरि EAN च फलं स्थापयित्वा तद्वेधनेन शरक्षेपणाभ्यासं करोति स्म । यदाऽपि स बाणं मुञ्चति स्म तदाऽस्य सेवकस्य मुखं विवर्णं भवति स्म हृदयं च स्पन्दनाद् भ्रश्यति स्म । यदा च बाणं लक्ष्यं विध्यति स्म तदैवाऽसौ मनोनिर्वृतिमनुभवति स्म । तस्येदृशी चिन्ताचान्तां परिस्थितिं दृष्ट्वा मित्रेणैकेन पृष्टः स कथितवान्, “यदा राजा लक्ष्याच्च्युतो भवति तदा ममैवाऽपयशो, निन्दा मरणचिन्ता च । यदि च स लक्ष्यं साधयति तदा तस्यैव प्रशंसा यशोवादश्च । अतो ममैकैवेच्छा सदा भवति यद् राज्ञो लक्ष्यं सिध्यतु" इति ।' एवं चाऽरे - श्येन ! दास्यव्यसनिनां दशेदृश्येव भवति ।" । अथ च त्वरया सारसोऽग्रे आगतः । आगतमात्रेणाऽपि तेन स्वकथनमारब्धम्, "अरे वयस्या ! अहं समुद्रतटे शैवलखचितायां भूमौ निवसामि । स्वभावतोऽनाक्रमक्रस्य विहगस्य मम विषये कस्यचिदपि न काऽप्यापत्तिरस्ति । किन्तु ममैवैतद् दुर्भाग्यं यदहमेकल एव विषादयुतस्तस्यां क्षारमय्यां पृथ्व्यां तिष्ठन् सदा मधुरजलेच्छया पीडितो भवामि । अहं हि सामुद्रपक्षी नाऽस्मि, तथाऽपि समुद्रतट एवाऽऽमरणं मे निवासः । सामुद्रं जलं सर्वदैव मे पदस्पृगेव वर्तते तथाऽपि तद्विन्दुमात्रमपि नैव पिबाम्यहम् । एवं | सत्यपि समुद्रे मम तथा स्नेहो यथा, तत एकोऽपि बिन्दुर्यधुच्छल्य बहिर्निपतेत् तदा ।। - - ४३ Page #57 -------------------------------------------------------------------------- ________________ | सन्तापेन मे हृदयमाक्रन्दत इव । यतः समुद्रोपासनैव मे जीवनस्य परमार्थः ।" "किञ्च, मम देहे सीमुर्गसमीपे गन्तुं बलमेव नाऽस्ति । यो हि एकस्याऽपि (0) मधुरजलबिन्दोः कृतेऽपि विह्वलो भवेत् स कथं वा सीमुर्गेण सहैक्यप्राप्तेः स्वप्नमपीक्षितुं ना प्रभवेत् ?" हुदहुदपक्षिण्योक्तं, "सागरस्वभावानभिज्ञ ! भो मूर्ख ! किं भवान् जानाति यत् समुद्रो हि महामत्स्यैर्वृहत्कायैश्च मकरादिभिर्नितरां भृतोऽस्ति ? तस्य जलमपि कदाचित् क्षारं कदाचिच्च मधुरं, कदाचिच्छान्तं कदाचिच्च प्रक्षुब्धं भवति । स सर्वदाऽस्थिर: परिवर्तनशीलश्च । तस्मिन् व्यसनोदयावपि सदैव वरीवृत्येते एव । तं विश्वस्य बहवो महाजनास्तत्र निमग्नाः सन्तो मृताः । नाऽस्ति स विश्वासार्हः । यदा कदाचिदपि भवन्तमपि विनाशयिष्यति ।" ___ "किञ्च, समुद्रोऽसावपि स्वमित्रस्नेहप्राप्त्यर्थं व्याकुलोऽस्ति । अत एव कदाचिदसौ क्षुब्धो भूत्वा कल्लोलान् जनयति कदाचिच्च नैष्फल्यवशाद् गर्जत्यपि, किन्तु स्वाशां पूरयितुं न कदाऽपि समर्थः सः । एवं स्थिते तव हृदयस्य विश्रामस्थानं कथं वा भविता? ) तथा, समुद्रोऽपि स्वमित्रप्राप्तये क्षुद्रनदीयते एव यदा, तदा भवता केन सन्तोषेणाऽत्र IV स्थितमस्ति ? तदीयाध्रुवमैत्र्यादपि सीमुर्गप्राप्तेर्मनोरथा एव श्रेयस्कराः ।" ततः शून्यतया भ्रमन्निवोलूक आगतः । सोऽपि स्वीयं वृत्तं श्रावितवान्, “पक्षिणः ! - निवासार्थं मे खण्डगृहं शून्यगृहमेव वा रोचते । मम जन्माऽपि तत्रैवाऽभवत्, तत्रैव च वासेन ममाऽऽनन्दः । यद्यपि बहवो महालया अपि सन्ति यत्र सुखेनोष्येत, किन्तु तेभ्यो बहुश आलया ईष्या-द्वेष-दुःखोद्वेगादिभिः पूरिताः सन्ति । तत्र च पदे पदे सङ्घर्षो बहूनां 10) च मत्सरोऽपि सम्मुखीकर्तव्यो भवति । अतो योऽपि शान्त्या जीवितुमिच्छेत् (0) तेनोन्मत्तवज्जीर्णगृह एव निवसितव्यम् ।" "अपि च, अन्यदपि कारणमस्ति मम तत्र वासस्य । बहुशस्तेषु जीर्णगृहेषु पुराणा धननिधयो निखाताः सन्ति । तेषां निधीनां मोहोऽपि मां तत्रैव वस्तुं विवशीकरोति । एवं च, तत्र वासेन निधिमार्गणमपि कर्तुं शक्येत मम प्रयोजनमपि च केनचिन्न ज्ञायेत । रक्षकाभावाच्च यदि कदाचिदेकोऽपि निधिर्वा मया प्राप्येत तदा मम जनिस्तु सफलैव।" "अथ सीमुर्गं प्रति समर्पणं तु शोभनमेव । किन्तु नाऽहं शक्तस्तदर्थम् । तथा 71 मे चित्ते तद्विषयिकी तादृशी प्रीतिरपि नाऽस्ति । अतो मामनुमन्यध्वं कृपया, अहं तु UN खण्डगृहेषु निधीनेव मृगयमाणो जीवनं यापयिष्यामि ।" ४४ Page #58 -------------------------------------------------------------------------- ________________ हुदहुदपक्षिणी कथितवती, "निधिलालसया मूढो जातोऽस्ति भवान् । किन्तु । प्राप्तेनाऽपि तेन भवतो न किञ्चित् प्रयोजनम् ! यतो यदि कदाचिद् भवता निधिः / प्राप्येताऽपि, परं यदा भवान् मरिष्यति तदा स निधिः किं भवन्तमनुसरिष्यति वा ? यस्मिन्नुच्चलक्ष्ये भवान् बद्धादरोऽस्ति तदपि भवद्धस्ताच्च्युतं भविष्यति । सुवर्णस्य मोहेन जातं मूढत्वं कापुरुषाणां जीवनस्य वैशिष्ट्यम् । सुवर्णस्य सङ्ग्रहीतारस्तत्राऽऽसक्ताश्च जीवा अपि मरणदिने तु कूटनाणकवद् हताशीभूय जीवनं हारयन्ति ।" ततश्च सुकोमलशरीरा भीतचित्ता च चक्रवाकी समागता कथितवती च । वेपमानकाया, "बन्धवः ! दैवहता हारिताऽहं किं वा वदानि ? कथं जीवितव्यमित्यपि A न जानाम्यहम् । केशवदतिदुर्बलो मे कायोऽस्ति । एकस्य कीटकस्याऽपि बलं नाऽस्त्येव (७) मे देहे । तथा, मे कोऽपि सहायकोऽपि नास्ति । एवं स्थिते मादृशी निर्बला निराधारा निःसत्त्वा च पक्षिणी सीमुर्गस्य प्राप्तेः कल्पनमपि कथं कुर्यात् ? शक्तिहीनाया ममैषा वार्ता विचारयितुमप्ययोग्या ननु ! । यत् स्थान प्राप्तुं सर्वथाऽसमर्थाऽहं तत् स्थानं प्राप्तुमतितमां कठिनामिमां यात्रामहं नैव चिकीर्षामि । तादृशीं यात्रां कुर्वाणाऽहं मध्येमार्गमेव मरणं शरणीकुर्याम् । अत एवाऽहं समीपवर्तिषु कूपेषु गृहेषु च मे प्रियतमं चक्रवाकं मृगयमाणा भ्राम्यामि । यदि कथमपि चक्रवाकं प्राप्नुयां तदा तु तत्सहिताऽहं 71 केनाऽप्यनवरुद्धतया चन्द्रमसमपि प्राप्स्यामि ।" । हुदहुदपक्षिण्या कठोरतयोपालब्धा सा, " रे तपस्विनि ! भवती कदाचिनिराशेव ग्लानि कदाचिच्चाऽऽशाया आनन्दमनुभवति । किन्तु द्वन्द्वस्याऽस्याऽतीव भ्रामके मायाजाले पतनं भयजनकम् । अपि च, भवत्या वचनेष्वपि दम्भ एव व्यक्तीभवति । भवत्या नम्रताऽपि गर्व-दर्पयुक्तैव । इतः परमेकमपि शब्दं मा वादीत् । ओष्ठपुटं सीवित्वाऽग्रेसरा भवतु । यदि मरणं वाऽप्यापतेत् तदा सर्वैरपि सहैव मर्तव्यं भवेत् ।" एवं चाऽनेकैः पक्षिभिः सीमुर्गप्राप्तेरनिच्छाया अशक्तेश्च कारणानि प्रस्तुतानि, किन्तु हुदहुदपक्षिणी तत्सर्वं श्रुत्वाऽपि लेशमपि नैराश्यं नैव प्राप्ता । प्रत्युत सा सीमुर्गप्राप्त्यर्थमन्यैः कृतानां पराक्रमाणां कथा अनुभवांश्च कथयित्वा पक्षिणोऽपि तदर्थं प्रेरितवती । तेषामुत्साहवृद्ध्यर्थं च, "वयस्या ! जीवनमेतन्नैवोदरपूरणार्थं बाह्यार्थपरिग्रहार्थं ममत्ववृद्ध्यर्थं वा प्राप्तम् । एतत्तु किञ्चिदतिभौतिकं ध्येयं साधयितुं प्राप्तम् । तदर्थं चाऽस्माभिः सर्वसामर्थ्येन प्रयतितव्यम् । अन्यथा नो जन्म निरर्थकमेव पूर्णीभविष्यति, सदाऽऽवर्तमाने च जन्ममरणचक्रे वयमेवमेवाऽटाट्यमाना कालं यापयिष्यामः । इह चाऽस्माभिरिदं ध्येयं - सीमुर्गप्रापणस्य निश्चितमस्ति । यदि तदनुसृत्य प्रवत्या॑महे तदा । Page #59 -------------------------------------------------------------------------- ________________ ध्येयस्य सिद्धावसिद्धौ वाऽपि नः प्रगतिर्भविष्यत्येव । यदि परं दुःखभयेनाऽन्येन वा । केनचित् कारणेनऽवरुद्धा भवामस्तदा न किञ्चिदपि सेत्स्यति । इतश्च स्थानादेकपदप्रमाणाऽपि / प्रगति व भविष्यत्यस्माकम्" इति बोधितवती । "तथाऽहं स्वयमेवाऽस्यां यात्रायां () धुरीणाऽग्रेसरा मार्गदर्शिका च भविष्यामि, आपदि चाऽग्रे स्थास्यामि, सङ्घर्षाणामन्तरायाणां च नाशार्थं प्रयतिष्ये, सर्वासां समस्यानां निराकरणं करिष्ये, सर्वेभ्योऽप्यधिकं दुःखमहमेव सहिष्ये" इत्याप्यायितवती च । ततः, सीमुर्गप्राप्तेरनन्तरं सर्वेषां जीवनं कीदृगद्भुतं रमणीयं च भविष्यति, इत्यपि M सा स्वीयसर्वशक्त्या तान् बोधितवती । तस्या इयतीमात्मनिष्ठामियच्च श्रद्धैश्वर्यं विलोक्य / सर्वेऽपि पक्षिणो मूका इव सञ्जाताः । तां प्रतिवदितुं न कोऽपि शक्तोऽभवत् । यद्यपि सर्वेषां पक्षिणां मनांस्याशा-निराशयोरानन्द-विषादयोः श्रद्धाश्रद्धयोः सुख-दुःखयोश्च दोलायमानान्यासन्, तथाऽपि हुदहुदपक्षिण्यास्तेजसा सङ्कल्पबलेन च प्रभाविताः सर्वेऽपि पक्षिणस्तया सहैव सीमुर्गप्राप्तेर्यात्रां कर्तुं निर्णीतवन्तः । ततः सा हुदहुदपक्षिणी सर्वेभ्यः पक्षिभ्यो यात्रार्थं मार्गदर्शनं कृतवती यथा, "सुहृदः ! तत्र प्राप्तुमस्माभिः सप्त दरीरुल्लद्ध्याऽग्रे गन्तव्यम् । तत्र पृथ्वी परितो वेष्टिताया गिरिमालायाः सर्वोच्चे शृङ्गे एकस्यां गुहायां सीमुर्गस्य निवासोऽस्ति । यः TA कोऽप्येता दरीरुल्लचितवान् स परमप्रेम परममुक्तिं च प्राप्त एव । स कदाऽपि ततो न प्रतिनिवर्तते । किन्तु नैषा यात्रा सरला । आत्मपूर्णताया यात्रायामस्यां वर्तमानस्य यात्रिणो न कुत्राऽपि विरामः । यात्रायां सातत्यमेव तस्य जीवनम् । यदि तत्र मृत्युरपि प्राप्येत तदा सोऽपि तदर्थं मुक्तेरैक्यस्य परममिलनस्य च साधनम् ।" "प्रथमा दरी शोधनस्याऽस्ति । द्वितीया प्रेम्णस्तृतीया च शुद्धबोधस्य दरी । चतुर्थी दर्यनासक्तेर्मुक्तेश्च, पञ्चमी विशुद्धैकतायाः, षष्ठी महाश्चर्यस्य, सप्तमी च दरी शून्यताया अस्ति ।" "प्रथमां दरी प्राप्तमात्राणामेवाऽस्माकं कठिनतमा परीक्षाऽऽरप्स्यते । तत्र प्रविष्टैरस्माभिः सर्वासां सम्पदां त्यागः कर्तव्यः, वृत्तयः परावर्तनीया अनासक्तिश्चाऽऽत्मसात् कर्तव्या । एवं कृत्वा प्रार्थने कृते वयं दिव्यप्रकाशस्य दर्शने सहभागिनो भविष्यामः । / अस्माकमिच्छाशक्तिरुत्कटा भविष्यति । प्रार्थनाबलेन च यात्रार्थमस्माकं पादयोः (9) सामर्थ्यवृद्धिरपि भविष्यति । जीवने नूतन एव रस उदेष्यति । तेन च रसेन सीमुर्गशोधनार्थमस्माकं शक्तेरप्यनन्तगुणा वृद्धिर्भविष्यति । यदा च वयं तस्या दर्याः ) | पर्यवसानं प्राप्स्यामस्तदाऽस्माकं चित्तेभ्यो जाड्यं कुरूढीरन्धविश्वास इत्यादीनि कुतत्त्वानि । ४६ Page #60 -------------------------------------------------------------------------- ________________ विलयं प्राप्स्यन्ति ।" "द्वितीयदरीप्रापणात् पूर्वमस्मासु प्रेम्णो वैश्वाग्निः परमप्रेमपावकप्रकाशो वा (0) प्रकटितो भवति, धूमस्वरूपा बुद्धिस्तु विलीना भवति । यतः प्रेम सर्वमप्यान्तरदृष्ट्या ना निभालयति बुद्धिस्तु तर्कतुलायां सर्वमपि तोलयितुमुत्कण्ठिता भवति । बुद्धिमादौकृत्य " न कदाऽपि प्रेमाग्निः प्रज्वलेत् । अत एव प्रेमाग्नौ प्रकटिते तया गन्तव्यमेव ।" "प्रेम्णि हि सुन्दरमसुन्दरं वा सर्वमपि सम्माति । प्रेम्णश्चाऽऽन्तरदृष्ट्या सर्वेषां वस्तूनां प्रत्येकमणुरस्माकं साक्षाद् भवति । सत्यः प्रेमी प्रेमार्थं सर्वस्वमपि बलीकरोति, भाविचिन्तया च न किमपि रक्षति ।" "अथाऽत्र क्षणे यात्रिणं विषाद एकलता च पीडयतः । जलान्निष्कासितो मीन TRI इव सोऽपि स्वीयां पूर्वावस्थां प्रतिगन्तुं ताम्यति । किन्तु यो हि दृढेन मनोबलेनैतं क्षणं यापयेत् सोऽवश्यंतया ऽग्रेसरो भवेत् ।" "तृतीया तु बोधस्य दर्यस्ति । अस्या अन्त एव नाऽस्ति । पुस्तकीयं ज्ञानं त्वत्र क्षणजीवीव भासते । बोधस्य प्रियसखी सहिष्णुताऽस्ति । अत्र च यात्रिणः सहिष्णुतायाः | परीक्षा भवति । यथा तेन कति दुर्गुणा विनाशिताः, कियद् दौर्बल्यं कियत्यश्च मर्यादा जिताः, निद्राऽऽलस्यं जडता च पराभूतानीति । अस्या दर्या उल्लङ्घनार्थं कोऽपि निश्चितो IA मार्गो नाऽस्ति यतः प्रत्येकं पक्षी स्वीयबोधानुसारं सद्गुणानां च प्रभावेण शक्ति प्रकाशं I गतिं च प्राप्नोति । किन्तु यदा स बोधस्य पारं प्राप्नोति तदा सोऽनन्तविश्वानामनन्तात्मनां च रहस्यानि साक्षात्कुरुते, विश्वाग्निकुण्डसमं चेदं जगत् तत्कृते सुरभिपुष्पैः प्रफु ल्लितमुद्यानमिव भवति । ततश्च स सर्वथा निरपेक्षो भवति । स सर्वत्र मैत्र्यमुपकल्पयन् (0) सर्वांशेषु पूर्णत्वमनुभवन् सर्वाङ्गेषु च सामग्यं पश्यन् जीवति । एतत्सर्वं साधयितु- 15 मस्माभिरेकनिष्ठैस्तीवोत्कण्ठैश्च भवितव्यम् ।" "चतुर्थ्यां दर्यां च स्वातन्त्र्यस्याऽनासक्तेश्च साम्राज्यम् । अत्र हि सर्वमपि त्यक्तव्यं, यावत् सीमुर्गशोधनेच्छाऽपि हातव्या । आस्माकीनमत्र न किमपि भविष्यति । अत्र तादृशाः शीतातिशीता झञ्झानिला वास्यन्ति ये क्षणेनैव हि सर्वमपि विनाशयितुं शक्ताः, सप्त समुद्रा निर्झरा इव भविष्यन्ति, सप्तगृहा केवलमग्निकणा एवाऽवशिष्यन्ते । () स्वर्गास्तु कुणपवद् नष्टकान्तयो भविष्यन्ति नरकाश्च हिमशकलाः । अत्र बुद्धेरगोचरमाश्चर्य र भविष्यति । कीटास्तु बलेन हस्तिशतमप्यतिशयिष्यन्ते । शतशः सार्था उपलशकलहता - | अपि विनक्ष्यन्ति । नूतनपुरातनं वाऽत्र किमपि न भविष्यति । ग्रहाः पृथ्वी चाऽऽतपे | जलबिन्दुवत् विलेष्यन्ति । स्वर्गश्च नवकुड्मलमिवोत्पत्स्यते सहजतया । अस्य विश्वस्य । VADMAA ४७ Page #61 -------------------------------------------------------------------------- ________________ बीज-रहस्यादीनि चाऽस्माभिरत्रैवाऽनुभविष्यन्ते । किन्त्वेषा दरी नाऽस्ति सरलोल्लवितुम्।। 11 यदि वयं नो देहस्य शोणितेन समुद्रमपि पूरयेम तदाऽपि दर्या अस्या एकमेव / सोपानमस्माभिरारूढं भवेत् । अतः पूर्णया श्रद्धयाऽविकलेन चोत्साहेन सततं गतिरत्राऽऽवश्यकी।" "पञ्चम्यां तु दर्यामेकत्वस्य साम्राज्यमस्ति । अत्र प्रथमं हि प्रत्येकं वस्तु खण्डशो भक्ष्यति । ततः सर्वमपि सम्मील्यैकीभविष्यति । अत्र सर्वेषां मस्तकान्येकस्मादेव शृङ्गात् प्रकटीभवन्तीवाऽवगंस्यन्ते । यद्यप्यत्र बहूनि सत्यानि विविधानि च । M) स्वरूपाण्याविर्भविष्यन्ति, तथाऽपि वस्तुतस्तु सर्वमेकमेव भविष्यति । सर्वासां सङ्ख्यानां सङ्कलनमत्रैकत्वस्यैकाङ्के भविष्यति, तथा साऽप्येकता सङ्ख्यायाः स्वरूपादभिन्नैव भविष्यति । सीमुर्गस्त्वेतस्याः सङ्ख्यायाः भिन्नरूपः, एकस्यैकत्वरूप, उभाभ्यामपि च परोऽस्ति । अत्राऽऽद्यन्तौ नाऽवकाशं लभेते, यतः सर्वाण्यपि वस्तून्यत्र शून्यत्वं प्राप्नुवन्ति। DI अतोऽस्माकं ध्यानमपि शून्यत्वसमाधौ लीनं भविष्यति ।" “षष्ठी हि दरी महाश्चर्यस्य खनिरस्ति । अत्र हि शुचो विषादस्य चैव प्रसारोऽस्ति । । तत्र प्राप्ता वयमपि हि ताभ्यामाकान्ता भविष्यामः । तत्र प्रत्येकं श्वासा निःश्वासायिष्यन्ते, निःश्वासाश्च खड्गधारेव तीक्ष्णा भविष्यन्ति, यैर्हदयं विद्धं भवेत् । तत्र प्रतिपदं दुःखं रोदनं च भविष्यति, प्रज्वलन्त्युत्सुकता च नः प्रतीक्षारतेव स्थास्यति । रात्रिन्दिवं तत्र समकालमेव स्यात् । मनुजश्चाऽग्नौ सत्यपि ग्लानिपूर्णो हताशश्च भविष्यति । नितरां व्याकुलः स स्वमार्गेऽग्रेसरीभवितुमपि न शक्तो भविष्यति । किन्तु येनैकत्वं साधितं स सर्वमप्येकतः कृत्वा स्वमन्यांश्च विस्मृत्याऽग्रे गमिष्यति ।" "गच्छतश्च तस्य प्रक्ष्यते यत्, “त्वमसि न वा? तव स्वसंवेदनं भवति न वा? (6) त्वं सीमन्यसि मध्ये वा ? त्वं मर्योऽसि वाऽमरो वा ?' तदा स आत्मनिष्ठतयोत्तरं दास्यति यथा, 'नाऽहं किञ्चिदपि जानामि बोधामि वा । स्वात्मनोऽपि ज्ञानं नास्ति मम । यद्यपि प्रेम मयि विद्यते किन्तु कस्मिन्निति नैव जानामि । मम हृदयं हि समकालमेव प्रेमभृतं प्रेमशून्यं चाऽस्ति' इति ।" "सप्तम्यां दर्यां तु शून्यत्वमेव व्याप्तमस्ति । तत्र गतानामस्माकं सम्मुखमेव भयजनका हानिरायास्यति । सा नो मरणसमाचारमेवाऽस्मभ्यं कथयिष्यति । अयं क्षणोऽवर्णनीयः स्यात् । अत्र केवलं विस्मरणं मौनं श्रुतिनाशो भयनाशश्च भविष्यन्ति । दिव्यसूर्यस्यैकेनाऽपि किरणेन सहस्रशश्छाया अदृश्यीभविष्यन्ति । आनन्त्यस्य महासागरोऽत्र । श्वसिष्यति, तदा च तदीयतटस्थितानि साम्प्रत-विश्वस्याऽनागतविश्वस्य च सर्वाण्यपि । ४८ Page #62 -------------------------------------------------------------------------- ________________ | रूपाणि विनक्ष्यन्ति । अत्राऽऽगतानां 'नाऽहं जीवामि' इत्यात्मनिवेदनं श्रेष्ठं भविष्यति।। यो हि बिन्दूभूयाऽस्मिन् महासागरे सम्मास्यति सोऽनन्तकालं यावदत्रैव वत्स्यति । यद्यप्यत्राऽऽगतः प्रथमं लघुतां पराजयं चाऽनुभवेत् तथाऽपि यदाऽस्या अवस्थायाः जा चैतन्यं प्राप्य स नवसर्जनं ज्ञास्यति तदा सर्वाण्यपि रहस्यानि तत्समक्षं साक्षाद् भविष्यन्ति ।" ___"एताः सप्ताऽपि दर्योऽस्माभिरुल्लङ्घनीयाः । तदर्थं च प्रथममेवाऽस्माभिः साहसेनाऽपि प्रारब्धव्यमेव । यः प्रारभेत स एव पारं प्राप्नुयात् । ये प्रारम्भमेव न कुर्युस्ते कथं वा मार्गगामिनो भवेयुः ? अतो मनो दृढीकृत्याऽस्माभिः प्रारब्धव्यं, सर्वसामर्थ्येन M) दर्य उल्लङ्घनीयाः सीमुर्गपार्वे च गन्तव्यम् ।" हुदहुदकथितमिदं वर्णनं श्रुत्वैव बहूनां पक्षिणां शीर्षाण्यवनतानि । तेषां हृदयानि TI ग्लान्या भीत्या च भृतानि । केषाञ्चिच्च स्थगितानि । बहवस्तु तत्रैव मृताः । अन्ये केचन मनो दृढीकृत्य ‘सर्वमपि सहिष्यामहे' इति निश्चित्य च यात्रार्थं निःसृता एव । नैकवर्षाणि यावत् तेषां यात्रा प्रवृत्ता यत्र तैर्बहवः पर्वता: समुद्रा दर्यश्चोल्लङ्घिताः । बहुशो दुःखानि सोढानि । तद्वर्णनं तु कर्तुमेव न पार्यते । तदवबोद्धं तैः सह यात्राकरणमेवोचितम् । ON यद्यपि बहवः पक्षिणो हुदहुददर्शितमार्गेण प्रचलिता आसन् तथाऽपि प्रान्ते (0 त्रिंशदेव पक्षिणोऽन्तिमं लक्ष्यं साधयितुं समर्था बभूवुः । अन्ये तु मार्गे एव कुत्रचिद् विनष्टाः । तथैतेऽपि त्रिंशत् पक्षिणोऽतीव श्रान्ताः क्लान्ताश्छिन्नपक्षा व्याकुलाश्चाऽभवन् तथाऽपि पक्षिणां राज्ञः सीमुर्गस्य स्थान प्राप्याऽतीव हृष्टा जाताः । तत्रत्यः प्रकाशोऽगम्योऽचिन्त्यश्चाऽऽसीत् । ननु सहस्रशः सूर्याणां सम्मीलितः प्रकाशोऽपि तादृशो न स्यात् ! तं विलोक्य पक्षिणां मुखेभ्यः स्तुतयो निर्गताः, "अहो ! सूर्यसहस्रेभ्यस्तेजसाऽधिक ! हे प्रभो ! । सूर्यस्त्वग्निकण इव भासते त्वत्पुरो 'विभो ! ॥" इत्यादयः । तावता द्वाराण्युद्धटितानि । राजदूत आगतः । पृष्टवांश्च, "सुहृदः ! कुत आगता 0 भवन्तः ? यं प्राप्तुं चाऽऽगतास्तस्मिन् विलयं प्राप्स्यथ वा तं दृष्ट्वा निवय॑थ वा?" तदा प्रेमाग्निना तप्त्वा तेजस्विभूतैः पक्षिभिरुत्तरितं, "वयं त्वस्माकं परमात्मनि विलीयैकत्वं प्राप्तुमागताः स्मः ।" ततो राजदूतेनेतोऽपि बहु परीक्षितास्ते । तत्रोत्तीर्णान् तान् विलोक्य च हृष्टेन तेन / तेऽन्तः प्रवेशिताः । अन्तश्चैकैकं कृत्वा सहस्रशो जवनिकाः क्रमशोऽपावृता राजदूतेन । 00 प्रत्येकं तासां पृष्ठतो नूतनं विश्वमासीत् । यावदन्तिमा जवनिकाऽपावृता तावत् तु सीमुर्गस्य ४९ Page #63 -------------------------------------------------------------------------- ________________ सिंहासनं पक्षिभिर्दृष्टम् । सर्वेऽपि पक्षिणः स्तब्धा जाताः, यतः प्रत्येकं पक्षिणो मुखे सीमुर्गस्यैव मुखं विलोक्यते स्म । यदा चाऽऽश्चर्यं शान्तं जातं तदा तु सर्वैरनुभूतं यत् ते सर्वेऽपि सीमुर्गीभूताः सन्ति । स्वीयनृपे ऐक्यं प्राप्येतोऽपि परं न किमपि तेषां प्राप्तव्यमवशिष्टम् !! फारसी-भाषायां मूललेखक: सूफीसत्पुरुषः फरीदुद्दीन अत्तारः (११२०-१२३०) फन्चभाषायां तदनुवादक: Garcin de Tassy (1863) आङ्ग्लभाषायां तत्सझेपानुवादक: C. S. Nott (1954) गूर्जरभाषायां च तत्सारभागानुवादक: किशनसिंह चावडा ।। actsARCHILaparmaxmauDCARuccumurtamannasamausamuLORAMANANIRUAROLamarpaRITruacam pulsarents सम्पदो महतामेव महतामेव चाऽऽपदः । वर्धते क्षीयते चन्द्रो न तु तारागण: क्वचित् ॥ [सुभाषितरत्नभाण्डागारे] Page #64 -------------------------------------------------------------------------- ________________ OMMMMMMMMMMMMMMANAYAMAMMMMM ४४०४०००४४४०००४ ०००००० ४४४४४४४४४ ४ ४४४४४ AVAN n al शास्त्रप्रौढिचमत्काराः SELECTRIm ललितकथा भRIBaitadiatio देवर्षि कलानाथ शास्त्री 0 अद्य तु प्रातरेव मदीयगृहस्य दूरभाषयन्त्रं घण्टानादेन मामजागरयत् । प्रात:कालिका दूरभाषसन्देशाः प्रायो मत्पत्न्याः कृते भवन्ति स्म यतो हि तस्याः सखीमण्डलं व्यापकं, सुविस्तृतं, वैविध्यमयं चाऽस्ति । सा लेखिकासङ्घस्याऽध्यक्षत्वं वहतीति कदाचन सङ्घस्योपवेशनानामायोजनविषयकाः, कदाचन साहित्यसङ्गोष्ठीनां सूचनाविषयकाः, कदाचनोपवनसन्धिविषयका दूरभाषसन्देशास्तदर्थे एव भवन्ति स्म । अत एव त्वहमुपहासविधया तस्यै असकृत् कथयामि यत्तव नामधेयमिन्दिरेति नूनमन्वर्थकम् । श्रीसूक्ते लक्ष्मी स्तुवनृषिस्तस्या "हस्तिनादप्रबोधिनी"मिति विशेषणं प्रयुनक्ति । सा गजनिनादं श्रुत्वा प्रातर्जागर्ति स्म, त्वमपि दूरभाषघण्टानादेन प्रातर्जागर्षि । अतस्तव विशेषणं "फोनघण्टाप्रबोधिनी"त्यादि किञ्चन कल्पयिष्यामि, त्वत्स्तोत्रं च प्रणेष्यामीत्यादि । किन्त्वयं घण्टाध्वनिर्मदर्थे, अथवा आवयोर्द्वयोः कृतेऽभूत् । अस्मत्सुहृदा चातकेन (कविपुङ्गवेन) सूचितं यदद्य सायङ्काले तद्गृहे सुन्दरकाण्डपाठानुष्ठानसमापनसमारोहो भविता, तत्र च सर्वेषां सुहृदां भोजनमप्यस्ति । मया सोपहासं पृष्टम् "किं त्वं सुहृदां भोजनं करिष्यसि ? स्वकाव्यं श्रावयित्वा सर्वेषामस्माकं धैर्यस्य भोजनं तु त्वमन्वहं करोष्येव ।" तेनोत्तरितम्- "अरे जडमते ! त्वादृशानां भोजनं कृत्वा सङ्क्रामकरोगाणामावाहनं किमिति करिष्ये ? "भुक्ता ब्राह्मणाः, तृप्ताः पितरः" इति शास्त्रोक्तिमनुसृत्य सूचयितुमिच्छामि यद् भवतः सर्वान् भोजयिष्यामि । किन्तु नाऽयं कश्चन सहभोजः, प्रसादग्रहणमिदम् । अतस्त्वं प्रजावत्या सहाऽवश्यं समायास्यसि प्रसादग्रहणाय ।" सहर्ष स्वीकृतमिदं निमन्त्रणमावाभ्याम् । यदा निमन्त्रणमनुवर्तमानावावां चातकगृहं प्राप्तौ तदा तत्र सर्वान् सुहृत्परिवारान् समवेतान् दृष्ट्वा तु हर्षमनुभूतवन्तौ, किन्तु तदा यः शास्त्रार्थः प्रसङ्गवशात्प्रवृत्तोऽभूत्तं श्रुत्वा कुतूहल-हर्षविस्मयादिभावशबलतामप्यनुभूतवन्तौ । प्रसङ्गोऽयं प्रचलन्नभूद् यत् - "चातकेन केवलं सुन्दरकाण्डस्यैव पारायणं किमिति कारितम् ? कः खलु विशेषः सुन्दरकाण्डे ? तत्र न तु रामस्य विजयः सूचितः, न वा रावणवधः, न च काचन विशिष्टा सिद्धिः फलश्रुतिर्वा तस्य काण्डस्य कुत्रचन श्रुता । तर्हि केवलं सुन्दरकाण्डपारायणस्य किमौचित्यम् ? सम्पूर्णस्याऽऽदिकाव्यस्य वाल्मीकीयरामायणस्य कथावाचनं पारायणं वाऽभविष्यत्तर्हि तत्तु विचारसहमभविष्यदेव, किन्तु सुन्दरकाण्डपाठमाहात्म्यं किमस्ति ?" Page #65 -------------------------------------------------------------------------- ________________ मयाऽस्मिन् चर्चाप्रसङ्गे नूतन एक आयामः प्रवर्तितः । मयोक्तं "बन्धवः ! प्रश्नस्याऽस्योत्तरं तु चातकः प्रदास्यति किन्तु मदीयेयं जिज्ञासाऽस्ति यत्सुन्दरकाण्डस्याऽभिधानं सुन्दर इति किमित्यस्ति ? किं खलु तत्र सौन्दर्यमथवा सौन्दर्यातिरेको दृश्यते ? अन्येषां काण्डानां तु नामकरणं तेषु निहितानां विषयवस्तूनां परिचायकमस्ति "अयोध्याकाण्डम्" "किष्किन्धाकाण्डम्" "युद्धकाण्डम्" इत्यादि । अस्य तु "सुन्दरत्वं" किमिति व्यपदिश्यते ? कस्तत्र हेतुः?" एतच्छ्रुत्वा सर्वेऽन्ये विलक्षा भूत्वा प्रावोचन् – “किमिति विषयान्तरं प्रक्षिपसि? आदिकवेर्वाल्मीकेरक्षरगुम्फनं सर्वत्र सुन्दरमस्त्येव ।" अहं पृष्ट्वान् - "तदेवं त्वहं पृच्छामि । यदा सर्वेषामेव काण्डानां सुन्दरत्वमक्षुण्णं तदा काण्डविशेषस्य सुन्दरत्वविवक्षायां को हेतुः ?" तत्रैवोपविष्टेन भाषाशास्त्रिणा भव्येशभट्टेन प्रक्षिप्तम् - "अयमेव त्वसाध्यो रोगोऽस्ति शास्त्रविचक्षणानाम् । ते सर्वत्र हेतुं हेत्वाभासं वाऽन्विष्यन्ति । अरे ! सर्वत्र हेतवो भवन्ति किम् ? तुभ्यं कदलीफलं रोचते, मह्यमाम्रफलं, चातकाय बीजपूरफलम्, उपमन्यवे पनसफलम् । किं तत्र हेतुगवेषणेन !" वेदमनीषी उपमन्युः श्रौतायनस्तदेवं श्रुत्वा प्रोक्तवान् - "भ्रातर्भव्येश ! नैवं वाच्यम् । रुचीनां वैचित्र्ये तु न कश्चन हेतुः किन्तु काण्डस्याऽभिधाने नामकरणे वा हेतुरवश्यं भवेत् । तद्गवेषणे का नो हानिः ? अपरं च, चातकेन पारायणकर्म कारितम् । तत्र प्रयोजनमप्यवश्यं भवेदेव । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । कर्मपदार्थे तु प्रयोजनगर्भत्वं निसर्गसिद्धमेव ।" एतदुपरि भव्येश: स्वकीयभाषासूक्ष्मेक्षिका प्रमाणयंस्त्वरितमेव सहमति प्रादर्शयत् "तत्त्वहं समर्थयामि । कार्य, कृत्यं, कर्म, कर्तव्यं, करणीयम् इत्यादिषु सर्वेष्वपि पदेषु व्युत्पत्तेाकृतेर्वा समानत्वेऽपि प्रवृत्तिनिमित्तविवेकवशादर्थे सूक्ष्ममन्तरं भवति । प्रकृतिवशात् क्रियमाणा क्रिया कार्यम्, विधानवशात् अर्थात् कुत्रचन विहितेत्यत एव क्रियमाणा क्रिया कृत्यम्, सङ्कल्पपूर्वकं विधीयमाना क्रिया कर्म, सहजरूपेण निर्धारितानि कार्याणि कर्तव्यम्, कर्तुमुचिता अथवा आयतौ "करिष्यामीति" विचार्यमाणा क्रिया करणीयम् । इत्थं हि भाषाविज्ञानविदां दृष्टौ प्रवृत्तिविचारेण अर्थाद् लोकप्रचलनं दृष्ट्वा सूक्ष्माणि भेदकानि सम्भवन्ति । अत्र स्थितोऽस्माकं सुहृद्वरो भार्गवोऽपि समर्थयेदिदम् ।" तत्र हि विश्वविद्यालये आङ्ग्लभाषायाः प्राध्यापकोऽस्मन्मित्रं प्रो. भार्गवोऽपि सम्मिलितोऽभूत् । तेन त्वरितमस्य समर्थनं विदधता प्रोक्तम् - "अस्माकं तु सिद्धान्त एवाऽयं यन्न किञ्चिदपि पदमपरपदस्य पर्यायत्वेनाऽभिन्नार्थकं भवति, प्रत्येकं पदे विशिष्ट एवाऽर्थो गर्भितो भवति । अत: प्रतिपदमर्थच्छाया विभिद्यते । तदिदं सूक्ष्ममन्तरमस्माकं वर्गेऽर्थच्छायेत्यभिधीयते । सेयं चाऽर्थच्छाया प्रचलनेनैव नियम्यते यदस्माभिः "यूसेज" (usage) इत्यभिधीयते । अतः प्रकृतिप्रत्ययादीनां Page #66 -------------------------------------------------------------------------- ________________ समानार्थकत्वेऽपि पदानामर्थच्छाया विभिद्यन्ते प्रचलनवशात् । यथा कश्चन विवक्षति “He works hard", अब हार्ड इति पदं क्रियाविशेषणमस्ति किन्तु तदेव वाक्यं क्रियाविशेषणेन यदीत्थमभिधीयते "He works hardly" तर्हि सर्वथा विपरीतार्थकं तद् भवेत् ।" एतदुपरि सर्वे उपहासमुखरा अभूवन्। "न केवलमाङ्ग्लीयभाषायां तादृशी सूक्ष्मेक्षिकाऽस्ति, अस्माकं तु पुरातनी तादृशी परम्परे'"ति विवक्षता मया मध्य एव सूचितम् - "अस्माकं तु सूक्ष्मतराः सूक्ष्मतमाश्च प्रभेदाः शब्दप्रयोगेषु पर:शतं वर्षेभ्यः प्रचलन्ति, येषामानन्त्यं सर्वत्र भाषाविद्भिरङ्गीक्रियते । कर्म, क्रिया, कृत्यं, कार्य, कर्तव्यमित्यादि प्रत्ययभेदाद् भिद्यमाना अर्था यथाऽनन्तास्तथा उपसर्गवशादपि धात्वर्थभिदा उत्पद्यन्त इते सर्वे जानन्ति । "प्रहाराहारसंहारविहारपरिहारवत्" इत्यादि छात्रा अप्यधीयन्ते।" चातक उवाच- "भव्येशेन तु कर्मणः परिभाषैव कृता 'सङ्कल्पपूर्वं क्रियमाणं कार्य कर्मेति । किन्तु भगवता गीतायां "किं कर्म किमकर्मेति" न केवलं विभेद एव स्पष्टीकृतोऽपि तु स्पष्टं विहितं "कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ।" इति । इत्थं कर्म, अकर्म, विकर्म इत्येषां भेदोऽपि भगवता प्रतिपादितः, तस्य च बोधः सर्वेषां कर्तव्यत्वेनाऽऽदिष्टः ।" एतदुपरि भव्येशेन सहासं योजितम् - "भगवान् कृष्णस्तु द्वापरयुगान्ते समभूदिति तेनैको वर्गो विस्मृतः "कुकर्मेति" । स न जानाति स्म यत् कलेमध्ये कर्म, अकर्म, विकर्म इत्यादि तु भविष्यत्येव, सर्वतोऽधिकं कुकर्म भविष्यति । वयं सर्वे कुकर्माणि, दुष्कर्माणि च कुर्वन्तो न लज्जामहे । किञ्चाऽऽधुनिके युगेऽस्मिन्नापणेषु युवतयः परिकर्माणि कारयन्ति, तदर्थं ब्यूटी सैलून, ब्यूटी पार्लर इत्यभिधानवहा आपणा अपि प्रारब्धा व्यवसायिभिः ।" भार्गवेण सूचितं "यदेषु दिनेषु तु सूक्ष्माणामर्थच्छायानामभिव्यक्तये उपसर्गयोजनया भारतीयभाषाणां कृते संस्कृतभाषायाः कृपयाऽनन्ताः शब्दाः परिकल्पिताः केन्द्रीयवैज्ञानिकशब्दावल्यायोगेन ।" एतदुपरि मया पृष्टो भार्गवस्तादृशान् शब्दान् वमितुमारब्धवान् - "कर्मणा सहोपसर्गयोजनया यथा विकर्म, कुकर्म, दुष्कर्म, संकर्म (निर्माणकार्याणि, works) इत्यादय उद्भवन्ति तथा किं भवता न पाठ्यन्ते प्रतिदिनं क्रिया, प्रतिक्रिया, अभिक्रिया, संक्रिया, विक्रिया, अनुक्रिया, उपक्रिया इत्यादयः शब्दा विभिन्नास्वर्थच्छायासु ?" ५३ Page #67 -------------------------------------------------------------------------- ________________ भव्येशो मध्य एव वारयन्नूचे - "तत्तु स्फुटमेव ! संस्कृतभाषा शब्दभाण्डागारेण समृद्धतमाऽस्तीति विश्वविदितो घण्टाघोषः । अत्र हि सहस्त्रशः सूर्यवाचकाः शब्दाः, शतशो मेघवाचकाः किन्त्वाङ्ग्लभाषायां सूर्यः ‘सन' Sun शब्दमृते, मेघश्च 'क्लाउड 'cloud' शब्दमृते केनाऽपि शब्देनाऽभिधातुं शक्यश्चेद्वदतु भार्गवः ।" एतदुपरि भार्गवः प्रतिप्रहारं कुर्वाणः स्पष्टीकृतवान् “यच्छब्दसमृद्धिः पर्यायबाहुल्यं वा यासु भाषासु भवति तद् वैपुल्यस्य गौरवं तु प्रददाति, आरब्यादयोऽन्या अपि भाषास्तादृशीं समृद्धिमंशतो धारयन्ति किन्वेतस्याऽवाञ्छनीया परिणतिः सेयमपि भवति यत्तस्याः पण्डिताः केवलं शब्दाडम्बरमात्रं वैदुष्यस्य निकषं मन्वानाः शब्दशस्त्राणि प्रदर्श्य जनान् भाययन्त एव गर्वायन्ते, तत्त्वविमर्शो गौणतामापद्यते । श्रुतो मया भवादृशां विदुषां गोष्ठीषु मूर्धन्यानां विचक्षणानां शब्दाडम्बरप्रपञ्चः । ते हि स्वभाषणस्य सुदीर्घ प्रारम्भे मङ्गलाचरणे भूयांसं समयं यापयित्वा विदुषः सम्बोधयितुं स्वकीयं वैदुष्यं स्फोरयन्ति, "अयि सुधीवराः, सारस्वतसाधनावदातवदना; विविधशास्त्रावगाहनविमलमतयो, विद्वद्धौरेया, दिगन्तविश्रुतकीर्तयः पण्डितप्रकाण्डाः, कोविदमतल्लिका'' इत्यादिभिर्गिरिवरगुरुभिः पर्यायप्रयोगैः । यदि वराकाणां श्रोतृणामकारणसमयहत्यामकृत्वा “मान्याः सुधियः" इति सम्बोध्य स्वकीयं वक्तव्यं प्रारभेरंस्तर्हि का स्याद्धानिः ?" तदिदं श्रुत्वा दूरे स्थितो हिन्दीप्राध्यापको दिनकरशुक्ल: सरभसमाकृष्टमात्मानमन्वभवत् । स समुपसृत्याऽसूचयद् यद् “गतशताब्द्याः प्रारम्भे हिन्दीविद्वत्स्वपि संस्कृतपण्डितानामयं शब्दास्फालनस्य सङ्क्रामको व्याधिः प्रासरत् । यः खलु कविर्गद्यकारो वा प्रौढानां पञ्चषप्रस्थगुरूणां शब्दाशिलाखण्डानां प्रहारेण स्वकीयां प्रौढिं प्रामाणयत्, स एवाऽऽचार्यत्वेन सममान्यत । अस्याः स्थितेरुपहासं कुर्वाणेन मदीयगुरुणा सकृत् "सरस्वती" नाम्न्यां मासिकपत्रिकायां स्वकीयं प्रकृतिवर्णनमित्थं प्रारब्धम् - "कल्य का दिष्ट था । ब्रघ्न की गभस्तियाँ खाङ्गण में उतरने लगी थीं।" वाक्यद्वयमिदं न कोऽपि बोद्धुमपारयत् । अहं संस्कृतेऽपि एम्.ए.परीक्षोत्तीर्णोऽस्मि । मया ते पृष्टाः "गुरुवर्याः अत्र हि "उतरने लगी थी" इति शब्दत्रयं विहाय न किमप्यवबुद्धं मया । कृपया बोधयन्तु केयं भाषाऽस्ति ।" ते सधिक्कारं प्रोचुः “अरे ! संस्कृते एम्. ए. भवसि किन्तु न जानासि "प्रत्यूषोऽहर्मुखं कल्यः" इति कल्यः प्रातःकालाय प्रयुज्यते, 'कालो दिष्टोऽप्यनेहाऽपि" इति दिष्टः समयवाची । “भास्कराहस्करब्रघ्नप्रभाकरविभाकराः" सर्वे सूर्यवाचिनः । गभस्तयो मरीचयः, खाङ्गणं गगनाङ्गणमिति सर्वं विस्मृतं किम् ?" अहं न्यवेदयम् - "गुरुवर्या ! यदि तदिदं स्फोरयितुं भवन्तो व्यलेखिष्यत् - "प्रात:काल का समय था, सूर्य की किरणें गगनाङ्गण में उतरने लगी थीं" तर्हि भवतां का हानिरभविष्यत् ?'' गुरुवर्यैरुत्तरं प्रत्तं यत "तदा भवादृशान् - ८४ Page #68 -------------------------------------------------------------------------- ________________ MWWWWWWWWWWMMM IMMVATION MUMMY MWYAUMMMMUN ४४४००००००००००४४४४४४ 1686864 0४० AAAA. संस्कृताडम्बरपरान् शब्दाडम्बरव्याधिचिकित्सापद्धतिं कः समबोधयिष्यत् ?" ।" कथामिमां श्रुत्वा सर्वैः सुहृद्भी रावणरवविनिन्दकोऽट्टहास आरब्धः । तं श्रुत्वा नव्यन्यायप्राध्यापको घूटर झा सरभसमुपसृत्य पृष्टवान् "किं सञ्जात''मिति । तमवलोक्य भव्येशभट्टेनैकमपरं परिहासास्त्रमुपलब्धम् । स प्रोवाच - "बन्धवः, अस्माकं भाषायां यावती शब्दसमृद्धिरस्ति तावत्येव शब्दशल्यक्रियाकुशलताऽप्यस्ति । अस्यां शल्याक्रियायां प्रवीणैर्निरुक्तकारैः प्रथमैर्हि विद्वद्भिवैयाकरणैश्च बह्वयः शताब्द्यो यापिताः शब्दानां शवपरीक्षायाम् । यदा च तेषामातङ्क: किञ्चिद-शाम्यत, तदैव मगधसाम्राज्येन नूतनमेकं शास्त्रं प्रासूयत येन शब्दानां त्वगाकर्षणस्य, शाब्द-बोधविश्लेषणस्य, परिभाषणस्य चाऽवच्छेदकावच्छिन्नादिविचित्रशब्दजीववैविध्यसंरक्षकं शब्दशक्ति-जन्तूनामभयारण्यं समुद्घाटितम् । अस्याऽभयारण्यस्य जन्तवः सर्वेषां शास्त्राणामुपवनेषु प्राविशन् । प्रायोऽष्टशतवर्षेभ्यस्तत्रैव निवस्तुमप्यारभन्त ।" उपमन्युश्रौतायनेन समर्थितं यद् "वेदकाले तु नाऽभूत्तादृशी शब्दत्वगाकर्षणप्रवृत्तिः । मध्यकालीनैवेयं दुर्घटना यद्विवक्षितस्य वस्तुनः सम्प्रेषणं बोद्धव्ये सञ्जातं न वेति ज्ञातुं "शाब्दबोध"स्य विकटप्रहाराः पद्धतय आविष्कृताः । मघवा मूलम् बिडौजा इति तस्य टीका यथाऽक्रियत तथा सादृश्यं किं भवतीति लक्षयितुं "तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वं सादृश्यम्" इत्यादि छात्रा अपाठ्यन्त ।" भव्येशभट्ट उक्तवान् यद् "मया तु तद्भिन्नवृत्तित्वे तवृत्तित्वमानं सादृश्यमिति कुत्रचन पठितमासीत् ।" तदैव विद्युत्प्रकाशव्यवस्थायै तत्र समायातेन चातकेनोदीरितं यत्तेन तु "उपमानतावच्छेदकावच्छिन्नप्रतियोगिताकभेदवत् सादृश्यमिति पठितमासीत् ।" सर्वमिदं श्रुत्वा घूटर झा वक्तुमारभत यद् "यदि सूक्ष्मार्थमीमांसा, इतरव्यावर्तकलक्षणं च क्रियते तर्हि औपम्यस्य लक्षणमित्थं कर्तुमुचितं स्यात् - शृण्वन्तु सर्वे दत्तावधानाः' - "उपमानविशेषनिष्ठप्रकारतानिरूपित-प्रतियोगित्वनिष्ठसांसर्गिकविषयतानिरूपित-भेदनिष्ठविशेष्यताख्यप्रकारतानिरूपित-विशेषणताविशेषनिष्ठसांसर्गिकविषयतानिरूपिताधिकरणनिष्ठविशेष्यतानिरूपिता या स्वरूपनिष्ठसांसर्गिकविषयतानिरूपिता उपमानविशेषनिष्ठप्रकारतानिरूपित-समवायादिनिष्ठसांसर्गिकविषयतानिरूपितवृत्तित्वनिष्ठविशेष्यताख्यप्रकारता तन्निरूपितस्वरूप-निष्ठसांसर्गिकविषयतानिरूपितधर्मनिष्ठविशेष्यताशालिज्ञानत्वं सादृश्यम् ।" घूटर झा यदा सर्वमिदं ब्रुवाणोऽभूत्तदा सर्वेऽतिथयस्तं परिवार्य स्थिताः शृण्वन्तोऽभूवन्वेदध्वनिना सह किञ्चन धार्मिकं कृत्यं सञ्जायत इत्यवधारयन्तः । भ्रमात्मकज्ञानस्याऽस्य निवृत्तिस्तदा Page #69 -------------------------------------------------------------------------- ________________ समजायत यदा भार्गवेण सहासमुदीरितम् - "बन्धवः ! नाऽत्र किमप्याश्चर्यम् । सर्वेषु देशेषु मध्यकालीनाः पाण्डित्यप्रदर्शनात्मिकास्तादृश्यः प्रवृत्तयः समये समये प्रावर्तन्त । तादृशं युगं कदाचित् 'क्लासिकल'युगं, कदाचित् 'डेकेडेन्ट' युगमित्याद्यभिधानैराङ्ग्लभाषायामप्यभिधीयते स्म । आङ्ग्लभाषेतिहासेऽपि नव्यन्यायस्य नूतना अवताराः समये समये प्रादुरासन् । किं न श्रुतं भवता यत्तथाविधेन शास्त्रकारचूडामणिना डॉ. जानसन इत्याख्येन नव्यन्यायविधया पदार्थानां लक्षणं विवृण्वानेन 'किस' (kiss, चुम्बनम्) इत्यस्य लक्षणं कथं कृतमभूत् ? श्रूयताम् kiss is an anatomical juxtaposition of orabicularis Oris muscles in action of contraction - ओष्ठद्वयस्य परस्परसंसर्गानुकूलो व्यापारश्चुम्बनम् इति सरलतया कथनीयमासीत् तन्नव्यन्यायविधया तेनैवमुदीरितम् ।" एतदुपरि पुनः सर्वेषां रावणरवविनिन्दकोऽट्टहास उदतिष्ठत् । मया सर्वे प्रतिबोधिता यद् "ज्ञानमीमांसायाः सूक्ष्मविश्लेषणपराणीमान्यस्माकं शास्त्राणि कियन्महत्त्वामादधतीति जानाना अपि यूयं किमिति वाक्कलहं कुरुथ ?" भव्येशेनोत्तरितं यत् "तन्महत्त्वमासीन्मध्यकालिकम्, आधुनिककाले तु सर्वे कार्यव्यापृता व्यस्ताश्च तिष्ठन्ति, कुत्र तेषां तादृशोऽवकाश एवंविधेषु शब्दाडम्बरेषु समययापनस्य ? आधुनिकाः खलूपहसिष्यन्त्यस्मान् पुराणपथपथिका इत्यादिविशेषणैः ।' दिनकरशुक्लोऽवदत् - "क: खल्वस्मानुपहसितुं शक्नोति ? किं ते एवाऽधुनिकाः ? पश्यथ घूटर झा साहबम् । नव्यन्यायाध्यापकत्वेऽप्ययं सर्वदा कोट-पैंट-सफारी-सूट इत्यादि नूनतमपरिधानावृतो भ्राम्यति ।" घूटर झा खलु धौतादिपुरातनवस्त्राणि न परिदधातीति वयमजानीम । किन्तु भव्येशेनाऽसहमति प्रकटयता कथितम् - "अरे अल्पज्ञाः, परिधानेन किमाधुनिकत्वावच्छेदकावच्छिन्नता सिध्यति?" सर्वे वयं पृष्टवन्तः "तर्हि का परिभाषा आधुनिकतायाः?" भव्येशः प्रोक्तवान् - "आधुनिकत्वं तु वर्तमानत्वावच्छिन्नकालगतप्रघटनाविशेषजन्यचिन्तनानुकूलव्यापारसंवलिताऽन्तःकरणवृत्तिमत्त्वम् । चिन्तनेन वृत्तिभिश्चाऽऽधुनिकत्वं सिद्ध्यति न परिधानेन । आधुनिकाश्च सारग्राहिणी प्रवृत्तिमाद्रियन्ते ।" तदैव चातकेन विवादमञ्चे पुन:प्रवेशं कुर्वता प्रोक्तम् - "यदि भवतां सारग्राहिणी प्रवृत्तिर्वर्तते तर्हि जीवनाय सारभूतं मिष्टान्नं, शष्कुली-रसगोलकादिकं सम्पन्नमस्ति । पूर्णाहुतिश्च प्रवर्तिष्यते । सर्वैर्नीराजनाय सज्जीभूय समुत्थातव्यम् । सर्वे पारायणवाचकाः पुरोहिताश्च नीराजनसामग्रीमादाय मारुतिप्रतिमाभिमुखमायाताः ।" एतदुपरि सर्वे समुत्थाय वायुसूनोः शूरवीराग्रगण्यस्य हनूमतो नीराजनोपक्रमे समवायन्त । चातकस्तारस्वरेण मारुतेः सुललितं स्तवनमारभत - Page #70 -------------------------------------------------------------------------- ________________ "गोष्पदीकृतवारीशं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ स्तुतिपरम्परायामवसितायामहमपि स्वकीयेन पद्येन कपीशं स्तोतुमारब्धवान् - "शष्कुलीकृतमार्तण्डं कुसुमीकृतभूधरम्। आसिद्धि कर्मयोगस्थं प्रणमामि कपीश्वरम् ॥" भव्येशेन पृष्टम् "अरे, कीदृशोऽयं श्लोकः ? कुत्रत्यमिदं स्तोत्रम् ?" मयोत्तरितम् - "मदुपज्ञेयं मारुतेः स्तुतिः । बाल्ये मार्तण्डमण्डलमग्रसत हनूमानिति पौराणिकाख्यानं न स्मरत किम् ? अतः स शष्कुलीवत्मार्तण्डस्य भक्षयिता । द्रोणाचलं प्रसूनमिवोत्थाप्याऽऽनीतवान् स सञ्जीविन्याद्योषधिप्रापणोद्देशेन । अत एव कुसुमीकृतभूधरः । यदा हनूमान् द्रोणाचलं प्राप्तस्तदाऽनेके ओषधयः प्रकाशमाना दृष्टास्तेन । कुत्राऽस्ति सञ्जीवनीति न स बोद्धुमपारयत् । सुषेणेन सञ्जीवन्याः प्रत्यभिज्ञा तु नाऽभूद् व्याख्याता । अत एव यदि स पुनः प्रत्यावृत्य सञ्जीवनीपरिचयमप्राक्ष्यत्, तस्य यात्राव्ययः (टी.ए.डी.ए. इत्यादि) साधिकारमलप्स्यत तेन, यथाऽऽधुनिकैर्भारतीयैरधिकारिभिर्लभ्यते, पुनर्यात्रां कृत्वा सञ्जीवनीसमानयनस्य कार्यमकरिष्यत् सः, किन्त्वस्मिन् कार्यक्रमेऽपरो दिवसः समापतिष्यत् लक्ष्मणस्य च प्राणाः सङ्कटापन्ना अभविष्यन् । इदं "वर्क टू रुल" अभविष्यत् यथाप्रक्रियं कार्यकरणम्; किन्तु "रिज़ल्ट ओरिएंटेड वर्क" नैवाऽभविष्यत्, फलोन्मुखं कार्यनिष्पादनम्, यद्धि अद्यत्वे प्रशासकेभ्य उपदिश्यते । हनूमान् रिजल्ट ओरिएंटेड कार्यस्य प्रत्यक्षं प्रतिमानमभूत् । तस्य मानसिकमन्तर्द्वन्द्वं साधु चित्रितवान् वाल्मीकिः । अतो मया स्तूयते हनूमान् “आ सिद्धि कर्मयोगस्थ"मिति । यावत् परिणामो न लभ्यते, कार्यकारणं निष्फलमेव ।" सर्वमिदं श्रुत्वा चकितचकिताः सर्वे वयस्या मत्प्रतिभा प्रशंसितुकामा एवाऽऽसन्, तदैव चातकपत्नी समागत्य प्रोक्तवती यदस्माभिरासनेषूपविश्य प्रसादग्रहणाय सन्नद्धैर्भाव्यम् । कतिपयक्षणानन्तरमेव भोज्य-लेह्य-पेयादि षड्रससम्पन्न प्रसादजातमुपलप्स्यते इति चिन्तयद्भिरस्माभिरासनानि तु सनाथीकृतानि किन्तु भोज्यवस्तूनि नाऽदृश्यन्त । किमित्ययं विलम्ब इति जिज्ञासायां सूचना समायाता यत्पाकागारे खाद्यविशेष एकः पूर्णताया निकटे एवाऽस्ति । उपमन्युश्रौतायनेन स्वकीयमनुमानमभिव्यक्तम् "एवम् । मन्ये पाचनमेव न सम्पन्नम् । अतो विलम्बः।" "किं भवति पाचनम्" - इति विषये प्रारब्धे भव्येशो व्याख्यातवान् यद् "विक्लित्त्यनुकूलो व्यापार: पच्धातोरर्थः । विक्लित्तिः पूर्णा न भवेत्, अतो विलम्बः ।" मया पाकागारं गत्वा दृष्टं यत् शष्कुली-रसगोलकादिकाः पदार्थाः शर्करारसे मज्जिताः सन्तो मधुरीक्रियन्ते स्म । अनुपदमेव ५७ Page #71 -------------------------------------------------------------------------- ________________ - D परिवेषणं भवितेति । तदुपरि समागत्य सूचिताः सर्वे "अरे वैयाकरणखसूचयः, विक्लित्त्यनुकूलो व्यापारस्तु पूर्वमेव सम्पन्नोऽभूत्, साम्प्रतं तु मधुरसावगाहनात्मिका क्रिया सम्पाद्यते । शष्कुली(जलेबी इत्याख्या), रसगोलकं चेति द्वयमपि सिकता-रसे (चाशनी इति हिन्दी) मधुरीक्रियते ।" __ घूटर झा सूचितवान् यद् "व्याकरणे न्यायेऽपि पाचनं केवलं विक्लित्त्यनुकूलो व्यापारो नाऽवधार्यते, अपि तु अधिश्रयणमारभ्याऽवश्रयणपर्यन्तं या क्रिया भवति सा पच्धातोरर्थः ।" । भव्येशेनोक्तम्, “पच्धातोरर्थः कोऽपि भवतु, अस्माभिस्तु शष्कुलीमाधुर्यमनुभूयैव भुज्धातोरर्थो ज्ञास्यते । स चाऽर्थो भवति गलबिलाध:करणानुकूलो व्यापारः । गलाबिलानि चाऽस्माकं शष्कुली प्रतीक्षन्ते । देवर्षेरस्य स्तुतेरनुसारं हनूमता तु मार्तण्डमण्डलं शष्कुलीकृतमभूत् । गलबिलाध:करणं तस्य न कृतं स्यात् । शष्कुलीवच्चर्वणं चिकीर्षितं स्यात् । वयं तु गलबिलाध:करणानन्तरमेव फलानुकूलं कार्यनिष्पादनं मस्यामहे ।" तदनु भोज्यपेयादिवस्तूनि समानीयन्त । गलबिलाध:करणमप्यारब्धम् । किन्तु चर्चायाः प्रारम्भे समुत्थापितस्य प्रश्नस्योत्तरं न तदवधि केनचनाऽपि समधिगतमासीत् - "किमिति केवलं सुन्दरकाण्डपाठानुष्ठानान्येषु दिवसेषु क्रियते ? कः खलु, सुन्दरकाण्डीयो महिमा किं च तत्र सुन्दरत्वम् ?" । अत उपमन्युना पुनरप्यारब्धा सा चर्चा चातकं सम्बोधयता, "बन्धो ! वद साम्प्रतं, का वा विनिगमना सुन्दरकाण्डमात्रपारायणे तव?" चातकस्य चेतसि नाऽभूत्काचिदपि युक्तिः । अत एव केवलं तादृशानि वाक्यान्युदीरयितुमारब्धः सः "अरे ! सुन्दरकाण्डस्याऽखण्डपाठेन मनोवाञ्छितं त्वरितमधिगम्यत इत्यनुभूतचरम्" - इत्यादि । किन्तु नाऽभूत्तेन कस्याऽपि सन्तोषः । भार्गवेण विवक्षितं यत्तत्र सीतान्वेषणे साफल्यं लब्धमत: सुन्दरकाण्ड: साफल्याय निर्धारितः । किन्तु सर्वैजिज्ञासितं यद्रावणवधान्तरं तु सर्वविधं साफल्यं लब्धमतो युद्धकाण्डं सर्वाधिक सफलमुच्यतामित्यादि। पर्यन्ततो भव्येशेन प्रतिपादितं यद् “वस्तुतो यदवधि वायुसूनोरञ्जनीनन्दनस्य हनूमत उपासना देशे प्राचलत्तदारभ्य सुन्दरकाण्डस्य महिमा प्रसृतः सर्वत्र, यतो हि वाल्मीक्युपज्ञं हनूमच्चरितं देशवासिनां हृदयानि सरभसमाचकर्ष । स्वामिभक्तेः, शौर्यस्य, विनयस्य, विविधानां सद्गुणानामाकरो भगवान् कपीश: कलौ सर्वाविधानि फलानि प्रयच्छति भक्तेभ्यः । तस्य च चरित्रस्थापकं वर्तते सुन्दरकाण्डम् । अतस्तदेव हनूमद्भक्तानां जीवातुभूतम् । हनूमत्काण्डत्वेन सुन्दरकाण्डपाठानुष्ठानानि हनूमद्भक्तैः स्वस्वसङ्कल्पपूर्तिकामैरारब्धानि ।" तदिदं श्रुत्वा दिनकरशुक्लोऽपि समर्थयामास - "सत्यमिदम्, अत एव राम ५८ Page #72 -------------------------------------------------------------------------- ________________ चरितमानसकारेण तुलसीदासेनाऽपि सुन्दरकाण्डं हनूमते एव समर्पितम् । तस्यैव मङ्गलाचरणं हनूमत्परकमस्ति "अतुलितबलधामं हेमशैलाभदेह''मित्यादि । एतदुपरि अतुलितबलधामानमित्यस्य स्थाने द्वितीयायां धाममिति कथं निष्पन्नमित्यादाय व्याकरणस्खलनं क्रोशतां वैयाकरणानां, सन्ततुलसीदाससमर्थकानां विदुषां च मुष्टामुष्टि, कचाकचि युद्धमासीदासन्नमेव, तेन च वराकस्य चातकस्य सकलमप्यनुष्ठानं विरसायिष्यत इत्याशङ्कमानेन मया मध्य एव विषयान्तरकारि क्षेपकं विस्फोटितम् - "अरे, तत्तु निर्णेष्यते परस्तात्, पूर्वं मम तस्या जिज्ञासायाः किमप्यौषधं प्रयच्छथ यत्सुन्दरकाण्डं किमिति सुन्दरत्वेनाऽऽख्यायते? ।' एतदुपरि विविधा विनिगमनाः प्रादुरासन् । कश्चित्तत्र वर्णनसौन्दर्यं व्याख्यातवान्, कश्चित् सीतासौन्दर्यम् । अत्राऽपि भव्येशभट्टेनैव पणरक्षा विहिता । साक्रोशं स पृष्टवान् - "अरे वाग्भटाः ! क्षणं चिन्तयथ । यदि सुन्दरकाण्डं हनूमतः काण्डं तर्हि तस्य नामकरणमपि हनूमनदुपलक्ष्यकमेव भवेत् । इदं हनूमतो नाम “सुन्दर" इति ।" सर्वैः पृष्टम्-"हनूमतो नाम हनूमान्, वायुसूनुर्वा स्यात्, किमिति सुन्दरनामकः सः ?" भव्येश उक्तवान् “अरे वादविचक्षणाः ! हनूमान् इते तु वानराणां प्रजातिः, वायुसूनुरिति तस्य वंशवर्णनम् । तस्य नाम बाल्ये तन्मात्रा अञ्जनया "सुन्दर" इति स्नेहवशात् स्थापितमासीत् । अनेनैव सा तमाकारयति स्म । 'वायुपुत्र ! आयाहि, हनूमन् ! आयाहि' इत्यादिविशेषणैर्नाऽऽह्वयन्ति मातरः सुतान्, नाम्ना सम्बोधयन्तीति जानाना अपि विवदथ व्यर्थम् ।" नूतनामिमां सूचनां, नूतनं च ज्ञानं प्राप्य सर्वे वयं ज्ञानाञ्जनशलाकयोन्मीलितनेत्रानात्मनोऽन्वभवाम । चातकस्त्वरितं प्रतिप्राहरत् - "अरे, अहं तु सर्वमिदमजानाम् । तदैव तु पाठानुष्ठानेऽस्मिन् हनूमतश्चित्रं स्थापितमासीत्, तस्यैव स्तुतयो गीताः सर्वैरस्माभिः ।" किन्तु चातकस्य चर्चामिमां न कोऽप्यवितथाममन्यत । "किमति न व्याख्यातं सर्वमिदं पूर्वमेवे"ति तमुपालब्धं प्रवृत्ताः । अस्मत्सुहृत्समवाय एतदुपरि सुभृशं सन्तोषं प्राचीकटद् यत्संस्कृतविदुषां शास्त्रचर्चाया यः खलु महिमा "काव्यशास्त्रविनोदेन कालो गच्छति धीमता"मित्यादिवचनैर्देशे प्रासरत् स सुहृद्गोष्ठ्यामस्यां प्रत्यक्षं दृष्टोऽन्यभाषाविद्वद्भिरपि । एवंविधा एव शास्त्रचर्चाः, शास्त्रार्थाश्च देशमिममासेतुहिमाचलं गतासु पञ्चविंशति-त्रिंशच्छताब्दीषु संसक्तं, व्यापृतं, व्यस्तं च रक्षन्ति स्मेति चिन्तयन्त: सर्वे परावृत्ताः स्व-स्वगृहान् । [पीठाध्यक्षः, आधुनिकसंस्कृतपीठम्, जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः] प्रधानसम्पादकः भारती-संस्कृतमासिकस्य, C/८, पृथ्वीराज रोड, जयपुर-३०२००१ ५९ Page #73 -------------------------------------------------------------------------- ________________ (स्मरणम्) - दुनिश्चित हास्यम् मुनिधर्मकीर्तिविजयः अहं यदा नवमकक्ष्यायां पठन्नासम्, तदैक: शिक्षको गणितविषयमध्यापयितुमागच्छति स्म । स पुस्तकस्याऽऽधारं विनैव पाठयति स्म । तस्याऽध्यापनरीतिरप्यतीव सुन्दरा मधुरा चाऽऽसीत् । ततः सर्वेऽपि विद्यार्थिनस्तं विषयमतीव सारल्येनाऽवगच्छन्ति स्म । अतो यद्यपि स क्रुद्ध आसीत्, नितरामनुशासनाग्रह्यासीत्, कस्यचिदपि विद्यार्थिनो मर्यादाया उल्लङ्घनं न स्वीकरोति स्म, यः कश्चिदपि कुर्यात् तं कठोरतया ताडयति स्म, तथाऽपि स सर्वेष्वपि विद्यार्थिषु प्रिय आसीत् । मम कक्ष्यायामेको विद्यार्थ्यासीत् । सोऽतीवोद्धतो दुश्चेष्टकश्चाऽऽसीत् । स न स्वयं पठति स्म, अन्येषां पठनेऽपि विघ्नमुत्पादयति स्म । नवमकक्ष्यायां वारत्रयं निष्फलतां गतवान् सः । सर्वेऽपि विद्यार्थिनस्तस्याऽऽदेशानुवर्तिन आसन्; यतो यः कश्चिदपि तस्याऽऽज्ञामुल्लङ्घते तं स दुष्टस्ताडयति स्म, त्रासयति स्म च तथा, मर्मवचनै- स्तस्योपहासमपि करोति स्म । ततोऽनिच्छयाऽपि सर्वे विद्यार्थिनस्तमनुवर्तन्ते स्म । एकदा दुश्चेष्टकः स एव विद्यार्थी तेन शिक्षकेन ताडितः, अवमानपूर्वकं कक्ष्याया बहिनिष्कासितः सः । ततः कुपितः सन् दिनसप्तपर्यन्तं शालायां नाऽऽगतवान् । "शिक्षको यथा न कदाऽपि विस्मरेत्, तादृशः प्रतीकार: करणीय एव" इति मनसि सङ्कल्पं कृत्वा सप्ताहान्तरं कक्ष्यायां स आगतवान् । तेनैकं कूटयन्त्रं रचितम् । कक्ष्यायामेकः काष्ठमञ्च आसीत्, तस्योपर्येका स्यन्दिकाऽऽसीत्, तदुपर्युपविश्य शिक्षकाः पाठयन्ति स्म । दुश्चेष्टकेनतेन बालकेन काष्ठमञ्चस्य मध्यभागस्य काष्ठमुत्कीर्य तथा स्थापितं येन केनाऽपि न ज्ञायेत । पश्चात् स्यन्दिकायाः पदमेकमपि तथैवाऽधू भक्त्वा पूर्ववत् कृत्वा तत्र स्थापितवान् । Page #74 -------------------------------------------------------------------------- ________________ यथावसरं शिक्षक आगतवान् । स्वरीत्यनुरूपं दशक्षणमूर्ध्वं स्थित्वैव तेन पाठितम् । पश्चाद् मञ्चस्योपरि स आरोढुमुद्यतो जातस्तदा "किं भविष्यती'ति भयेन मे देहः कम्पितः । तदैव तेन छात्रेण विचित्रो ध्वनिः कृतः । 'कोऽस्ति' ? इत्याक्रोशेन शिक्षकोऽगर्जयत् । न केनाऽपि प्रत्युत्तरो दत्तः । ततः पीठफलकस्योपरि हस्तमास्फालयन् 'शृणु' इति साक्रोशं वदन् यावत् स्यन्दिकाया उपर्युपविशेत् तावदेव स्यन्दिकायाः पादो वियुक्तो जातः, ततः स मञ्च पतितवान्, तदा मञ्चस्योत्कीर्णं काष्ठमप्यधः पतितम् । तेन स शिक्षकोऽधोमुखतया भूमौ पतितः । ततस्तस्यैकः पादो भग्नः, हस्ताभ्यां, पृष्ठतः, मस्तकाच्च रुधिरं निर्गतम्, ततः स शिक्षको निश्चेष्ट इव जातः । तदा शिक्षकस्यैतादृशी स्थिति निरीक्ष्य तेन दुश्चेष्टकेन सह केचिदुद्धता विद्यार्थिन | उच्चैर्हसितवन्तः, केचिद् 'हा, हा' इति चीत्कारं कृतवन्तः, केचिदुत्थाय | शिक्षकस्य समीपं गतवन्तः, पश्चात् संमील्य चिकित्सालयं नीतवन्तः । तदा बालसुलभं हास्यं तु ममाऽपि जातमेव किन्तु तत्र विद्यार्थिनामविनीताचरणेन दुःखमपि समुद्भूतम् । यदा यदा विहारयात्रायां शालायां बालकान् पाठयन्तं स्यन्दिकास्थितं शिक्षकं पश्यामि, तदैष प्रसङ्गः स्मृतिपथमायाति । परसम्पत्समुत्कर्षदेषो दाक्षिण्यहीनता । द्वयमेतत् खलत्वस्य प्रथमं प्राणितं स्मृतम् ॥ __ [नलविलासे ७/१२] - ६१ Page #75 -------------------------------------------------------------------------- ________________ हारोगकारात्दा रहता विभूतयः कथा मुनिरत्नकीर्तिविजयः सुमनस्याऽन्तिम: समय आसीत् । तस्य जीवनदीपः कथं कथमपि प्रज्वलित | आसीत् । कदा स निविण्णो भविष्यतीति तु समयस्यैव प्रश्न आसीत् । समग्रमपि तस्य Ja/जीवनं केवलं स्वार्थसिद्धावेव व्यतीतमासीत् । स्वार्थसाधनं विहायाऽन्यः कोऽपि NK विचारस्तस्य चित्ते न कदापि स्फुरित एव । स्वकीयेषु पुत्रपुत्र्यादिष्वपि सत्संस्काराणां सेचनस्य स्वकीयं दायित्वमपि न नियूढं तेन । धनं कथं सङ्ग्राह्यं कथं चाऽन्यसत्कं Hel धनं स्वायत्तं करणीयमित्यस्यैवोपायाः केवलं तेन चिन्तिताः प्रयुक्ताश्च । अत एव सर्वेऽपि प्रत्यक्षं तु धनिकरूपेण तं मानयन्ति स्म किन्तु परोक्षे तु 'वञ्चकः, दाम्भिकः, - खलः' - इत्येवंरूपेणैव तं परिचिन्वन्ति स्म । NP एतादृशि तस्य पामरे जीवने तेनैकमेव सत्कार्यं कृतमासीत्, तच्च-अरविन्दस्य मैत्री । एनयोर्मध्ये तु मैत्री अत्यन्तं दृढाऽऽसीत् । एकमपि दिवसं यदि तौ परस्परं न र KE मिलेतां तर्हि व्याकुलौ जायेते स्म । सुमनस्य धनलालसा त्वतीव प्रबलाऽऽसीत् । । MA कदाचित् स्वल्पस्याऽपि धनस्य कृते स परस्य प्राणानपि हर्तुमुद्युक्तो भवति स्म । तदा तं तथाकार्यान्निवारयन् अरविन्द एवाऽऽसीत् । अरविन्दो यत्किमपि कथयेत् सुमनस्तत्सर्वं | KIM पालयेदेव । एतादृश्यासीत् तयोमैत्री । मरणवेलायां सुमनः स्वकीयौ पुत्रावाहूयोक्तवान्- "मम प्रयाणकालः सन्निहितोऽस्ति । अहमिव युवामपि धनोपार्जने कुशलिनौ स्थः । एवं सत्यपि यदि । कदाचिद् धनकारणाद् विवाद: क्लेशो वा समुद्भवेत्, उभयोर्मध्ये कदाचिदैकमत्यं न र सिद्धयेत्, न्यायालय एवाऽन्ति-मोपायत्वेनाऽवशिष्येत तदाऽन्यत् किमप्यकृत्वा अरविन्द एव समाधानकारकत्वेन युवाभ्यां नियोक्तव्यः । स च यं कमपि निर्णयं श्रावयेत्, स युवाभ्यां स्वीकरणीयः" इति । पुत्रावपि पितुरन्तिमं वचनमङ्गीकृतवन्तौ । सुमनस्य का He/जीवनदीपो निर्विण्णोऽभूत् । कृपणस्य पितुर्मरणानन्तरं सत्कार्येऽधिकधनव्ययस्येच्छा कस्याऽपि नाऽऽसीत् । र किन्तु - "यदि समुचिततया धनव्ययं नैव करिष्यावस्तर्हि - 'किं सुमनः कामपि VI सम्पत्ति नैव मुक्तवानेतयोः कृते ?' - इति जना आशङ्किता भविष्यन्ति । स्वकीयां / ६२ Page #76 -------------------------------------------------------------------------- ________________ च न्यासरूपेण प्रदत्तां धनराशिं ग्रहीतुमुद्युक्ता भविष्यन्ति " - इति विचिन्त्याऽनन्यगतिकतया धनव्ययं कृतवन्तौ । तदनु च शीघ्रमेव जनेभ्यः सकाशाद् ऋणरूपेणाऽवशिष्टं धनं प्रतिग्रहीतुं प्रवृत्तावभूताम् । लघुभ्राता यत्र गच्छेत् तत्र कश्चित् स्वल्पमेव धनं ददाति कश्चित् पुनः प्रत्यर्पणं निषिध्यत्यपि । किन्तु, 'लघुभ्राताऽसौ यदपि धनमधमर्णेभ्यः / प्राप्यते तस्मादर्धं तु स्वायत्तं करोति, अर्धं च 'प्रत्यर्पणेऽसमर्थ:' इति कृत्वा तमधमर्णमृणमुक्तं करोति' इति रहस्यं ज्येष्ठेन भ्रात्रा कथमपि लब्धम् । सोऽप्येतादृशीं 'युक्ति प्रयोक्तुमारब्धवान् । किन्तु किञ्चिद् विचारयतस्तस्य प्रतिभातं यद् - 'यद्येवमेव प्रवयवस्तर्हि सोऽधमर्ण एव लाभान्वितो भविष्यति, आवां च हानिं प्राप्स्यावः । इतः परं यदपि धनमवशिष्टमस्ति तच्च सहभूयैव गृहीत्वा विभजनीयम्' । एवं विचार्याऽनिच्छन्नपि स लघुभ्रातरं निमन्त्र्य गृहमाहूतवान् । सोऽपि कुपित एवाऽऽसीत् । आगमनेन सहैव स स्वकीयमन्तः प्रज्वलितं कोपाग्नि प्रकटितवान् - 'हुं... ! चतुरा मम भ्रातृजाया ! चातुर्येण च तया स्वगृहपोषणमारब्धं किल ! भ्रातर् ! यद्यपि नाऽहं / वक्तुमिच्छामि किन्तु भवान् मुखेऽङ्गुलिं प्रक्षिप्य मां वक्तुं विवशं करोति, अतः कथयामि यद्-भवतः कृते स्वकीयभ्रातुरपि पत्न्या भ्राताऽधिकं स्नेहभाजनं वर्तते । अतोऽधुनैव सम्पत्तिर्विभज्या' इति । 'भवतु, किन्त्वस्माकं पितुरन्तिमेच्छानुसारेण पितृव्यतुल्यः श्रीअरविन्दमहोदय 'आकारणीयः । स एवैतद् विभजनं करोतु नाम' इति ज्येष्ठभ्राता महेश उक्तवान् । न नैव । तृतीयस्याऽन्यस्य कस्यचिदपि नाऽस्त्यावश्यकता । आवामेवैतत् करिष्यावः । गृहगुह्यमिदं तृतीयं नाऽवगच्छेत् तदेवोचितमपि' मनोजो विरोधं प्रकटितवान् । एवं निर्णीय द्वावेव सम्पत्ति विभक्तुमुपविष्टौ । किन्तु पञ्च दशनिमेषानन्तरमेव , कलह उत्थितः । अन्ततोगत्वा श्रीअरविन्दमहोदयस्याऽऽकारणमनिवार्यं प्रतिभातं तयोः । 'अतो निमन्त्रणं प्रेषितवन्तौ तौ । झटित्येव स गृहमागतवान् । पुनश्च सम्पत्तेर्विभागकार्यं प्रचलितम् । कदाचिज्ज्येष्ठ एवं विचारयति यद् - एनं मनोजमनुजं मत्वा तस्मायधिकं / ददात्यसौ ।' कदाचिच्च मनोज एवं विचारयति यद्- 'ज्येष्ठोऽयमिति कृत्वा तस्य मर्यादामतिक्रमितुमशक्तो ममाऽन्यायं करोति ।' एवं सत्यपि विभागकार्यं बहुलं सम्पन्नं जातम् । केवलमेकस्याऽङ्गुलीयकस्य कृते द्वावपि भ्रातरौ हठाग्रहं प्रदर्शितवन्तौ । पञ्चविंशतिसहस्रं तस्य मूल्यमासीत्, जात्येन च पुष्परागरत्नेन खचितमासीत् तत् । ६३ Page #77 -------------------------------------------------------------------------- ________________ । __ "श्वसुरोऽस्मभ्यमेवैतद् दातुमुत्सुक आसीत् । अस्माकं गुरुग्रहः प्रबलोऽस्त्यत एतस्य धारणं फलवज्जायते' इति तस्याऽभिप्राय आसीत्" - इति अनुजस्य पत्नी | | कथितवती। 'नैव नैव' - ज्येष्ठा वधूजितवती- 'गुरुग्रहोऽस्माकं प्रतिकूलो वर्ततेऽतः । TO 'एतद् युष्माकं कृत एव निर्मितमस्ति । अस्य धारणेन ग्रहोऽनुकूलो भविष्यति' - इति तस्याऽऽशय आसीत् । एवं च कथितमपि तेन ।" Hel पत्न्योर्हस्तक्षेपेण विवादो वक्रो जातः । द्वे अपि पत्न्यौ स्व-स्वपतिमुद्दिश्यVg "भवानेव मन्दस्वभावः । अन्यथा कथमेवं भवेत् ? सम्पत्तिं विभक्तुमत्रोपविष्टोऽस्ति । - भवान्, न संसारं त्यक्तुम्" - इति सरोषमुपालम्भं दत्तवत्यौ । शरो लक्ष्यं विद्धवान् । | उभावपि भ्रातरौ सहैव निर्णयं प्रकटितवन्तौ - 'प्रथममङ्गलीयकस्य निर्णयो भवतु, । र पश्चादन्यत् किमपि । अन्यथा न्यायालय एव मार्गः' - इति । "भ्रातरौ ! न्यायालयस्याऽऽश्रयेण न कस्याऽपि लाभो जातः । आद्वारपालाद् ! न्यायाधीशपर्यन्तं सर्वेभ्योऽधिकारिभ्यो यद् देयं भवति तत्रैव महान् व्ययो भवति । म अन्यच्च, भवन्तौ न्यायालयं गतवन्तौ श्रुत्वैव सर्वेऽपि स्व-स्वधनं प्रतिग्रहीतुमागमिष्यन्ति । Wएवं च सत्यामपि सम्पत्तौ निर्धनौ भविष्यतः " - इत्यरविन्दमहोदयः सस्नेहं बोधितवान् । न किन्तु - ‘एवं व्यर्थं मा भापयतु भवानस्मान् । एवं कृते यदि वयं निर्धना भविष्यामः, - G/नाऽस्ति चिन्ता । किन्तु प्रथमं त्वङ्गलीयकस्यैव निर्णयो भवतु' - इति द्वे अपि पत्न्यो NW प्रतिज्ञामिव वाक्यमुच्चारितवत्यौ । एवं च विवादो विकटः सञ्जातः । कोऽपि निर्णयो / दुष्करो जातः । अथ किं करणीयम् ? 'श्वो निर्णयं करिष्यामः' इत्युक्त्वा अरविन्दमहोदयः Ka स्वगृहं गतवान् । पश्चाच्च- 'दीपावलिपर्व यावत् किमपि समाधानं करिष्यामी'ति कालक्षेपं कृतवान् । तावन्तं कालं प्रतीक्षितुं सम्मतावपि तौ स्वकीयनिर्णये दृढावेवाऽऽस्ताम् । Cat दीपावलिपर्व सन्निहितमासीत् । 'किं समाधानं भविष्यती'ति प्रातिवेशिकNIW मित्र-स्वजना-दिवर्गेऽपि कुतूहलमासीत् । किन्तु, अरविन्दमहोदयेन तथा कार्यं कृतं । न तथा च सम्पत्तिविभक्ता येन समीचीनं समाधानं जातम् । अल्पं वाऽधिकं वा यत्किमपि र Ne/ प्राप्तं तेनोभावपि सन्तुष्टावेवाऽऽस्ताम् । एतेन च सर्वेऽप्यन्ये जना आश्चर्यमनुभूतवन्तः । उभयोरपि भ्रात्रोः कृते 'अरविन्दमहोदयः पूज्य आदरणीयश्च सञ्जातः । सुखेन का Ka/कालो व्यत्येति स्म । व्यापारोऽप्युभयोवृद्धिं गतः । एवमेव पञ्च वर्षाणि व्यतीतानि ।। I WW दीपावलिदिवस आगतः । अनुजो ज्येष्ठं प्रणन्तुं गन्तुं सज्जोऽभूत् । तदा तस्य पत्नी तं / ६४ Page #78 -------------------------------------------------------------------------- ________________ स्मारितवती ज्ञातं किल ? - अद्य पञ्च वर्षाणि व्यतीतानि । एवं खलु ? - स साश्चर्यं पृष्टवान् । 'यूयं वाणिज्यमग्नाः पुरुषा धनार्जनं विहायाऽन्यत्किमपि न स्मरथ एव । | गृह्णात्वेत-दङ्गुलीयकम् । धूपादिकं कृत्वा धारयतु' पत्न्युक्तवती । सोऽपि धृतवानङ्गुलीयकम् । यस्य कृते विवादः सञ्जातस्तदेतदङ्गुलीयकमासीत् । । अत्र च ज्येष्ठभ्राताऽपि बहिः कुत्राऽपि गन्तुमुद्युक्त आसीत् । स चाऽनुजं . A प्रतीक्षमाण आसीत् । तस्य च पत्नी तस्य हस्तं स्वहस्तयोर्गृहीत्वाऽङ्गलीयकं पश्यति । M 'अरविन्दमहोदयो जानात्येव यद् ज्येष्ठस्य दायित्वमधिकं वर्ततेऽतः ....' सपा Ve/ उक्तवान् । 'नैव, नैव । मम कथनमेव तस्य योग्यं प्रतिभातम् । कनिष्ठा तु कनिष्ठा एव। वसा तु मिथ्याभाषणं करोतीति तेन ज्ञातं स्यात् । युवयोर्द्वयोर्धात्रोः कथनमनुसृत्य सINIK किमपि निर्णयं नैव कुर्यादेव । एष तु ममैव प्रभावः' - पल्युवाच । तावत् कस्यचित् पदध्वनि श्रुत्वा – 'हं...आगतः प्रतिभाति लघुभ्राता । भवतो. 17 हस्तेऽङ्गलीयकमिदं दृष्ट्वा तस्य हृदयं विदीर्णं भविष्यति' - पत्न्यकथयत् । भवतु नाम यदपि स्यात् । तत्र मम किम् ? अपरं च, अरविन्दमहोदयस्य सपक | Kaनिर्णय आवाभ्यामुभाभ्यामपि सलेखं स्वीकृत एव' - ज्येष्ठो महेश उवाच । 1 तावता मनोज आगतः । ज्येष्ठस्य तत्पत्न्याश्च दृष्टिस्तस्य हस्त एवाऽऽसीत् । ती Ver/तत्र चाऽङ्गुलीयकं दृष्ट्वा- मनोज ! किमेतद् ? - इति ज्येष्ठः पृष्टवान् । पितुरुपहारः । लघुपुत्रोपर्येव सदा पितुरधिकः स्नेहः प्रवर्तते - मनोजः प्रत्युत्तरितः । । ____तर्हि ममाऽङ्गल्यामेतत् किमस्ति ? - महेशः स्वकीयमङ्गलीयकं दर्शयन् । I NIV पृष्टवान् । तद् दृष्ट्वा मनोजो विस्मितो जातः । किन्तु, तौ किमप्यवगन्तुं नाऽशक्नुताम् । त्वं कुतः प्राप्तवान् ? - महेशः किञ्चित् कठोरं पृष्टवान् । किन्तु सोऽपि तथैव ॐ । प्रश्न प्राप्तवान् । ६५ Page #79 -------------------------------------------------------------------------- ________________ अङ्गुलीयकं त्वेकमेवाऽऽसीत्, कथं द्वे सञ्जाते ? - महेशः शुद्धि लब्धुं प्रयास कर प्रारब्धवान् । 'किमपि रहस्यं वर्ततेऽत्र । महेश ! ममेदमङ्गलीयकमेव वास्तविकम्'-मनोज उक्तवान् । 'नैव, यन्मम पार्वेऽस्ति तदेव सत्यम्' - महेश उवाच । 'अस्ति कोऽपि लेखो भवत्पावे ?' अनुजः पृष्टवान् । 'अस्त्येव' इत्युक्त्वा महेशो धनपेटकाद् लेखपत्रमानीतवान् । तत्र लिखितमासीत् । - 'अङ्गलीयकस्वीकारानन्तरं महेशेनैव सम्पत्तेविभजनं स्वीकृतम् । केवलं, पञ्च वर्षाणि He/यावदलीयकं न धारणीयमिति प्रतिज्ञातमासीत्' इति । ___किमेतद् ?' - उभयोरपि मनसि किमपि वञ्चनं जातमित्याशङ्का समुद्गता - Ka/कस्याऽङ्गुलीयकं वास्तविकम् ?' - इति । 'भ्रातर ! अरविन्दमहोदयेनैवाऽत्र किमपि चातुर्यं प्रयुक्तं दृश्यते । भवतु नाम, आवां सुवर्णकारमेते दर्शयावः । स च परीक्षणं कृत्वा सत्यासत्यं कथयिष्यति । पश्चात् । WW किं करणीयमिति वयं निर्णेष्यामः ।' - मनोज उक्तवान् । उभावपि धावन्तावेव सुवर्णकारस्याऽऽपणं गतवन्तौ । स च परिचित आसीदतः He स सर्वं तयोर्वृत्तान्तं श्रुतवान् । पश्चाद् द्वे अप्यङ्गलीयके हस्तयोर्गृहीत्वा क्षणं विचार्योक्तवान् । V - एतदङ्गलीयकं युवयोः पित्रा कारितम् । मयैवैतद् घटितम् । द्वितीयं चैतदङ्गलीयकमर विन्दमहोदयेन कारितम् । एतदपि मयैव घटितम् । अद्याऽपि तस्य पञ्चसहस्ररूप्यकाणामृणं \विद्यते' - इति । द्वे अप्यङ्गुलीयके सत्ये एव किल ? - तौ पृष्टवन्तौ । 'आम्' - सुवर्णकारः शिरो विधूय प्रत्युत्तरं दत्तवान् । तौ मन्दस्वरेण किञ्चिद् विचारितवन्तौ यद् - 'कदाचिदेवं स्याद् यदरविन्दमहोदयेन स्वर्णकार एष स्वपक्षीयः कृत स्यात् । तेन पूर्वमेवैवमनुमानं कृतं । स्याद् यद् यदा कदाचिदप्यावां सत्यासत्यपरीक्षणार्थमत्रैवाऽऽगमिष्यावः । अतः र Ca/परीक्षणीयोऽयमपि' - इति । Page #80 -------------------------------------------------------------------------- ________________ एवं विचार्य - 'किं भवानेते अङ्गुलीयके क्रेष्यति किल?' - इति पृष्टवन्तौ । र 'कोऽत्र प्रश्नावकाशः ? न केवलं क्रयणं किन्तु, क्रयणमूल्यादेकसहस्ररूप्यकाण्यधिकानि दास्यामि' - इति सुवर्णकार: प्रत्युदतरत् । ___ अथ - 'स्वार्थमयमेवेदं जगत् । स्वार्थं विना न कश्चित् कस्यचित् कृते किमपि स्वल्पमपि सहते-वहति वा' - एवमेव मन्यमानौ तौ अद्य किमपि नूतनमनुभूतवन्तौ , यच्च तयोः कृते विचारणेऽपि दुर्लभमासीत् । धावन्ताविव तौ अरविन्दमहोदयस्य गृहं पर Hel गतवन्तौ । तस्य पादयोः पतित्वा - 'देवपुरुषो भवान् । भवतः सम्यग् परिचयोऽस्माभिर्न , प्राप्तः । अपराध आचरितोऽस्माभिः ।' इत्युक्तवन्तौ । 'पुत्रौ ! मम शिरसि मित्रस्य ऋणमासीत् । मम माध्यस्थ्ये युवयोः पितुर्विश्वास.. \U आसीत् । तं च सत्यापयितुमेव मया युवां वञ्चितौ' - इति स सस्मितमुक्तवान् ।। ___ 'अरे ! वयं वञ्चिता उत भवान् वञ्चितः ? पञ्चविंशतिसहस्ररूप्यकाणां व्ययेन भवता नवमेवाऽङ्गलीयकं यद् निर्मापितं तस्य किम् ?' – उभावप्युक्तवन्तौ । । म तदर्थं खेदलेशोऽपि न विद्यते मम चित्ते । केवलं मम माध्यस्थ्यं युवयोर्लाभाय की यदजायत तस्य परितोषोऽस्ति । यदि क्लेशं सङ्घर्षं वा कृत्वा न्यायालय आश्रितः स्यात् । तदा का स्थितिर्युवयोरभविष्यत् ? अस्मिन् संसारे कस्यचिद् हिताय रक्षणाय च । कदाचित् स्वार्थहानिरपि सोढव्या भवति । परिणामसुन्दरा च सा हानिरपि स्वार्थसिद्धिरेव' । - इति अरविन्दमहोदयः सस्नेहं प्रोक्तवान् । 1 महोदय ! 'संसारोऽयं केवलं वञ्चक: स्वार्थमयश्चाऽस्तीत्यस्माकं मतिरासीदद्यHet पर्यन्तम् । धनविषये च स्वकीयो जनकोऽपि न विश्वास्य-इत्येतादृशमेवाऽस्माकं la वर्तनमासीत् । किन्तु, अद्य ज्ञातं यन्नाऽयं संसार: केवलं कण्टकाकीर्णः, अत्र सुगन्धीनि । पुष्पाण्यपि विद्यन्त एव । न केवलं स्वार्थसाधका अत्र सन्ति किन्तु परार्थाय स्वार्थं । WW त्यजन्तोऽपि जना विद्यन्ते । भवताऽऽवां सम्यग् बोधितौ । उपकृता वयं सर्वेऽपि भवतो र यन्नूतनैव दृष्टिरस्माभिर्लब्धा' - इति सहैव तावुक्तवन्तौ । हस्ते हस्तं सम्मेल्य गच्छन्तौ तौ दृष्ट्वा परितोषात् तस्य नेत्रे क्लिन्ने जाते । Page #81 -------------------------------------------------------------------------- ________________ A कथा । गुणेषु यत्नः क्रियत्नाम् ___ मुनिरत्नर्कीर्तिविजयः 'हबसी'जातीयानां देशे 'न्यूसालेम' नामनि ग्रामे गान्धिकस्याऽऽपणे हबसीजातीयः कश्चिद् युवकः कार्यं करोति स्म । तस्य च वाण्यां तादृशं किञ्चिदनन्यमाकर्षणमासीद् येन स सर्वत्र लोकप्रियो जातः । जनानामेको विशालो वर्गस्तं प्रति प्रीतिमावहन्नासीत् । नीतिमत्ताया मूर्तिमद्रूपमिव तस्य जीवनमपि तस्योज्ज्वलं भाविकालं सूचयति स्म । एतादृशि लोकप्रियत्वे सत्यपि तस्य चित्ते नाऽभिमानलेशोऽपि प्ररुरोह । एतादृशोऽसौ स्वकीयया विक्रयकलया ग्राहकाणामपूर्वं विश्वास सम्पादितवानासीत् । तस्य नीतिमत्ताया विषये न कोऽपि शङ्कित आसीत् । तस्य तोल-माने जनानामनन्या श्रद्धाऽऽसीत् । 'एष कदाऽपि न्यूनं नैव तोलयेद् नैव वा द्यात्' - इत्येवंरूपेण विश्वासस्वरूपेण स सर्वेषां हृदये स्थानं गृहीतवानासीत्। किन्तु न हि सर्वेषां सर्वेऽपि दिवसा: समाना व्यतियन्ति । अत्यन्तं सावधानोऽपि जनः कदाचित् स्खलत्यपि । एतादृश एव कश्चिद् दिवसस्तस्याऽप्युद्गतः । एकदा वस्त्वादानप्रदाने तस्य क्षतिर्जाता । अपराधभावेन 2 स व्यथितोऽभूत् । मुखमपि तस्य म्लानं जातम् । स च तत्क्षण मेवाऽऽपणादुत्तस्थौ । ग्राहकस्तु काचित् स्त्री आसीत् । सम्यक्तया विचार्य NK स तस्या नामसङ्केतादिकं स्मृतवान् । पश्चादेकस्मिन् कागदे लिखितवानपि । TIMIK पुनश्च स स्मृतवान् यत्-पादसेरमितं चायद्रव्यं मया न्यूनं दत्तमिति । तावच्च चायद्रव्यं तोलयित्वा तस्य च पुटिकां बद्ध्वा स तस्या ग्राम प्रति चलितवान् । तस्या नामाऽऽसीत् 'रटलेज्' इति । न्यूसालेमतश्चतुर्मीलदूरं म कलेरीनामके ग्रामे सा वसति स्म । किन्तु तदर्थं तु तदन्तरमपि नाऽधिकमासीत् । "गृह्णातु, भगिनि ! गृह्णात्विदं चायद्रव्यम्, अनवधानेन मया न्यूनं __तत्तोलितमतः क्षन्तव्योऽयमपराधः । कृपया गृह्णात्वेतद् । पुनश्च नैवैतादृशं ६८ Page #82 -------------------------------------------------------------------------- ________________ भविष्यति" - इति वदन् स युवकस्तां पुटिकां तस्या हस्ते दत्तवान् । आश्चर्यचकिता सा स्त्री तं प्रत्यनिमेषं दृष्टवती । तं प्रत्याभारमभिव्यज्य सादरं तं भोजितवत्यपि । आत्मसन्तोषस्य हास्येन प्रफुल्लितः स युवको यथागतं प्रतिनिवृत्तवान् । मित्रैस्तु 'जडः' इति कृत्वा तस्योपहासः कृतः । किन्तु तस्य मुखे तु पूर्ववद् मधुरं स्मितमेव विलसति स्म। स सर्वानप्येकमेव कथयन्नासीत्- 'मया किमप्ययोग्यं तु नैवं कृतं किल?' - इति । नीतिमत्ताया एतादृशमुदाहरणं जगत्समक्षमुपस्थापयन्नेष युवको न कश्चिदन्यः किन्तु भविष्यत्कालेऽमेरिकीयराष्ट्रप्रमुखपदमारूढः श्रीअब्राहमलिङ्कन आसीत् । नाऽस्त्यसद्भाषितं यस्य नाऽरित भङ्गो रणाङ्गणात् । नास्तीति याचके नाऽस्ति तेन रत्नवती क्षितिः ॥ [पद्मानन्दकृते वैराग्यशतके २८] । ६९ Page #83 -------------------------------------------------------------------------- ________________ न्याय्यात कथा AARMA प्रविचलन्ति पदं न धीराः मुनिधर्मकीर्तिविजयः "किं नामधेयं तव ?" - वृत्तपत्रिकाया निरीक्षणं कुर्वन् आनन्दबाबुः पृष्टवान् । "धनपालः" । "धन"..... क्षणं विस्मितवान् आनन्दबाबुः,-धनपालः ? द्वारि स्थितं मलिनजीर्णवसनधारिणं तं बालकं साश्चर्यं निरीक्षितवान् । अङ्गमावरीतुमावश्यकं वस्त्रमपि नाऽस्ति, उदरमेव साक्ष्यं पूरयति यद्, एतेन द्विवेभ्यो दिवसेभ्यो न किमपि भक्षितं स्यात्... तथाऽपि नाम्ना धनपालः ! किमेषा विधेर्वक्रता उताऽसन्तुलितसमाजस्य भयोत्पादिका स्थितिः ? आसन्दादुत्थायाऽऽनन्दबाबुना स आहूतः । आसन्दे उपवेष्टुमिङ्गितं कृत्वा पृष्ट्वान् - वत्स ! ईदृशं मधुरं सुन्दरं च नाम केन दत्तम् ? आसन्दस्योपरि स बालको नोपाविशत् । मनोहरमेतदासन्दस्य तल्पं मलिनं स्यात् तादृशं मलीमसं वस्त्रं मया परिहितमिति जानाति स्म सः । ततो नतमस्तकः स ऊर्ध्वमेव : स्थितः । वत्स ! त्वया मे प्रश्नस्योत्तरो न दत्तः । आसन्दे उपविशन् आनन्दबाबुः पृष्टवान्कार्यारम्भं कदा करिष्यसि ? 'अद्य प्रभृति' - गृहे सकृद् दृष्टिं प्रसार्योक्तवान् सः । किं वेतनं ग्रहीष्यसि ? बालक आह- यत्किमपि देयम् । मम सेवा भवते रोचेत तदनन्तरं निर्णेतव्यं, मह्यं तु सेवा देया । का प्रायो मासद्वयमतीतम् । तथाऽपि आनन्दबाबुना वेतनस्य विषये न किमपि पृष्टं न च तेन बालकेनाऽपि याचना कृता । EVER ई.स. १९७४ वर्षस्येयं घटनाऽस्ति । कर्णावतीनगरे पालडीमध्ये एकस्मिन् Idh भवनसमुच्चये (Society) स आनन्दबाबुः भाटकेन वसति स्म । तत्र त्रयाणां जनानां I.Y वस्त्राणां भाण्डानां च प्रक्षालनं तथा साधैकापवरकस्य परिमार्जनं - एतावत्कार्यार्थं यः ७० Page #84 -------------------------------------------------------------------------- ________________ कश्चिदपि कर्मकरः पञ्चाशदधिकशतं रूप्यकाणि तु गृह्णीयादेव, तथाऽपि स बालको धनस्य कृते कार्यं करोतीति आनन्दबाबोः चित्ते न प्रतिभातम् । __ "धनपाल !".... तस्य हस्ते दशरूप्यकाणि ददन् आनन्दबाबुः कथितवान् - किं त्वं पत्रशाकादिकमानेतुं शक्तः ? __दशरूप्यकाणि स्यूतं च गृहीत्वा हसता तेन धनपालेन व्याकृतम् - महोदय ! धान्यं, क्रयाणकं, तैलघृतकुप्यः, चायकं, दुग्धं, कोफीद्रव्यं चेति यत्किमप्यानेयं तत् कथनीयम्, अहं : तमानेष्यामि । अहं तदर्थमतिरिक्तं भरणं (Extra Pay) न ग्रहीष्यामि । __ 'अतिरिक्तं भरण'मिति धनपालस्य मुखेन निशम्य आनन्दबाबुः चकितवान् । मासद्वये समाप्ते सत्यपि स बालको वेतनं न याचते, न च कार्यकरणे आलस्यमपि प्रदर्शयति । : कर्तव्यच्युतिस्तु तस्य स्वभावे एव नाऽस्ति, अपि त्वधिककार्यकरणेऽपि तस्योत्साहो विद्यते। मलिनौ उपानहौ परिदधता तेनोक्तम् - 'महोदय !' अन्यत्किमप्यानेयं खलु ? यद्यानेयं तर्हि तदप्यानेष्याम्यहम् । न, न, अधुना त्वियत् पर्याप्तम् । ___ आनन्दबाबुः यत्र वसति स्म तत्रत्यान् बालकान् स आङ्ग्लभाषां पाठयति स्म । : विशेषवर्गमपि निःशुल्कं चालयति स्म सः । अन्यभवनसमुच्चयस्थिता बालकाः कदाचित् : कटाक्षमपि कुर्वन्ति स्म- महोदय ! अस्माभिरप्यस्मिन्नेव भवनसमुच्चये वासः कृतः स्यात्, : तर्हि.... 'तर्हि यूयमपि नि:शुल्कमध्ययनं प्राप्नुयात !' पश्चाद् हसन् स आनन्दबाबुः पुनरपि वक्ति स्म- यदि यूयमपि बोर्डपरीक्षायामाङ्ग्लविषये सप्ततितोऽधिकान् गुणाङ्कान् प्राप्नुयात तर्हि युष्मानपि निःशुल्कं पाठयिष्यामि । साधैंकघण्टापर्यन्तं विद्यार्थिभ्योऽध्यापितम् आनन्दबाबुना । यावद् विद्यार्थिनः स्वस्वगृहं . गतवन्तस्तावदेव धनपाल आगच्छत् । दशरूप्यकाणि स्यूतं च प्रत्यर्पयन् क्रोधेन स उक्तवान् – महोदय ! इतः परमहं तस्य शाकविक्रेतुरापणान्न कदाऽपि शाकमानेष्यामि । जमालपुरविपणित आनेष्यामि, किन्तु तस्याऽऽपणात्तु नैव । 'किं, तेन विक्रेत्रा किमपि कथितस्त्वम् ?' 'मह्यं स न रोचते' इति गृहद्वारस्य बहिर्दृष्टिं विधाय धनपाल: कथितवान् - ‘स मह्यं (14 लञ्चां ददाति' । ७१ Page #85 -------------------------------------------------------------------------- ________________ ___ 'लञ्चा ?' इति निशम्यैव स आनन्दबाबुः स्तब्धो जातः । प्रतिदिनं त्वया मे आपणात् शाकस्य क्रयणं करणीयं, तुभ्यमहं प्रतिदिनं पञ्चाशन्नाणकानि दास्यामि- इति कथयन्नासीत् । महोदय ! आजीवनं जननी मह्यं वक्ति स्म- एतादृशं धनं विषं कथ्यते, इति । विषं नेच्छाम्यहम् - धनपालो गदितवान् । स आनन्दबाबुः निनिमेषं तमेव पश्यन् स्थितः । धनपालस्तु स्वस्याऽतीते निमग्नो जातः । महोदय ! यदाऽहं लघुवयस्क आसं तदा शालाया एकेन शिक्षकेनाऽन्यस्य शिक्षकस्य द्विचक्रिकायाश्चक्रवेधनं (Puncture) विधातुमादिष्टम् । ततो मया तु तस्य शिक्षकस्य द्विचक्रिकायाः पश्चिमचक्रे चक्रवेधनं कृतम् । तत्कार्यकरणस्य रूप्यकद्वयं मह्यं दत्तं तेन । मया तु सानन्दं तद् रूप्यकद्वयं मात्रे दत्तम् । तदा जननी मां पृष्टवती- वत्स ! त्वयैतद् धनं कथं लब्धम् ? अहं सर्वमपि कथितवान् । तदा तत्क्षणमेव माता मे हस्तमात्मनो मस्तकस्योपरि स्थापयित्वा शपथेन बन्धिवती यद, "जीवने एतादृशं धनं न कदाऽप्यहं स्वीकरिष्यामी"ति । पश्चाद् व्याकृतम् - गच्छ, साम्प्रतमेव येन शिक्षकेनैतद् धनं दत्तं तस्मै प्रतिदेहि। एतादृशं धनं तु विषमस्ति । आनन्दबाबोः नयने आर्दीभूते । गद्गद्स्वरेण तेन पृष्टम् - 'तव जननी...' धनपालः क्षणं तूष्णीं स्थितवान् । पश्चात् कष्टेनोक्तवान् - माता नाऽस्ति.... सा मृता... जनकस्तु मद्यं पीत्वेतस्ततोऽटति । जगत्यस्मिन्मे कोऽपि नाऽस्ति । वत्स ! कोऽपि न स्याद् यस्य तस्य कृपालुर्भगवान् स्यात् । नयनं प्रमाM आनन्दबाबुना प्रेम्णा पृष्टम् - कार्यारम्भाद् मासद्वयमतीतम्, तृतीयो मास: प्रारब्धः, तथाऽपि कथं त्वया वेतनं न याच्यते ? महोदय ! नाऽहं याचकः । मात्रा कथितमस्ति - वत्स ! न कदाऽपि कस्याऽपि - समीपे याचना करणीया ।। भो ! एतत्तु तेऽधिकारस्य धनमुच्यते । तथाऽपि.... न कदाऽप्यहं याचिष्ये । यदा भवान् दास्यति तदा ग्रहीष्यामि । किं ते धनस्याऽऽवश्यकता न भवति ? । महोदय ! धनस्याऽऽवश्यकता कस्य न स्यात् ? किन्तु धनस्य कृतेऽहं न मे स्वमानं हनिष्यामि । भवता यद्वतनं दास्यते तदहं निःशब्दं ग्रहीष्यामि । यदि द्वितीयदिने कार्यार्थमागच्छेयं IV-V तदा भवता दत्तं वेतनं मे मान्यमिति ज्ञेयम् । ७२ Page #86 -------------------------------------------------------------------------- ________________ - . . . . . . . . . . . . . . . . . . . . .. . . . . . . . . . . . . . . . . . . पञ्चाशदधिकं द्विशतं रूप्यकाणि तस्य हस्ते आनन्दबाबुना दत्तम् । दश-दशरूप्यकाणां मूल्यपत्राणां गणने कश्चित् समयो व्यतीतः । शङ्कायां जातायां सत्यां पुनस्तेन गणनारम्भः कृतः, किन्तु मनसः समाधानं न जातम् । अतस्तेन पृष्टम् - महोदय ! भवान् कियन्ति रूप्यकाण्यदात् ? पञ्चाशदधिकं शतम् । भवान् तु शिक्षकोऽस्ति, तथाऽपीयती महती स्खलना ? स्खलना ? अनभिज्ञतां प्रदर्श्य आनन्दबाबुः कथयाञ्चकार-प्रायो न कदाऽपि मम : | क्षतिः संभवेत् ! भवता वेतनरूपेण मह्यं साधैकशतं रूप्यकाणि देयानि सन्ति, किन्तु क्षतिवशात् पञ्चाशदधिकं शतद्वयं रूप्यकाणि दत्तानि सन्ति, इत्युक्त्वा धनपालेन शतं रूप्यकाणि प्रतिददता आनन्दबाबुमहोदय उक्त:- अधिकानि दत्तान्येतानि शतं रूप्यकाणि गृह्णातु । तन्मध्याद् दशरूप्यकाणि प्रतिददता आनन्दबाबुना गदितम्-धनपाल ! तव नीतिमत्तागुणेन प्रसन्नोऽहं पारितोषिकरूपेणैतानि दशरूप्यकाणि तुभ्यं ददामि, गृहाण । महोदय ! नीतिमत्तायाः पारितोषिकं न स्यात् । दशरूप्यकाणि प्रतिददन् धनपाल: कथितवान् - नीतिमत्ता त्वस्माकं मूलधनमस्ति । तन्मूलस्य पारितोषिकं न ग्रहीतुं शक्यम् । इदानीं यदि कदाचिद् दशरूप्यकाणां स्थाने दशलक्षरूप्यकाण्यप्यभविष्यन् तॉपि मयैवंरीत्यैव भवते प्रत्यर्पितमभविष्यत् । तपस्विन्या मे जनन्याऽऽजीवनं शान्तिस्तु न लब्धा, किन्तु तस्या मृत्योः पश्चादपि तस्या आत्मा दुःखितः स्यात्तादृशं कार्यं तु नैव कुर्याम् । आनन्दबाबुस्त्वेतस्य निर्धनस्य बालकस्य वैभवं वीक्ष्याऽऽश्चर्यचकितः स्तब्धश्च जातः । तेनोक्तं - धनपाल ! मासद्वये पूर्णे सति यदि वेतनं न्यूनं भासेत्तदा कथये:, वेतनस्य वृद्धि करिष्याम्यहम् । "महोदय ! आभारं मन्ये" । धनपाल उक्तवान् - "यदि वेतनस्य वृद्धया सह मानवस्य मनुष्यत्वं नीतिमत्ता चाऽवद्धिष्यत तर्हि महानगरेष्वद्य मनुष्यत्वस्य नीतिमत्तायाश्च दुष्कालो नाऽद्रक्ष्यत । यदीयता वेतनेन मे कार्यं न्यूनं प्रतिभासेत तद्यधिकं कार्यं सूचनीयमुत मम वेतनात् पञ्चाशद् रूप्यकाणि न्यूनीकरणीयानि । न तत्र मे काऽपि बाधाऽस्ति । किन्त्वेवंरीत्या पारितोषिकस्य व्याजेन मह्यं रूप्यकाणि दत्त्वा मे मातुरात्मा येन दुःखितः स्यात्, तादृशमेकमपि कार्यं मया न कारणीयम्" । - ७३ Page #87 -------------------------------------------------------------------------- ________________ ___ 'धनपाल ! कार्यमेकं करिष्यसि ?' धनपालस्य वाक्यमश्रुतमिव व्यवहरन् आनन्दबाबुः अब्रवीत् - 'मम शालायां तव प्रवेशं कारयेयम् । किं त्वमध्ययनस्याऽऽरम्भं करिष्यसि ?' महोदय ! मम माता नितरामशिक्षिताऽऽसीत्, पिता च पठित आसीत् । पठितेन पित्रा मह्यं किं दत्तं तथाऽशिक्षिततया च जनन्या मह्यं किं दत्तमित्यहं जानामि । महोदय !.... दूरदिशि दृष्टिं विधाय धनपालेनोक्तं - अध्ययनस्य भारेण जीवः सम्यग् हसितुमपि न शक्नोति, न च वास्तविकं जीवितुमपि शक्नोति । मम जननी कथयति स्म - मनुष्येण सह मनुष्यो यदि मानवो भूत्वा वसेत् तद्यस्यां धरायामेव स्वर्गोऽस्ति । आनन्दबाबुः किञ्चिद् विचार्य किमपि कथयेत् तावतैव स धनपालस्तु ततो निर्गतवानासीत् । द्वितीयदिने कार्यार्थमागतवान् सः । आनन्दबाबोः पादौ नमस्कृत्याऽऽशिषं याचमानः स उक्तवान्-महोदय ! मम कृते भवान् भगवतः समीपं प्रार्थनां करोतु यद्-अहं यत्र कुत्राऽपि गच्छेयं तत्र मनुष्यीभूय वसेयं, मम नीतिमत्तायां न काऽपि बाधा स्यात्, .... मम जनन्या दत्तं स्वमानं सगौरवं रक्षेयम् । तमुत्थाप्य आनन्दबाबुः कथितवान् - वत्स ! “अद्य वसन्तपञ्चमीदिनोऽस्ति । अद्य त्वया मे जीवनस्य महत् शम्बलं दत्तमस्ति । आजीवनं न कदाऽप्येतद्दिनं विस्मरिष्यामि.... भगवान् तव रक्षणं कुर्यात्" । सम्पूर्णतः त्रयोविंशत्या वर्षेभ्यः पश्चात् स एव धनपालः ई.स. २००७ वर्षस्य . वसन्तपञ्चमीदिने एकस्मिन् यानसमीकरणस्थाने आनन्दबाबुना सम्मीलितः । सम्बन्धस्य स्मरणं कारयता तेन धनपालेन कथितं - महोदय ! भवता नाऽभिज्ञातोऽहम्, किन्तु मया तु भवान् प्रत्यभिज्ञात एव । भवता प्रथमं चरमं वा यद्वेतनं दत्तं तदद्याऽपि मञ्जूषायां मया रक्षितमस्ति । तानि पञ्चाशदधिकानि शतद्वयरूप्यकाणि स्मरतु भवान् । नीतिमत्तायाः पथि प्रचलन् स निर्धनो धनियो' अद्य त्रयाणां त्रयाणां यानसमीकरणस्थानानां स्वामी श्रेष्ठी धनपालो' जातोऽस्ति । ७४ Page #88 -------------------------------------------------------------------------- ________________ कथा आहसाया मुनिधर्मकीर्तिविजयः गूर्जरराज्यस्य प्रतापिनि सिंहासने पराक्रमी राजर्षिः कुमारपाल आरूढवानासीत् । गुर्जरभाषाप्रणेतुः श्रीहेमचन्द्राचार्यगुरोः सदुपदेशेन प्रतिबुद्धस्य राजर्षेः चित्ते निरन्तरमहिंसाया भावना रममाणाऽऽसीत् । ततो "हिंसारूपान्धकारेण वित्रस्ते जगत्यस्मिन्नहिंसायाः प्रकाशः प्रसरेदि ''ति तेन स्वप्नः सेवितः । तदनुरूपं च स सर्वत्राऽहिंसायाः प्रसारोऽपि कृतवानासीत् । जय कण्टकेश्वरीदेवी तस्य कुलदेव्यासीत् । नवरात्रमध्ये दिनेषु त्रयेषु तद्देव्याः समक्षं नैकेषां पशूनां बलिर्दीयते स्म । तत एषा हिंसा कथमपि निवारणीया' इति विचार्य तेन तस्य निषेध आदिष्टः । तस्यैतादृशेनाऽऽदेशेन सर्वेऽपि देवीसमर्चका नागरिकाश्च भीताश्चिन्तिताश्च जाता यदेषाऽस्माकं पूर्वजनैराचीर्णा परम्पराऽस्ति । एतस्या निषेधेन कदाचिद्देवी कुप्येदपि । देवीनां चाऽयं कोप: चौलुक्यवंशनाशायाऽपि जायेत ! इति । किन्तु गिरिरिव दृढचित्तो राजर्षिस्त्वहिंसायाः कृते स्वस्य सर्वमपि विहातुं सन्नद्ध आसीत् । स्वगुरोः श्रीहेमचन्द्राचार्यस्य प्रतिभाया मार्गदर्शनस्य चोपरि तस्य परमा श्रद्धाऽऽसीत् । ततस्तु निर्भीक एवाऽऽसीत् सः । कोऽपि निर्णयः करणीय एवेति विमृश्य महोत्सवस्य पूर्वदिने सर्वेऽपि सामन्ताद्यधिकारिणो राजसभायां सम्मीलिता आसन् । ते आचार्यवर्यस्याऽऽगमनं प्रतीक्षन्ते स्म । तदैव सूर्य इव प्रतापी, चन्द्र इव सौम्यः, गगनमिव निर्लेपः, स्फटिकरत्नमिव विशुद्धमानसः स आगतवान् । सर्वे तस्य सत्कारार्थमुदतिष्ठन् । आचार्यवर्योऽपि सर्वान् स्वाशीर्वचनैर्भावयन् स्वकीयासने व्यराजत । वातावरणे शान्तिर्भव्यता च प्रसृताऽऽसीत् । आचार्यवर्योऽपि तेषामभिप्रायं ज्ञात्वोवाच- भोः प्रजाजनाः ! प्रणालिकामनुसृत्य दैव्यै बलिस्त्ववश्यं देया । बलिं विना सा कोपिष्यति । किन्त्वद्य तु विशेषतः पशुभिःसह पक्वान्नान्यपि तस्यै देयानि । तस्याः प्रसन्नतायामेवाऽस्माकमपि प्रसन्नताऽस्ति । अतः सर्वे सन्नद्धा भवन्तु । ७५ Page #89 -------------------------------------------------------------------------- ________________ M एतन्निशम्य पूजकानां जनानां च हृदयान्यनृत्यन् । एतत्किम् ? अहिंसाया उपासकोऽपि जैनाचार्यः स्वमुखेनैव हिंसामनुरुणद्धि खलु – एवं विचारयद्भिस्तैः पुनराचार्यवर्यस्य ध्वनिः श्रुतः । भो ! अवश्यमेव बलिया, किन्तु देव्याश्चरणयोर्जीवत एव पशून् समर्पयन्तु । मन्दिरस्य द्वाराणि च पिधीयन्ताम् । देवी स्वेच्छानुरूपं बलि ग्रहीष्यति । अद्यपर्यन्तं भवद्भिः शवान्येव दत्तानि । अद्य जीवत पशूनेवाऽपर्यन्तु । पशूनामक्षतदेहस्य प्रापणेन देवी विशेषतः प्रसन्नतामनुभविष्यतीति । ___ सर्वे तूष्णीं स्थितवन्तः । सर्वैविना विरोधं गुरोर्वचनं स्वीकृतम् । तस्मिन् दिने जीवन्त एव पशवो मन्दिरस्याऽङ्गणे स्थापिताः पूजकैः । त्रीणि दिनानि व्यतीतानि । तत्र 'किं जातम्' इति ज्ञातुं सकौतुकं सर्वेऽपि मन्दिरं गतवन्तः । आनन्देन क्रीडन्तः सर्वेऽपि पशवो दृष्टाः सर्वैः । तेन सर्वेषां चित्ते गुरुमहिंसां च प्रति श्रद्धा दृढीभूता । ततोऽहिंसा जयतु, श्रीहेमचन्द्राचार्यगुरुवर्यो जयतु, कुमारपालराजर्षिर्जयतु - इत्युच्चैर्वदन्तः सर्वेऽपि स्वस्थानमगच्छन् । "अद्याऽऽरभ्यते मूकजीवा अभयं प्राप्स्यन्ति" इति विमृशन् प्रसन्नवदनो राजर्षिः कुमारपाल: स्वगुरोश्चरणयोः पतितवान्, तथा हर्षा श्रुभिस्तयोः प्रक्षालनं कृतवान् । हेम-धेनु-धरादीनां दातार: सुलभा भुवि । दुर्लभः पुरुषो लोके य: प्राणिष्वभयप्रदः । । [मार्कण्डपुराणे २/७/९३] ७६ Page #90 -------------------------------------------------------------------------- ________________ :) कथा भाषापा क्षाणामा मुनितीर्थबोधिविजयः: अहो ! विस्मयावहमदृष्टपूर्वं च । मित्र ! कियन्मनोहरं स्थानमस्ति ? जगति स्थितानां: सारतमानां पुद्गलानां निचय एव मन्येऽद्य सहस्राम्रवणोद्यानेऽवतीर्णोऽस्ति । वयस्यैतत्तु पश्य, : कीदृगाह्लादकं समशीतोष्णं च वातावरणं, मणिरत्नैः खचितः समः स्वच्छश्च स्पष्टश्च भूप्रदेशः,: सुवर्णबद्धश्च विशालो विस्तृतः पन्था, मार्गस्योभयस्मिन्नपि पार्वे षड्ऋतूद्गतानि मनोहराणिः चित्ताकर्षकाणि पुष्पाण्युपरि च गतागतं कुर्वतां जनानां कृते आतपवारकमिव शोभमाना वल्लीनां: मञ्चकपङ्क्तिः । किमहं स्वर्गे वा वैकुण्ठे वा, नागलोके वा, सुपर्णलोके वा कुत्र: वाऽऽगतोऽस्मि?" इति युगपदेवाऽवदत् वीरदत्तः । पश्चाच्च किञ्चिद्विश्रम्य- "मित्र ! वयस:: षष्टिवर्षाण्येतावता व्यतीतानि । बहुत्र बहूनि स्थानानि मया दृष्टानि । परमेतादृवस्थानं कुत्राऽपि न दृष्टम् । मित्र ! तावदन्यानि स्थानानि तिष्ठन्तु, एतस्मिन्नप्युद्यानेऽनेकेषु प्रसङ्गषु: नैकधाऽऽगतपूर्व्यहम् । परमेतावदपि लावण्यमत्र कदाऽपि नैव दृष्टवानस्मि । मन्येऽद्य तूद्यानश्री:: स्वयंवरसज्जितषोडशशृङ्गारा स्वप्रियतमं वरितुं महता परिकरेण बह्वाडम्बरेण सर्वरसेन निर्गताऽस्ति ।: परं स प्रियतमः कः ? तत्तु नैव जानेऽहम् ।" इत्युक्त्वा वीरदत्तेन स्वबालमित्रस्य सागरदत्तस्य मुखं प्रविलोकितं, यस्मिंश्च मधुरं हास्यमुद्गच्छद् दृश्यते स्म । - "मित्र ! किं भवानस्याः : प्रियतमं जानाति ?" सागरदत्तः केवलमनिच्छयैवोक्तवान् - "आम् !" वीरदत्ताय तस्येदं मौनाश्रयणमसहनाय जातं । उद्वेगपूर्णया वाचा सोऽवदत् - "तद्देव-: मविदग्धवत्संदिग्धजनवत्प्राकृतवद्वा मौनाश्रयणं कथम् ?" "मित्र ! यदाऽन्तःकरणमेवाऽनुभूत्या संपूर्णं जातं स्यात्तदा शब्दस्याऽऽवश्यकतैव नः तिष्ठति !" .... “वीर !" वीरदत्तस्य मुखं प्रलोक्य- "त्वमेव मेऽकथयः, जन्मतः: षष्टिर्वर्षाण्यावयोरेतावता व्यतीतानि । परमेतावति बृहत्तरेऽपि जीवनभवने किं तादृक्कोऽपि: स्मृति-खण्डस्तव स्मृतिपथमवगाहते, यदा त्वं तादृशि स्थानेऽभवः, यत्र च स्थितस्य तव: चैतन्यं पूर्णतया पुष्पितं स्यात् ? शरीरमज्ञाततया पुलकितं स्यात् ? प्रत्येकमपि रोम्ण्यगोचरस्याऽननुभूतपूर्वस्य चाऽऽनन्दस्य साम्राज्यं प्रवर्तेत ?, चेतनाऽन्तरङ्गं भित्त्वा बहिरागन्तुं. प्रयासमिवं कुर्वीत ? सर्वस्वं प्रकृतेरानन्दसागरे लीनं स्यात् ?" इति पृष्टवान् सागरदत्तः । क्षणकालं गम्भीरं मौनं प्रावर्तत । ................................................. ७७ Page #91 -------------------------------------------------------------------------- ________________ ................................................. ................... वीरदत्तः स्वमित्रस्य मुखमेव निर्निमेषं पश्यन्नास्ते स्म । स विचारयति स्म यत् -: : "अद्याऽस्मिन्मुखाम्बुजेऽदृष्टपूर्वा श्रीविराजते । एतयोर्नेत्रयोः समुद्रलहरीवदुन्मादानन्दमिश्रिता: काचिद्विलक्षणैव गभीरता विलसति । तौ च कपोलावानन्देन पुलकितौ रक्तोत्पलशोभां वहतः ।। तौ चौष्ठौ मुखे स्थितां सन्तुष्टिं मुखरीकुरुतः । तस्य मुखमेव तस्मिन्स्थितममन्दमानन्दसन्दोहं: पिशुनयति" इति । "अन्यच्च मित्र ! दर्शनीयानि त्वस्माभिर्बहुत्र बहूनि दृष्टानि, परं तेभ्य एतानि: किंचिद्विलक्षणानीव न भासते ? तत्कि वैशिष्ट्यमिति भवता ज्ञायते ?" वीरदत्तं तु तस्य: प्रश्नमाला रहस्यमयगर्ते पातितवती । स तु मुग्धवत्केवलं मुखमेव नकार-मुखरं कृतवान् । "वयस्य ! किं भवता स्मर्यते यदितस्त्रिभ्यो वर्षेभ्यः पूर्वं, भूतपूर्वस्य महाराज्ञः: सुपुत्रोऽस्माकं च राजा महाराजोऽरकुमारोऽत्रैवोद्याने दीक्षां गृहीतवानासीदिति ?" तदा वीरदत्तेन केवलं वदनमेव स्वीकारमुद्रयाऽऽन्दोलितम् । "मित्र ! स तदानीमासीत्केवलं सामान्यः कश्चिद्ः भिक्षुः । तस्याऽन्तः-सम्पत्तु यद्यपि महार्घा महाप्रमाणा च, तथाऽपि सामाजिकदृष्ट्या स: अकिञ्चन एव । यदि वा तस्य दृष्ट्या बाह्या सम्पद् धूलिवदसारा । अत एव स स्वयमेव तत्सर्वं: त्यक्त्वा साधनायाः कठोरं मार्गमनुसृतवान् । वयस्य ! अद्य दिने तस्य कठोरा सा साधना. समाप्ते: शिखरं प्रतिगताऽस्ति । त्रीणि वर्षाणि यावत्प्रचलिता तस्य साधनाऽद्यदिवसे सिद्धेश्चरमबिंदु प्रतिगताऽस्ति । वयस्य ! तस्याऽधुना कैवल्यज्ञानं सञ्जातमस्ति । यस्मिश्च त्रैकालिकी त्रिलोकी,: करामलकवद् दृश्यते। मित्र ! सोऽधुना त्रिलोक्यामपि परमनाथः, परमतारकः, परमोच्चः,: परमद्धिमांश्च सञ्जातोऽस्ति । देवताभिरपि नाथनाथस्य तस्य नाम - "अरनाथः" इत्युद्घोषितमस्ति": इत्युक्तवान् सागरदत्तः । अन्तरैव वीरदत्तः "अहो ! कियन्मनोहार्यभिधानम् "अरनाथ इति" ? : वयस्य ! केवलं नामाऽपि त्रिजगदाक्रष्टुं लोहचुम्बकायते ।" तस्य स्वमित्रस्य जिनधर्मानभिज्ञस्याऽप्येतावदुल्लासं दृष्ट्वा रञ्जितमनस्क: सुश्राद्धः: सागरदत्तः स्वकथनमनुसन्दधाति स्म । "मित्र ! स एव भगवानरनाथ एतस्या उद्यानश्रियाः आर्यपुत्रः।" "आम् ! ज्ञातं मया ।" "अन्यच्च मित्र ! अद्याऽपि वयमेकयोजनदूरस्थिते एव प्रदेशे स्मः । यदाऽग्रे: गमिष्यामस्तदा वयमेकां त्रिदुर्गों द्रक्ष्यामः । तस्यास्तु सा काऽप्यत्यद्भुता शोभा, या सर्वथा. वर्णनातीता । मित्र ! यदा भगवन्तोऽर्हन्तः कैवल्यमासादयन्ति, तदैव ते कर्मभिर्दोषैः कुसंस्कारैश्चः सह प्रचलमाने-ऽनन्तकालीने युद्धे महान्तं विजयं प्राप्नुवन्ति । तदा च तेषां जयेनोन्मत्ता: : हर्षनिर्भराः सर्वेऽपि देवास्तेषां किङ्करा एतं समवसरणं विरचयन्ति । तस्यैव च मुख्यो भागो: ७८ Page #92 -------------------------------------------------------------------------- ________________ ................................................. : भवति सा त्रिदुर्गी । तस्य च त्रयाणां दुर्गाणां प्रथमे रौप्यमये दुर्गे वाहनानि, स्वर्णमये द्वितीये: तिश्चः, रत्नमये च तृतीयवप्रे द्वादशाऽपि पर्षदोऽवस्थिता द्रक्ष्यामः । तस्मिश्च तृतीयवप्रे बहुमध्यभागे: रत्नमयपीठिकोपरिस्थिते महाघे स्वर्णमयसिंहासने उपविश्य यदा भगवन्तो देशनासुधां पाययिष्यन्ति, : अहा हा ! तदा सर्वं भेदं विस्मरिष्यामः, केवलं चिन्मयः, चैतन्यमयश्चाऽभेद एवोल्लसिष्यति । तत्सुधां पीत्वा परमतृप्ता भविष्यामः ।" "तर्हि मित्र !" तत्सम्मुखं दृष्ट्वा "चलतु, सत्वरं यातः, प्रभोरेकोऽपि शब्द:: श्रवणस्याऽगोचरतां यथा न भजेत् तथा कुर्वः" । तौ सत्वरं यातः । अद्याऽपि समवसरणविषये सागरदत्तेन बहु प्रष्टव्यमस्ति, वीरदत्तेन: च बहु ज्ञातव्यमस्ति । परं तौ कौ ? किं तावेवाऽस्माकं कथानायकौ ? न, तौ तु सामान्यौ: कौचिद् रत्नवणिजौ । नीति-न्यायेन व्यवहारस्तयोः शोभा । द्वयोरपि सप्ताट्टालिकात्मके हर्ये : हस्तिनागपुर-नगरस्य राजमार्ग शोभयतः स्म । तयोरत्राऽन्यान्यपि बहून्यापणान्यासन् । येषु: तयोः पुत्रा व्यवहरन्ति स्म । यदाऽत्र पञ्चाशद्वर्षेभ्यः पूर्वमागतं तदा तयोः पार्वे किमपि नाऽसीत् । अकिञ्चनौ: सर्वथा तावास्ताम् । परं शनैश्शनैरभ्युदयं प्राप्तवन्तौ तौ सर्वगामिनी तावती विभूतिमपि प्राप्तौ; : येन तन्नगरे गण्येषु श्रेष्ठिवर्येष्वन्यतमौ परिगणितौ सज्जन-सम्मतौ च जातौ । एतावता सागरदत्तस्य गृहवसतौ कुम्भगणिप्रमुखाः साधवश्चतुर्मासी स्थिताः । स: महताऽऽदरेण तेषां सपर्यां कुर्वंस्तेभ्यो धर्ममपि श्रुतवान् । संगतेः फलस्वरूपेण स परमः श्राद्ध:: समजनि । तस्य च षण्णामपि पुत्राणामुपरि दुहितैकाऽऽसीत् । तस्या नाम प्रियदर्शनेति । साऽपि: तदा जिनधर्मंकताना जाता । परमद्य तस्या उपरि तन्निमित्तं च सागरदतोपर्येका महत्यापत्ति-: रापतिताऽऽसीत् । का सा ? तां तु सागरदत्त एव कुम्भगणिने विस्तरेण श्रावयिष्यति । : अद्य किन्तु हस्तिनागपुरनगरे नयनानन्ददः परममहोत्सवः । यतोऽद्य प्रभोर्ज्ञान-: कल्याणकमहस्तत्र । देवा अपि तस्मिन्नगरे, तस्मिन्नुद्याने, तत्र समवसरणे चलितासनाः प्राप्तप्रेरणा:: भक्तिभरनिर्भराः प्रभोः सेवायामागच्छन्तो दृश्यन्ते स्म । तेन सर्वोऽप्याकाशपथोऽवरुद्ध आसीत् । : अन्यतोऽद्वैतानन्दकल्लोले मग्ना जानपदाः श्राद्धादयः समवसरणं द्रष्टुमुत्सुका वरयात्रया महत्या विभूत्या महता परिकरेण च तस्मिन्नुद्यान आगच्छन्ति स्म । तेन भूमार्गोऽपि सम्मर्दमयः सञ्जात : आसीत् । आभाति स्म यत् - नगरं रिक्तीभूय वारिपूरवन्महता रंहसा सहस्राम्रवणोद्याने : समवसरणं व्याप्नुवदासीत् । एतावत्यपि सम्म प्रभोः प्रभावेण न कोऽपि कमपि बाधतेऽवरोधी: भवति स्म वा । हर्षपूर्णमनस्काः सर्वेऽपि तां तस्य शोभा महताऽऽनन्देन पश्यन्तोऽग्रे गच्छन्तिः ७९ Page #93 -------------------------------------------------------------------------- ________________ ................................................. एतादृशि समये च परमो गण्यः श्रावक: सागरदत्तोऽपि स्वपुत्रादिपरिकरण, स्वप्रियमित्र-: वीरदत्तेनाऽन्यैश्च कैश्चिन्मित्रैःसह त्वरयाऽग्रे गच्छति स्म । सर्वेषां मनांस्युत्साहेन पूर्णान्यासन् । तावतैवाऽकस्मात्सागरदत्तस्य प्रथमः पुत्रोऽङ्गल्या किंचिद्दर्शयन् – 'तात ! भ्रातरः ! मित्राणि !: पश्यन्तु, स एवैष आम् स एव' इति । समेषामपि दृष्टिस्तत्र निपतिता, यत्र च कश्चिद्वामन इन्द्रजालादीन् दर्शयन् स्वं वेष्टयित्वा: स्थिते जनसमूहे विस्मयमावहयन्नासीत् । सर्वे तस्य हस्तलाघवं कौशलं च दृष्ट्वा मुग्धाः जाताः । “अहोऽद्भुतम् !" इत्यादय उद्गारा द्रष्टुणां मुखेभ्यः सहसा निर्गच्छन्ति स्म । : ___ धनदस्तु जातिवैरिवदुन्मत्तकवद् हस्तावास्फोट्य तालरवं कुर्वाणो - "अद्य तु तं: कथमपि ग्रहीष्याम्येव, तत्पश्चाच्च ममाऽऽवुत्तस्य सम्पूर्णामवितथां स्थिति प्राप्स्याम्येव ।: पश्याम्यद्य कुत्र गच्छति स वराक:?" इत्युक्त्वा वेगेन धावमानः सम्म मार्गं कुर्वाणो यावता. वामनाभ्यणे-ऽगच्छत्तावता स वामनः- "मम ग्रहणाय वृथा प्रयासो माऽस्तु । भगवतः: समवसरणेऽहं स्वयमेव भवतां हस्तयोरापतिष्यामि" इत्येवं स्वगतं वदन् धावित्वा च: कुत्रचिज्जनसमूहे निलीनो जातः । तदा च धनदोऽपि हूँकारानामुञ्चन्, हस्तौ चाऽऽमृशन्, करेण: शिर: कण्डूयमानः सागरदत्तादिपावें गत्वा वदति स्म- "अद्य सप्तमं वारं स हस्तागतोऽपि च्युतः" । . . . तदा, इतिवृत्तस्य हार्दमजानाना वीरदत्तादय उद्घाटितमुखा विस्फारितनेत्रा अनिमेषं: सागरदत्तं पश्यन्तस्तिष्ठन्ति स्म । सागरोऽपि संशयविच्छित्तये भणति स्म यत् - "मित्राणि !: एका समस्याऽद्याऽस्माकं समेषामपि बाधते । तस्याः परिहारे निमित्तकारणमेषो वामनो: भवितुमर्हति । अत एव मयैतद्ग्रहणाय धनदो नियुक्तः, परं स सप्तमवेलायामपि तं ग्रहीतुं: नैवाऽशक्नोत् । सा का समस्या, तां त्वहं यदा भगवतो गणिने कथयिष्यामि, तदैव यूयं शृणुथ ।: अधुना तावद्वयं सत्वरं समवसरणमेव सकलापत्तिपरित्राणक्षमं समाश्रयामः ।" । ससुरासुरायां पर्षदि भगवानपि परमोऽरनाथः प्रविशति स्म । सर्वेऽभ्युत्थिताः सन्तः: प्रभुमक्षतादिभिर्वर्धापयन्ति स्म । भगवानरनाथोऽपि चैत्यवृक्षं त्रिः प्रदक्षिणयित्वा, "नमस्तीर्थाये"-: त्युदित्वा मृगेन्द्रासने पूर्वाशाभिमुखमुपविशति स्म । तत्समकालमेव चाऽन्यास्वपि त्रिषु दिक्षुः व्यन्तरविरचितानि प्रभोः प्रतिबिम्बान्युपविशन्ति स्म । पश्चाच्च सर्वोऽपि पार्षदः स्वस्वोचिते. स्थाने निषीदति स्म तिष्ठति स्म वा । शक्रा: पुनरुत्थाय प्रभोर्महिमाभरां स्तुति प्रकुर्वन्ति स्म ।: शक्र उन्नमितवज्रहस्तस्तुमुलं निषेधति । पश्चाच्च भगवतः समुद्रगभीरस्वरेणोत्तमै शब्दैः: सर्वाङ्गवाहिनाऽर्थेन, मालवकैशिक्यादिग्रामरागबन्धुरा देशना प्रारभ्यते स्म । सर्वेऽपि जनाः ...... ८० Page #94 -------------------------------------------------------------------------- ________________ ............... ................................ . . . . . . : देवास्तिर्यञ्चोऽपि च स्व-स्वभाषया परिणतांस्तान्देशनाशब्दान् शृण्वन्तो वाचामगोचर-: : मानन्दमनुभवन्ति स्म । सर्वे भगवतो भागवत्यां श्रवणे तल्लीना जाताः । अस्मिंश्च काले सागरदत्तो वीरदत्तश्चोभावपि स्व-स्वोचिते स्थाने उपविश्य प्रभोर्वाणीसुधा-: । मैकाग्रेण पिबन्तावज्ञातपूर्विण्यमृतकुम्भे निमग्नौ सन्तावाकण्ठं तदमृतरसमास्वादयतः ।: : घण्टात्रयमपि त्रिक्षणीभूय व्यत्येति स्म । यदा च भगवता देशना समाप्ता तदा ग्रीष्मौ : मध्याह्नतपनस्य चण्डकरेण विसंस्थुल: कश्चित्पान्थो यदा वृक्षराच्छादिते महति शीतलस्वच्छजले. च सरोवरे आकण्ठं स्नात्वा तस्य च मधुरं शीतलमाप्यायकं च वारि पीत्वा यमानन्दं - यं: संतोष यां च तृप्तिमासादयेत्, ततोऽप्यधिकतरं संतोषमानन्दं तृप्तिं च श्रोतृणां मुखानि : पिशुनयन्ति स्म । पश्चाच्च भगवानरस्तत्राऽऽगतान् प्रविव्रजिषून् कुम्भाधान् राजानः प्रव्राजयति स्म । । तदुत्तरं भगवता तेभ्यो गणधरपदवी दीयते स्म । शक्राच्च वासचूर्णं गृहीत्वा तेषां मस्तके: निक्षेपः क्रियते स्म । तेऽपि तेन भगवत्स्पर्शेन ज्ञानस्फोटं प्राप्य द्वादशाङ्ग्या रचनां कुर्वन्ति: स्म । एतत्सर्वं दृष्टवतस्तु भाविभद्रस्य वीरदत्तस्याऽऽनन्दस्य सीमैव नाऽऽसीत् । स तूत्तालहस्त:: सन्नृत्यन्नेवाऽऽस्ते स्म । तदा च तस्य हस्तः कस्मैचित्पृष्ठस्थिताय विलगति स्म । सः वलितकन्धरो यावत्पश्यति तावत्तत्र कश्चिज्जन आसीद् यं च स क्षणकालं पश्यन्नेवाऽतिष्ठत् ।। पश्चाच्च सागरदत्तस्य कर्णयोर्गत्वा किञ्चित्तेन कथितम् । सोऽपि पश्चान्मुखः पश्यति स्म । स: च वामनो हसन्मुख आस्ते । क्षणकालं तु सागरदत्तो व्याकुलोऽभवत् । स विचारयति -: "अधुनैवाऽस्मै मम समस्यायाः परिहारं पृच्छामि" परं क्षणात् स आवेगो विवेकेन पराभूयत: "न, शुभे पवित्रे च धर्मस्थाने सांसारिकवस्तूनां विचारणाऽयोग्या। अहं कुम्भगणधरायैवैतं : : विषयं प्रक्ष्यामि । प्रभोः प्रभावात् सर्वं सुस्थं शुभं च भविष्यति" इति । ___ एतावतैव भगवन्तोऽर्हन्तः स्वाचारं समाप्य त्रिदुर्गा मध्यमं वलयं गत्वा देवच्छन्दके: विश्राम्यन्ति स्म । तदनु च प्रथमगणधरो भगवान्कुम्भः प्रभोः पादपीठमासनं कृत्वा-: ऽलक्षितकेवलिभेदः संवेगभरावहां देशनां समापयन्ति स्म । अथ सागरदत्त श्रेष्ठी स्वासनादुत्थाय : भगवन्तं भक्तिभरं नमस्कृत्य स्वसमस्यां निवेदयति स्म-"भदन्त ! अहमस्मि सागरदत्तनामा: : श्रेष्ठी । एतस्मिन्नगरे मम रत्नवणिज राजमार्गासन्न एव महालय आपणश्चाऽपि स्तः । जिनदत्ता: : नाम्नी मम भार्याऽस्ति । आवां सदा सन्तुष्टौ धर्मनिरतौ च कालं यापयावः । गार्हस्थ्यतरोः : : फलानीवाऽस्माकं सप्ताऽपत्यानि जातानि । तेषु षट्पुत्राः, सप्तमी च सर्ववल्लभा दुहिता : : प्रियदर्शनेत्यन्वर्थनाम्नी सन्ति । तस्या मम पुत्र्याः सहाऽस्मन्मनोरथैर्वयो वर्धते । वय:प्राप्तां तां: : रूप-कला-मेधा-गुणादिष्वनन्यसदृशीं दृष्ट्वाऽहं सदा तस्या वरार्थे चिन्तितो भवामि । अन्यदा: Page #95 -------------------------------------------------------------------------- ________________ कदाचिद्विपणौ स्थितेन मया ताम्रलिप्तिनगरादागच्छन्नृषभदत्तनामा सार्थवाहो दृष्टः साधर्मिक वात्सल्याच्च मया स्वगृह आनाय्य सादरमुपचरितः । प्राभातिकं कृत्वा यदा भोजनायोपविष्टौ तदा परिवेषयन्तीं मम पुत्रीं स निर्निमेषं दृष्टवान् । तस्या विनय-व्यवहारनम्रतादीन् दृष्टवतस्तस्य मनः किञ्चिद् योजनामिव घटयदज्ञायि मया । यावता तं किमपि पृच्छेयम् - तावता स मामेव पृष्टवान् " महाशय ! एषा कस्य दुहिता ? " । मयोक्तं " ममैवाऽस्ति । परं भवानेवं कथं पश्यति ? " तदा च तेन मृदु हसित्वोक्तं “महाशय ! अन्यथा मा भावयतु । परं ममैको• पुत्रोऽस्ति । तस्य नामाऽस्ति वीरभद्र इत्यन्वर्थकम् । त्रिभुवनातिशायिनस्तस्य रूपस्याऽतिशायिनो : यदि स्युस्तर्हि केवलं तस्य गुणाः । स यथा देहकान्त्या तथा कलाभिरपि परानाह्लादयति । श्रेष्ठः सरलो विनयवांश्च स सुशीलोऽस्ति । अन्यच्च बन्धो ! द्वासप्तत्यामपि कलायां तु स प्रवीणोऽतिशायी चाऽस्त्येव । परमाश्चर्यं नाम सोऽनेकानि मन्त्राणि विद्याश्च जानाति । नैकप्रकारे ऐन्द्रजाले तस्य हस्तलाघवमपूर्वमस्ति । तस्य पार्श्वे नैकविधा गुटिका अपि सन्ति । सर्वविधेष्वपि कलाविज्ञानेषु तस्य कोविदता बुधानामप्याश्चर्यस्य हेतुभूताऽस्ति ।" स तु धाराप्रवाहवदस्खलन्प्रवहन्नेवाऽऽसीत् । अहं च तां धारां पीयूषवत्पिबन्नासम् । "बन्धो ! सोऽधुनाऽस्ति प्राप्तवयाः परं तस्य योग्यां कामपि कन्यामेतावता कालेन न दृष्टवान् । परमधुनाऽहं स्वात्मानं भाग्यशालिनं मन्ये । यतो मया तस्मै भवत एषा कन्यका समुचिता, योग्या च परिशीलिताऽस्ति । तर्हि भवानेव कथयतु यत्किमभिप्रैति भवान् " इति । तस्य कथनमिदं श्रुत्वाऽहं क्षणकालं तु हतप्रभ एव सञ्जातः । स यथा गुणवर्णनमकरोत्तथा तु वीरभद्रो मम पुत्र्याः कृतेऽत्यन्तं समुचित एवाऽऽसीत् । परं स कदाऽपि न दृष्टो मया । केवलं कस्माच्चित् श्रुतमात्रा वास्तविकता वा कीदृशी स्यात् ? मया तस्य नेत्रे प्रलोकिते । ते परमात्मविश्वासेन सम्पूर्णे आस्ताम् । वास्तविकतायाः समुद्रस्तयोर्विलसन्नज्ञायि । दम्भस्य मायाया वितथताया वा लेशोऽपि तत्र नाऽदृश्यत । मयाऽऽत्मनि धैर्यं प्रपूर्योक्तं - "यथा भवांस्तथैव भवतः पुत्रोऽपि स्यान्नाम" । तेनाऽपि किञ्चिद्विहस्योक्तं - "बन्धो ! तद्विषये चिन्ता माऽस्तु । यतोऽहं सुतरां जानामि यत्- केवलं बन्धनं यथा न स्यात्तथैव बद्धव्योऽस्माभिः । " तदा च तस्योदात्तेन स्वभावेन रञ्जितेन मयाऽपि भगवति श्रद्धां निधाय स सम्बन्धोऽनुमतः अहं ऋषभदत्तस्य व्यवहारेण "यथा पिता तथा पुत्रः" इति न्यायेन यद्यपि सन्तुष्ट एवाऽऽसम्, तथाऽपि पञ्चदशदिनाभ्यन्तर एव वीरभद्रः स्वयं यदा जन्ययात्रयाऽऽगतस्तदा तु • तांस्तस्य- उदात्तता-सुशीलता - कुलीनतादीन् गुणान् दृष्टवतो मम सन्तुष्टिश्चरमां कक्षां प्राप्नोत् मनसः कोणे स्थिता शङ्काऽपि सहसैव बहिर्निरगच्छत् । महता सन्तोषेण पुत्र जामातरं - ८२ Page #96 -------------------------------------------------------------------------- ________________ ............................................... . . . . . . . . . . . . . . . . . . . . . .. : चाऽनुशिक्ष्य ताम्रलिप्तो प्रति वालयित्वा चाऽहं कृतार्थो विगतभारः सदा धर्मध्याने निरतस्तिष्ठामि । पौषधादिवतैश्च स्वात्मानं प्रव्रज्यायै भावयंस्तिष्ठामि ।। कदाचित्पर्वतिथावहं पौषधं कृत्वाऽन्यदिने पारणायै स्वगृहं प्रत्यागच्छन्नासं तदा च. मया किं दृष्टम् ? । हा ! एकत: प्रियदर्शनां मम प्रियपुत्रीं स्वसखिमात्रपरिकरां मम गृहाभ्यर्णे: स्वयमेवा-ऽऽगच्छन्ती दृष्टवानहम् । तत्कालमेव च वजाहत इव हतप्रभोऽभवम्- "एषा: सखिमात्रपरिकरा कथं दृश्यते? किं घटितं स्यात् ? अस्या आगमनवार्ताऽपि काऽपि नासीत् ?: अकस्मात्कथमागता? किं जामात्रा त्यक्ता ? न स कुलीनः कदाप्येवं कुर्यात् तदा किं वा. जातं स्यात् ?" विकल्पान्दोलने दोलायमानेन मया किंचित्कालात् स्वस्थितिः प्राप्ता । तदा: च यावता किञ्चित्पदानि तदभिमुखमगच्छं, तावतैव मां दूरादागच्छन्तं दृष्ट्वा सैव धावित्वा मम: पादयोः पतित्वा रोदनमेवाऽऽरब्धवती । तदा "निश्चितमशुभं किञ्चिद्धटित''मिति विचार्य मया: सा शनैरुत्थापिता-ऽऽश्वासिता स्वगृहं चाऽऽनायिता। प्राभातिकं सर्वं व्याकुलतासहिततया त्वरयैव समाप्य तदभ्यणे मया गतम् । यत्र च: परिवारजना सर्वे मिलिता आसन् । मध्य आसीन्मम प्रियदुहिता, श्वेतया शाटिकया: सज्जाऽलङ्काररहिता च । तस्यास्तामेतामवस्थां दृष्टवता मया मम माता सहसा स्मृता, या चः बालविधवाऽऽसीत् । आपादमस्तकं काऽपि चिन्ताविद्युन्मामकम्पयत् । तयाऽन्यैश्चा-: ऽहमभ्युत्थापितो। मया सा प्रेम्णा स्वोत्सङ्ग स्थापिता । पश्चाच्च प्रश्नपूर्णया दृष्ट्याऽहं तस्याः: प्रधानसखीं प्रियसुन्दरीं दृष्टवान् । तदा च साऽपि कथनं प्रारभत "ऋषभदत्त श्रेष्ठि-भद्रादेवी-वीरभद्रसदृशाश्च श्वशुर-श्वश्रू-पतयोऽतिभाग्यसम्भारलभ्याः ।: मम स्वामिन्यपि स्वजीवनं धन्यम्मन्या महताऽऽदरेणाऽऽनन्देन गुरूणामार्यपुत्रस्य च सेवायां: निरता कालं सुखेनैव यापयन्त्यासीत् । परं भाग्यसरसि कदाचिद्वारिपूरमागच्छति, कदाचिच्च: निर्जला शुष्कताऽपि तत्र परिजृम्भन् दृश्यते । स्वस्य सुखं कदाचिद्वा स्वप्नमेव भविष्यति इति: कोऽपि न जानाति खलु ।" अन्तरैव प्रियदर्शना सर्वान् रोदयन्ती रोदनमारब्धवती । स्वजनानां: गभीरतोत्सुकता च वर्धमाना आसीत् । किञ्चित्कालानन्तरं कथञ्चिद्वा धैर्यं निधाय रुदती: त्रुटत्स्वरा प्रियसुन्दरी अवदत्- "मम स्वामिन्या जीवनेऽपि किञ्चिदेतादृगेवाऽघटितं घटितम् ।। अकस्मात्कारणादतर्किततयाऽज्ञाततया च स भवतो जामाता एनामेकाकिनी परित्यज्य: कमप्यकथयित्वा कुत्रचिद्वा गतोऽस्ति । अस्माभिः सर्वैस्तडिदाघात एव प्राप्त इव । तदा च: पुत्रस्याऽतर्कितगमनेन कुलीनाया वल्लभायाः स्नुषायाश्चैकाकितादुःखेन दुःखिताभ्यां मातापितृभ्यां षण्मासान्यावत्तस्य गवेषणा कृता । परमद्य यावत्तस्य शुद्धिः प्राप्ता नाऽस्ति । तदा च पति: : विना श्वशुरकुले वासो न शोभायै -इति विचार्य स्वामिनी भवतां गृहमागताऽस्ति" इति । : .. . परभात .. . . . . . . . . . . . . . . . . . ................. ८३ Page #97 -------------------------------------------------------------------------- ________________ तस्याः कथनं सम्पूर्णमासीदस्माकं चोपस्थितानां समेषां नेत्राण्यश्रुपूरेण पूर्णान्यासन् प्रियदर्शना मम वक्षसि स्वमुखं हस्तयोर्विधाय रुदत्येवाऽऽसीत् । अहं रुदितवांस्तां च रुदतीं नैवाऽवरुद्धवान् । कानिचित् क्षणानि व्यतीतानि । मया प्रियपुत्र्याः शिरसि स्वहस्तः प्रेम्णा प्रसारितः । पश्चाच्चाऽवदं " यदा कोऽपि स्वधार्मिकता - नैतिकता- कुलीनतादिषु विषयेष्वाक्षेपं कुर्यात्तदा यानि मोचयितुमर्हाणि तान्यश्रूण्येतावत्यां क्षुद्रविपत्तौ मुञ्चती भवती श्राविकाया अश्रूणामुपरि कलङ्कं मा निधा वत्से !" इत्युक्त्वा स्वोत्तरीयेण तस्या अश्रूणि मार्जितवान् । तस्याश्च मुखं दृष्ट्वा - "वत्से ! त्वं तु जिनधर्मकोविदाऽसि । कर्मग्रन्थकुशलाऽसि । सतीजनचरित्राणि बहुधा श्रुतपूर्विण्यसि । अद्य परं तेषां समेषां परीक्षाकालः । यद्येवं धैर्यच्युति करिष्यसि तदा सर्वज्ञशास्त्रे नीलिमा लगिष्यति वत्से !" ममाऽपि तैस्तैर्वचनैः सा स्वस्था धीरा च सञ्जाता । मया सहसा स्मृतं, तस्यै च कथितम् " अन्यच्च पुत्रि ! एषु दिनेष्वस्माकं वसतौ " सुव्रता " गणिनी महता परिकरेण समवसृताऽस्ति । वत्से ! त्वमपि तस्याः सेवायां धर्माचरणे चाऽहर्निशं निरता तिष्ठ | धर्मस्य प्रभावेणैव भवत्या आपत्तिर्निर्मूलाऽवश्यं भविष्यत्येव" । सा शान्तोपशान्ता सर्वदुःखं विस्मृत्य धर्माचरणे मग्ना तिष्ठति । भगवंस्तस्या अत्राऽऽगतायाः षण्मासा अद्य समाप्ताः । मया बहुधा शुद्धिः कारिता । परं काऽपि मम जामातुः प्रवृत्तिर्नैवोपलब्धवानस्म्यहम् । अन्यच्च भगवन् ! तेन सागरदत्तेन वामनमङ्गुल्या निर्दिशता' कथितं - "एषो वामनो मम जामातुः कथां जानाति परं स स्पष्टं न वदति- मयाऽस्य ग्रहणाय मम पुत्रो धनदो नियुक्तः परं तच्छक्यमेव नाऽभूत् कदाचिदपि ।" पश्चात् क्षणं मौनं स्थित्वा पश्चाच्च सागरदत्तेन पुनः कथितं "भगवन्तः ! अनन्यशरण्यस्य तर्हि मे भवानेव शरणमस्तु मम दुःखं शान्तयतु, कृपया जामातुः प्रवृत्तिं सत्यां कथयित्वा । " " पर्षत्सर्वाऽपि स्तब्धाऽऽसीत् । सर्वेषां दृष्टिः प्रश्नकरम्बिता कदाचिद्वामने कदाचिच्च . कुम्भगणधरे निपतति स्म । तदा च भगवानपि कुम्भगणी हसन्मुखं वामनं दृष्टिक्षेपेण • पवित्रयित्वा स्वकथनमारभत । " श्रेष्ठिन् ! स भवतो जामाता न सामान्यः, अपि त्वसामान्यशक्तिशाली । यत्र च शक्तिर्विद्यते तत्र महत्वाकाङ्क्षाः सहसोद्गच्छन्त्येव । सागर !: भवतो जामातुर्विषयेऽप्येवमेव किञ्चिद्धटितम् । तस्यां रात्रौ तव जामाता वीरभद्रः शय्योपरि सुप्तोऽप्यन्निद्र आसीत् । काचिन्महती विचारविद्युत् तस्य निद्रामवरुन्धानाऽऽसीत् । स विचारयति स्म “अहं कलानां पारगामी । बहुमन्त्रतन्त्रविद्यागुटिकादयो मम सिद्धाः । सर्वविधेषु विज्ञानेषु • पारगाम्यहम् । सर्वप्रकारेष्विन्द्रजालेषु मम मेधाऽद्वितीया । कर्ममात्रेऽहं समर्थतरः । परं ते सर्वे विद्यामन्त्रगुटिकाः, कलाविज्ञानं, कर्मकोविदता, इन्द्रजालं वा निरर्थकान्येव । यतस्तेभ्यो मम न कोऽपि लाभः । अपि चाऽहं तेषामुपयोगेन जनान् रञ्जयितुमपि न शक्नोमि । अत्र किन्तु • 1 ८४ Page #98 -------------------------------------------------------------------------- ________________ ............ . .. . . ... .. . .. .......... : तेषां प्रकाशनमेवाऽशक्यतमम् । यतोऽत्र तु गुरूणां लज्जैव मेऽर्गलायते । ततः किमे-: तान्यप्रकाशितान्येवाऽस्तं प्रयास्यन्ति ? किमेभिर्जनानां विस्मयमात्रमपि कर्तुमहं नैव: पारयिष्यामि ? किमेतेषां कृते व्यूढो महान् परिश्रमोऽफलितमेव विनक्ष्यति ? अरे ! कीदृग्बन्धने पतितोऽस्मि ? तस्य मुखमुदासीनतामाघ्राति स्म । स शयनादुत्थाय यावता: गवाक्षाद् बहिः पश्यति तावता तत्र दृश्यन्ते केचिद् यात्रिजनसवाः परदेशादागच्छन्तः ।: तस्याऽक्षिणी चमत्कृते स्थातः - "आ ! ज्ञातम्, यदाऽहं विदेशेषु सञ्चरन्नेव मम कौशलं: प्रख्यापयिष्यामि तदैव ममाऽपि परिश्रमः सफलो भविष्यति, परमा च संतुष्टिर्भविष्यति । अन्यच्च किमिदमपि जीवनमुच्यते ? किं कूपमण्डूकवदेतावत्येव ममाऽपि पृथिवी भविष्यति ?: न - नैव, कदाऽपि न । अहमपि स्वेन बलेन स्वप्रतिभया च भुवने स्वनाम प्रख्यापयिष्यामि।: एको वणिक्पुत्रोऽपि किं कर्तुं शक्नोति, तदद्य जगति प्रत्यक्षं कारयिष्यामि"-इति विचार्य सः उपशय्यमागच्छति । स्वभार्याया मुखं प्रपश्यन् विचारयति स्म च- "एषा यदि कृतकसुप्ताः स्यात्तदा मम गमनार्गला भविष्यति" । अतः स शनैरङ्गमापीड्य तामुत्थापयति स्म । ततः: साऽपि नेत्रे आमृशन्ती वक्ति - "प्रिय ! मम भृशं शिरोऽदति, किमर्थमेवं कदर्थयसि ?" -: "प्रिये ! मयि स्थिते भर्तरि किंनिमित्ता तवेयं शिरो वेदना ?" "प्रियतम ! तव दोषेणैव ।" "मम ? कीदृशेन ?" "आर्यपुत्र ! क्षाम्यतु माम् । अहं त्वां नाऽवगच्छामि, यदि वा भवताऽहं नाऽवगता: इत्येव ज्ञातुं न पारयामि ।" सा तन्मुखं पश्यन्ती "प्रिय ! स एष आवयोश्चिरमिलनकालः। एतस्मिश्च काले नवदम्पत्योर्मनसि कियती वाऽऽशा भवेत् ? सर्वस्य संसारस्य सुखमात्रं ते. एकस्यां यामिन्यां प्राप्तुमीहेतेतराम् । अन्योन्यं प्रेमपाशे निबिडतया युज्यतेतराम् ।। स्वान्ययोभिन्नमस्तित्वमपि सर्वथा विस्मृत्य कस्मिंश्चित्प्रेममयेऽपूर्वोल्लासमयेऽननुभूतपूर्विणि च: सुखसागरे सर्वथा विलीयेतेतराम्"। तस्याः शरीरं प्रस्वेदाकीर्णमासीत् । ओष्ठौ च: दुःखमिश्रितेनाऽसन्तुष्टेनाऽऽवेगेन स्फुरन्तावास्ताम् । “प्रियतम ! एतत्सर्वं जानतोऽपि भवतः एतादृशी वैदग्ध्योक्तिः कथमपि शोभते ?" आवेगोऽसन्तोषश्चोद्वेगतायाः स्वरूपमभजत् ।। पश्चाच्च सोऽप्युद्वेगोऽसहायकतायामुदासीनतायां च निलीनोऽभवत् । “एकस्य कस्य-: चित्प्रेमपूर्णस्याऽऽर्यपुत्रस्य स्थाने मया कोऽपि रूक्षविदग्धो विद्वन्मात्र एव सहचरत्वेन: प्राप्तस्तदा जीवनमेव सकलं तेन सह कथं वा यापयिष्यामि ? ... आर्यपुत्र ! एतद्विचार एवः रभसान्मम शिरोऽर्दयति ।" 'मया जीवनसखी काऽपि रसिका प्राप्ताऽतस्तस्य सन्तोषः । परमेतामपि त्यक्तु-: . . . . . . ८५ Page #99 -------------------------------------------------------------------------- ________________ C.................................................. : कामोऽहमिति मनस: कोणे कोऽपि विषादः' इति विचार्य स हसित्वाऽवदत् - "अहोऽहो !: देवि ! सेवकस्यैनमपराधं क्षाम्यतु । सर्वथा मेऽपराधोऽस्तितराम् । कालोचितं मया विस्मृतम्।: : कलाकोविदोऽप्यहं कालकोविदो नाऽभूवम् ।" पश्चाच्च तेन वक्रोक्त्या कथितं - "देवि ! मे: मा कुप्यः । अतः परमेवं नैव करिष्यामि" - इत्युक्त्वा तेन तया सह सुचिरं सोल्लासं विभिन्नया: : भङ्ग्या महता संरम्भेण सानन्दं क्रीडितम् । पश्चाच्च द्वावपि रतिश्रान्तौ । तां च वास्तवसुप्तां: : विज्ञायाऽथ कृतकसुप्तो वीरभद्रो निर्गच्छति स्म स्वगृहादेकको विद्यासहायः । नगराद् बहिरागत्य: : स्ववर्णं विद्यया श्यामं करोति स्म । कला-कौशल-विज्ञानानि दर्शयंश्च ग्रामाकरपुरादिषुः भ्राम्यति स्म महतोल्लासेन स्वकलाख्यापनया जीवनं सार्थकं मन्यमानः । ___इतश्च प्रातरुत्थिता साऽपि प्रियदर्शना स्वार्यपुत्रमपश्यन्ती श्वशुरौ कथयति स्म । तावपि: गवेषणां कुरुतः कारयतः स्म चाऽपि । परं यदा षण्मासैः कोऽप्युदन्तो नैवाऽप्राप्यत तदा तौ: आपृच्छय प्रियदर्शना भवगृहमायाता । . . . .। "महाशया, एतत्प्रवहणं कुत्र गच्छदस्ति ?" कश्चित्पान्थः कस्मैचित् सुवेषाय: समुद्रयात्रिणे पृच्छति स्म । सोऽपि यात्री प्रष्टुर्मुखं पश्यति स्म । विशाले विस्तृते आकर्णमायते : नेत्रे, उदारं ललाटं, दीर्घा नासिका, कम्बुस्पर्धी कण्ठः, वेशभूषा किन्तु सामान्या-एतादृश्याकृतिस्तां: विसंवदमानाऽऽसीत् । “अनयाऽऽकृत्या कोऽपि महासत्त्व एवैष इति भाति" इति विचार्य: सिंहलद्वीपाय बोहित्थमापूर्य गच्छन् पद्मदत्तनामा श्रेष्ठी वदति स्म- "महाशय ! एतत्तु बोहित्थं. सिंहलद्वीपं गच्छति । किं भवतोऽपि गमनेच्छा ?" "आम् महाशय !" "तर्हि कुत्रत्यो भवान् ? किंनामा वा ?" "अहं रामपुरनिवासी कार्पटिकः, एवमेव देशदिदृक्षया निर्गतोऽस्मि वीरभद्रनामा ।": सोऽपि तदा तस्य हादिकं भावं विज्ञाय, तं गमनायाऽनुजानाति स्म । प्रवहणं प्रवहति: स्म । सप्तभिर्दिवसैः सिंहलद्वीपं प्राप्तम् । वीरभद्रः पद्मदत्तं विज्ञाप्याऽभिवन्द्य च तत्कालाऽऽगतेन: सार्थेन सह रत्नपुरं प्रति प्रस्थितः । रत्नपुरं विख्यातं नगरमासीत् । तस्य राजाऽपि शौण्डीरः : दयालुश्चऽऽसीत् । रत्नपुरं प्राप्य सर्वे सार्थजनाः सार्थेशमभिवन्द्य स्व-स्वकार्याय गच्छन्ति स्म । एकको: वीरभद्र एव तत्र तत्परिकरे तिष्ठति स्म । रत्नपुरे आपणपङ्क्तौ यदा वाणिज्याय सार्थेशः प्रविशति: स्म तदा वीरभद्रोऽपि तत्रैव तेन सह याति स्म । तौ कस्यचिदापणस्य पुरतो यातौ । तस्य स्वामी : ................................................. . . . . . . . ८६ Page #100 -------------------------------------------------------------------------- ________________ ....... ...........................................? शङ्खनामा श्रेष्ठी आसीत् । स स्वस्याऽऽपणे स्वासन उपविष्ट आसीत् । तदा तस्य दृष्टिर्वीरभद्रोपरि: पतिता - "आकृत्या त्वेष महासत्त्वो भासते । परमेवमन्यकिङ्करता किमर्थमिति तमाकार्यैव: पृच्छामि" - इति विचार्य स सेवकद्वारा तमाकार्य पुत्रवत्प्रेम्णाऽऽलप्य च पृच्छति स्म-: "वत्स ! कुत्रत्यस्त्वम् ? किं नामा च ?" तस्य प्रेम्णाऽऽदरेण च रञ्जितमनस्को वीरभद्रः-: "इदं गृहं मे सुन्दरमाश्रयस्थानं भवितुमर्हति" इति विचार्य वदति- "तात ! मम नामाऽस्ति: वीरभद्रः । ताम्रलिप्तिवास्तव्योऽहं मातापित्रोराक्रोशेन क्रोधं प्राप्याऽत्राऽऽगतोऽस्मि" । तदा: "तात" इति सम्बोधनेन स्वं तस्य पितरं मन्यमानः शङ्खश्रेष्ठी वदति स्म "वत्स ! एतत्तु: त्वयाऽत्यन्तमनुचितमेव कृतम् । अपि च पितरौ यदि न कथयेतां तर्हि पुत्रान् को वाऽन्यो: शिक्षयिष्यति ?" .... "वत्स ! अलं चिन्तया खेदेन वा, त्वमत्रैव मे गृहे तिष्ठ, ममाऽपि पुत्रो: नास्ति । तर्हि भवान् स्वस्य मातापित्रोः क्षति नैवाऽनुभविष्यति ।" तस्य मुखे पितृप्रेम विलसति: स्म । वीरभद्रोऽपि पुत्रवत्तस्य पादयोनिपतति स्म । पञ्चदश दिनानि व्यतीतानि । स प्रचुर सम्माननं तत्र प्राप्नोति स्म । यतः शखश्रेष्ठी: बहधा कथयति स्म - "धनं सुलभं, तभोक्ता किन्त्वेतादृशो दुर्लभः ।" तत्राऽपि वीरभद्रः: संपूर्ण दिवसं ग्रामे उद्याने वाऽटन् कलाविज्ञानादिभिश्च जनान् रञ्जयन् मासमात्रेण कालेन तु: तावान्प्रियः सञ्जातो यद् “वीरभद्र आयाति" इति वार्ता यत्र यत्र रथ्यायामुद्याने वा प्रसरति स्म: तत्र तत्र महान् जनसमूह एव तस्य कौशलदर्शनाय निचितो भवति स्म । सोऽपि तानि सफलानि: मन्यमानो महत्सन्तोषं प्राप्नोति स्म । शङ्खश्रेष्ठिन आसीत् काचिद्दुहिता । साऽन्यदा: कृतषोडशशृङ्गारा सङ्गीतवाद्यानि कुत्राऽपि नयन्त्यासीत् । वीरभद्रस्तां पृष्टवान् "स्वसः ! त्वं कुत्र वा गच्छसि ?" "भ्रात: ! रत्नाकरराज्ञोऽनङ्गसुन्दरीनाम्नी दुहिताऽस्ति । कलानां निधिः, लावण्यपाथोधिः, सत्यमेवाऽनङ्गसुन्दरी सा; परं प्रत्येकमपि शुभे वस्तुनि ब्रह्मणा कोऽप्यरुचिकरोऽशोऽवश्य: निहित एवाऽस्ति । प्रथमयौवनस्थाऽपि सर्वसामग्रयां साऽस्ति पराङ्मुखी" इत्युक्त्वा सा: उच्चैनिस्श्वसत। "भगिनि ! किं कारणमत्र ?" "भ्रातः ! किमपि न । केवलं कदाऽपि कुतश्चिन्निमितात् सा स्वस्य पूर्वभवान् : जानाति । अतोऽकस्मात् पुरुषद्वेषिणी सञ्जाताऽस्ति । अतिनिर्बन्धेन पृष्टे एव सा वदति -: "पुरुषाः सर्वथा नीचाः । ते नारी रक्षितुं प्रेम्णाऽऽलपितुमपि वा नैव जानन्ति'' - इति ।: "भ्रातः ! न तस्य सौधे कस्याऽपि पुंसः प्रवेशमात्रमपि सम्मतम् । यदि पुरुषः कोऽपि: : तत्रोपलभ्येत तर्हि तेनाऽवश्यं मरणीयमेव" इति । . . . . . . . . . . . . . . . . . .। Page #101 -------------------------------------------------------------------------- ________________ ........... . . "स्वस: ! अहमपि तत्राऽऽगच्छेयं वा ?""" "भ्रातः ! मैवं वद । सा कस्याऽपि पुंसश्छायामपि नैव सहते ।" "भगिनि ! चिन्ता माऽस्तु । अहं स्त्रीवेशं कृत्वैवाऽऽयास्यामि खलु ।' "ओह् ! ज्ञातं मया, नाऽस्ति किञ्चिदसाध्यं मम भ्रातुः ।" ते द्वे अपि तत्राऽगच्छताम् । यदा प्रासादे प्राविशतां तदा दृष्टा लावण्यसुभगाऽनङ्गसुन्दरी: कामपि विरहार्ती हंसी पटे लिखन्ती । वीरभद्रः क्षणार्धं क्षुब्धोऽभवत् तामतिरतिरूपां प्रवीक्ष्य ।। पश्चात्स सुस्थतां प्राप्य प्रोवाच "राजकुमारि ! विजयतु ।" साऽप्येनां नूतनां निरीक्षते स्म । तदा सा विनयवतीं प्रति: : वीक्ष्य - "का एषा ?" इत्यपृच्छत् । "मद्भगिनी।" "किनाम्नी ?" वीरभद्र एव झटिति वदति स्म-"आर्येऽहं वीरमती नाम्ना । भवतीं च किञ्चिद् विज्ञपयितुमिच्छामि" इति । "निःसङ्कोचं वदतु भवती" । "आर्ये ! यैषा हंसी पटे प्रविरच्यते भवत्या, सा न समीचीना । अर्पयतु मह्यमहमचिरात् : स्पष्टां सुवर्णां च करिष्ये"-इत्युक्त्वा वीरभद्रस्तदालिखितवान् । "अहो ! कीदृशे वियोगार्ने नेत्रे ! अश्रुस्निग्धे कपोले ! आतुरताख्यापनकमेतत्कान्दिशी-: : कत्वम् । आः ! मन्येऽधुनैवाऽस्माच्चित्रपटात्सा हंसी बहिरागमिष्यतीति प्रतिभाति मे" इत्यवदत् : साऽनङ्गसुन्दरी । पश्चाच्च विनयवत्या मुखं प्रलोक्य "सखि ! इयन्तं कालं वैनां कलापारङ्गतां किमर्थं नाऽऽनीतवती?" तदा वीरभद्र एव: । मध्येऽवदत् - "गुरुवराणां शङ्का न स्यादित्यत एव" । पश्चादपि गोष्ठिरन्यान्यविषया प्रचलिता।: द्वे घटिके वारिप्रवाहवदतीते । तावता वीरमत्याऽपि साऽनङ्गसुन्दरी स्वोपरि मुग्धा हृतहृदया च: कृता सर्वथा यथा गमनसमये सा विनयवतीं सोपालम्भमवदत् “सखि ! इतः परं वैनां: : त्वत्स्वसारमवश्यमविस्मृत्यैवाऽऽनयेः ।" : वीरभद्रो गृहमागत्य वधूवेशं त्यक्त्वा त्वरयाऽऽपणं प्रविशति स्म । तदा शङ्खोऽवदत् : : "अरे पुत्र ! कुत्र गत आसीत् ? पश्यैते तव प्रतीक्षां कुर्वन्तो नगरजनास्तिष्ठन्ति ।" "तात ! एवमेवोद्यानदिदृक्षया निर्गत आसम् ।" ८८ Page #102 -------------------------------------------------------------------------- ________________ . . . . . . . . . . "बहु सुन्दरं पुत्र !" । एकतो वीरभद्रस्याऽन्यतश्च राजकुमार्यास्त्रियामा महता कष्टेन व्यतीता । द्वितीयदिवसे: वीरभद्र एकक एवाऽगच्छत्तत्र । यावद् लावण्यपूताऽनङ्गसुन्दरी वीणां वादयन्त्यासीत् । तावत् । स शृण्वन्नेवाऽस्थात् । __ "सखि ! नैषा ते वीणा सुस्वरा यतोऽत्र मनुष्यवालः प्रविष्टोऽस्ति" इत्युक्त्वा: विस्फारिताक्ष्यास्तस्याः पुरत एव सा वीरमती तं वालं निष्कासितवती पुनरपि तां सज्जयित्वा: वादयंश्च समधुरान्मनोहरांश्च रागानुत्पादयति स्म । सर्वेऽप्युपस्थिता रागश्रवणे तल्लीनाः स्तब्धाश्च : जाताः । अनङ्गसुन्दरी विचारयति स्म-"यद्येषा पुरुषः स्यात्तदाऽद्यैवैनामालिङ्गय परिणयेयम् ।": दिवसानि व्यतीतानि । स तामन्या अपि कला दर्शयन्कृमिरागवत्स्वस्मिन्निबिडरागवती: कृतवान् । यथा विचारयति स्म सा यत् "अनया विनाऽहं क्षणमपि जीवितुं न पारयिष्यामि": इति। तद्दिने स वीरभद्रो गृहमागत्य शङ्ख श्रेष्ठिने रहसि सर्वां वास्तविकतां कथयित्वाऽवदत् : - "तात ! यदि राजा त्वां स्वपुत्रीपरिणयनाय निमन्त्रयेत् तदाऽऽदौ नाऽनुमन्तव्यम् । पश्चाद्बह्वाग्रहे: सत्यनुमन्तव्यं भवता" इति । इतः सभायामपि रत्नाकरराजस्याऽग्रे सा वार्ता प्रसृता यत् "कोऽपि विदेशीयः शङ्खश्रेष्ठिगृहे: तिष्ठति । आकृत्या महाकुलोत्पन्नो महाशयो महासत्त्वश्च भाति । कलया सर्वमपि नगरं हृतहृदयं: तेन कृतमस्ति । तस्य नैके गुणा श्रूयन्तेऽत्र जनेषु ।" तदा महाराजोऽपि चिन्तयति स्म-: "कदाचिद्वा मे दुहितुर्वरो स एव योग्यो भवेदपि" ! इति अथाऽन्यदा विजने वीरभद्रोऽपि तां पृच्छति स्म "सखि ! सत्यामपि सकलसामग्यां: नवयौवनोगमे कथं भवती भोगविमुखैवम् ?" तदा साऽकथयत् "भद्रे ! यावता स्वानुरूपं पतिं न लभेय तावता कथं परिणयेयम् ।": सोऽकथयत् - "अथाऽधुनैव तेऽहं दर्शयामि तर्हि ?" "तर्हि दर्शयतु" - इत्यवदत् सा हसित्वा । तदा वीरभद्रेणाऽपि स्वरूपं तत्पुरतः : प्रत्यक्षीकृतम् । अथ वीरभद्रोऽवदत् - "प्रिये ! यदि परिणयनमतिरसि तर्हि कथय ते पितरौ । यत्तौ: शङ्खश्रेष्ठिने कथयेताम्" । "आम् ! अधुनैव तत्करोमि " इत्युक्तवती सा । "भद्र ! एतदावयोरपरिणीतयोरन्तिममेव मिलनम् । अथाऽहं नाऽऽगमिष्याम्यत्र । आवां: . . . . . . . . . . . . . . . . Page #103 -------------------------------------------------------------------------- ________________ त.................................................. .................... : मिलिष्यामो मधुयामिन्यामेव।" इत्युक्त्वा तस्या मुखमेव निरीक्षमाणो निर्गच्छति स्म । साऽपि: : द्वारि तिष्ठन्ती यावदृष्टि तं दृष्टवती । पश्चात्सत्वरं गृहमागत्य स्वमातुः सर्वमवितथं कथितवती ।। वदति स्म च "यदि न मे स भर्ता तदाऽग्निरेव मम पति" इति । साऽपि तन्माता महाराजायः कथयति स्म -राजाऽपि विचारयति “प्रियमेव वैद्यैन सूचितमिदम् । विधे ! शतं धन्यवादा: भवते-" इति विचार्य - "प्रिये ! एवमेव भविष्यति" इत्युक्त्वा सत्वरं सम्प्रेष्य शङ्खमामन्त्रयति: स्म । शङ्खश्चाऽऽगतो राज्ञा स्वपुत्र्या वीरभद्रेण सह विवाहार्थं प्रार्थितः । 'समानानामेव: सम्बन्धः' इति कृत्वा सोऽनङ्गीकारमदर्शयत् । तदा राज्ञा सनिर्बन्धमाज्ञापितः स सज्जीभूतः ।। ततः पञ्चदशदिनाभ्यन्तर एव विवाहो निश्चितोऽभवत् । विवाहोत्सवे सकलं पुरं मग्नमानन्दसागरे । महति विस्तीर्णे मण्डपके तयोविवाह:: : संवृत्तः। प्रवृत्तानि तारामेलकादीनि । हर्षिताः सर्वे आगताः शङ्खश्रेष्ठिहर्म्य । प्रवृत्ता : गृहोचितकल्पाः । विजृम्भिता रात्रिः । व्यतीता द्वयोरपि सा परस्परं विश्रब्धयोः । __ अन्यान्यपि कानिचन दिनान्येवं व्यतीतानि । वीरभद्रेण च सा जिनधर्मरता कृता ।: अन्यान्येषु पटेषु देवं गुरुमर्हत्प्रतिमादींश्चतुर्विधमपि च सङ्घ विलिख्य तां परिचायितवान् सः । अथाऽन्यदा स्वदेशगमनाय स राजानमापृष्टवान् । तदा रुदन्सोऽप्यनुमतिं ददाति स्म।: वीरभद्रः सर्वं सन्नाह्य विनयवतीं द्रष्टुं गच्छति स्म । सा तु रुदत्येवाऽऽलिङ्गति स्म तम् । तदा: सोऽपि ललाटे तां चुम्बित्वाऽनुशास्य चाऽगच्छत् समुद्रकूले । प्रवहणारूढः स स्वपत्न्या सह गतवान् । ___ रत्नपुरं सर्वं तद्दिने रिक्तीभूय वेलाकुलमागतवदासीत् । नृप-शङ्ख श्रेष्ठि-श्रेष्ठिनी-: विनयवत्यादयश्च सर्वेषामग्रे स्थिता आसन् । वीरभद्रः सपत्नीको गृहीत्वा गुरूणामाशीर्वाद,: प्रेम्णा सम्भाष्य विनयवत्यादिकैः, अभिवाद्य च सकलं नगरं पोतमध्ये प्रविष्टः । पोता:: प्रवाहस्पर्धया समुद्रे प्रवहन्ति स्म । वीरभद्रः सपरिवारो हस्तं चालयन्सर्वेषां राजादिकनगरजनानाम-: भिवादान्गृह्णनने प्रस्थितः । अद्य यात्रायास्तृतीयो दिवस आसीत् । वीरभद्रः प्रातरुत्थाय क्षितिजं पश्यन्कस्मिंश्चिद्: बहिःस्थित आसन उपविष्टे आसीत् । तस्य मुखं दृष्ट्वा भाति स्म यदद्य स कस्याञ्चिद्ः विचारधारायां गभीरं निमग्न आसीत्- "यदा मासद्वयपूर्वमत्र रत्नपुरेऽहमागतवानासं तदा मे का: स्थितिरासीत् ? सर्वथाऽनाथवदनाश्रय आसमहम् । तातकल्पेन श्रेष्ठिना मह्यमाश्रयो दत्तः ।: भद्रादेवी तु मातरमेव विस्मारितवती । सा च प्रेममयी विनयवती मम स्वसुरपि समाधिकाऽऽसीत्": - इति । अकस्मात् तस्य मुखे उद्वेगरेखाऽङ्किता । . . . . . . . . . . . . . . . . . . . . ९० Page #104 -------------------------------------------------------------------------- ________________ . . . . . . . . . . ................................................ "कृतकोऽपि यः सम्बन्धो बद्धस्तस्य वियोगोऽपि कियान्दुस्सहो भवति । यदि वाऽहं: महान्कृतघ्नः । मयोपकारिणः श्रेष्ठिनः प्रत्युपकृतं न । तां विनयवतीमपि सन्तुष्टां नैवाऽकरवम् ।। किञ्चिदिव न्यूनं कृत्वैवाऽऽगतोऽहं" इति विचार्य तस्योद्वेगो वर्धते स्म ।। "तहि किमधुना यानानि निवर्तयानि ? पुनस्तत्र गच्छानि ? श्रेष्ठिनमानन्दयानि ?: विनयवतीं रुदती निवारयाणि ? यत्-स्वसः ! तव भ्राता त्वत्तोऽवियुक्त एव सर्वदा स्थास्यति?": इति । आवेगोद्रेकेण स आसनादुत्थितः क्षितिजं यदा सूर्यनारायणोऽवगाढस्तदा तस्य हृदयमपिः विवेकप्रकाशेन पूर्णं जातम् । "न, नैव । अहमस्मि पुरुषः । भावप्रधानता पुंसां न शोभते । यतः पुंसा कर्तव्यप्रधानेन: भवितव्यम् । अन्यच्च परमगुरवः कथयन्ति यत् - संयोगा अनित्याः । सर्वमनित्यं विनश्वरं: च। केवलं मनुष्यस्य कर्तव्यमेकमेव शश्वद् । अन्यत्तु सर्वमचिरकालभावि, नश्वरं गत्वर-: मशाश्वतं च ।" तस्यैतेऽन्तःस्थध्वनय आकाशं व्याप्नुवन्ति स्म । “सर्वमशश्वत्" "सर्वमित्वरं" इति: तस्य ध्वनेः प्रतिध्वनितं कुर्वदिवाऽऽकाशं मैघेराच्छादितमभवत् । उच्चैर्मेघा अगर्जन् ।। पञ्चषक्षणाभ्यन्तरे तु सा काऽपि विषमता वायुमण्डलेऽतर्किताऽभवद् ययाऽकस्मादेव महताः वातेन सह वृष्टिरारब्धा । जनाः सर्वे भीताः । वीरभद्रस्य तु मनसि सैव चिन्तनधाराऽविरतं. प्रचलति स्म - "सर्वमनित्यं सर्वमशश्वत्" । वृष्टेर्वेगो वर्धते स्म । तत्स्पर्धया च वायुरपि महता: रंहसा वाति स्म । कूपपटा यानानां संकीर्ण्यते स्म । स्तम्भा नीचैरवतार्यन्ते स्म । वायोस्तु वेगो: वर्धमान एवाऽऽस्ते स्म । यानपात्रमुच्चैः कम्पते स्म । अन्ततो निर्यामका विलक्षीभूयोच्चैरुद्घोषणं: कुर्वन्ति स्म यत् "जनाः सर्वे स्व-स्वाराध्यदेवं स्मरन्तु । यतो यानस्य सञ्चालनं: नाऽस्मदधीनमधुना । कस्मिन्नपि क्षणे तत् स्फुटितं भविष्यति ।" सर्वे उद्वेगपूर्णाः कान्दिशीका: अजायन्त । एतस्मिन्नवसरेऽनुद्विग्नो निष्प्रकम्पश्चाऽऽसीत् स वीरभद्र: "सर्वमित्वरं सर्वमशश्वत्": इति विचारयन् । अनङ्गसुन्दर्यादयस्तु शयनादुत्थापिता एव नाऽऽसन् । यावता जनाः स्वप्राभातिकं: समापयेयुस्तत्पूर्वं बोहित्थमेव प्राभातिकं समापयन्निवोच्चैः सशब्दं च स्फुटितमभवत् । क्षणकालं. कोलाहलः सर्वत्र प्रासरत् । अनेके जले निमग्ना जाता मृताश्च ।। इतश्चाऽनङ्गसुन्दरी कुतश्चन किञ्चित्पोतफलकं प्राप्य पञ्चभिरहोरात्रैः समुद्रमतिवादै-: कस्मिन्ननाकुले द्वीपप्रदेशे प्राप्ता । किञ्चित्कालानन्तरं शुद्धि प्राप्ता सा रोदनमेवाऽऽरब्धवती ।। क्षणात्स्वस्थीभूय सा स्मृतवती "आर्यपुत्रेण मम कथितमासीत् यत् - यदा कोऽपि न: सहायस्तदा पञ्चनमस्कारस्ते सहायो भविष्यति" । अद्य यद्यपि नाऽस्ति ममाऽर्यपुत्रो मम पार्वे: किं तावता? नमस्कारो मे शरणं भवतु" इति विचार्य शुद्धमनस्का नमस्कारं पठन्ती तिष्ठति: . . . . . . . . . . . . . . Page #105 -------------------------------------------------------------------------- ________________ ....................... : स्म । तावतैव महामन्त्रेणाऽऽकृष्ट इव कश्चित्तापसस्तं प्रदेशमागच्छति स्म । स्वभगिनीवच्च तया: : प्रेम्णाऽऽलप्य सत्कार्य चाऽऽनयति स्म स्वाश्रमे । आश्रमे कुलपतिस्तां स्वपुत्रीवन्मन्यते स्म । मासो व्यतीतः । अथ कदाचित्सः : कुलपति-विचारयति - "मम वत्साया रूपं बहु मनोहरं त्रिजगदाकर्षणं चाऽस्ति ।: यद्येषाऽत्रैवाऽऽश्रमे स्थास्यति तर्हि कदाऽपि तापसकुमारकाः स्वसमाधि विस्मरिष्यन्त्येव: : नियमात्" इति । अतः स स्वज्ञानस्योपयोगेन पश्यति यत् - "एतस्याः पद्मिनीखण्डपुर एव: : सर्वं शुभं भावि ।" : तद्दिन एव स तामाह्वयति स्म कथयति स्म च - "वत्से ! तव विनयेनाऽहं नितरां: सन्तुष्टोऽस्मि । अत एव त्वां कथयामि यदितोऽनतिदूरे एव पद्मिनीखण्डपुरमस्ति । तत्र बहवो: : धनवन्तः श्रद्धालवश्च वसन्ति । तव शरीरसुकुमारतायै स्थानमेतन्नोचितमतस्तत्रैव गच्छ, सुखेन: : च तिष्ठ ।" क्षणकालं मौनं प्रसृतम् । अनङ्गसुन्दरी विचारयति स्म - "अरे विधे ! अधुना: मम जीवने कीदृक्परावर्तनं भविष्यति ! अथवाऽलं चिन्तया, नमस्कार एव मे शरणम्" इति: विचाराकुलां तां दृष्ट्वा कुलपतिर्विहस्य वदति स्म - "पुत्रि ! विधिलिखितं परावर्तितुं नैव: : पारयन्त्यस्मादृशः । त्वं तत्रैव गच्छ, तत्रैव तव पत्युः समागमोऽप्यवश्यम्भविता । पुत्रि !: : धर्मस्त्वां रक्षिष्यति । निराकुला तिष्ठ ।" तदा अनङ्गसुन्दरी कुलपतेः पादयोः पतति स्म । : द्वयोस्तापसकुमारयोः साहाय्येन सा नगरबहि:प्रदेशे आगच्छति स्म । “भद्रे ! नगरमध्ये-: : ऽस्माकं प्रवेशो निषिद्धः । तव शुभं भवतु" इत्युक्त्वा तौ कुमारौ तां तत्रैव त्यक्त्वा न्यवर्तताम् ।। साऽपि तत्रैव सुस्थिता नमस्कारध्याननिरता वटवृक्षाध उपविशति स्म । एतस्मिंश्च काले सा सुव्रतागणिनी शरीरचिन्तया बहिरागच्छन्ती दृष्टवती । सा चिन्तयति. : स्म “याऽऽर्यपुत्रेण मम कथिताऽऽसीत्, सेवैषा सङ्घाङ्गीभूता "साध्वी" दृश्यते । सा सन्मुखं: : गच्छति स्म । तां नत्वा कथयति स्म च "आर्ये ! सिंहलद्वीपचैत्यानि मगिरा वन्दस्व" । तदा: गणिनी ज्ञातवती यदेषा सिंहलद्वीपवास्तव्या । "वत्से ! कथमेवमेकाकिनी दृश्यसे ? नैषाऽऽकृतिनिष्परिच्छदा भवेत् ?" । "आर्ये ! स्वस्थीभूय पश्चात्सर्वं कथयामि । अधुना तु मे आश्रयं कुत्राऽपि ददातुः कृपया।" सुव्रतागणिन्यपि आकृत्या भाषितैर्गुणगणैर्व्यवहारादिभिश्च तां महाकुलोत्पन्नां विभाव्य: स्वोपाश्रयमानयति स्म । तस्मिन्नेव काले प्रियदर्शनाऽपि तत्रोपस्थिताऽऽसीत् । साऽनङ्गसुन्दरी लाव्यण्यपीयूषकूपिकां सुविनीतां स्वाचारां च पश्यति स्म । स्वस्य गृहे साधर्मिकवात्सल्याय: नयति स्म च । bo....................................... ........ ९२ Page #106 -------------------------------------------------------------------------- ________________ ............................................... .. सर्वं प्राभातिकं समाप्य ते द्वे अपि प्रतिश्रये आगच्छतः स्म । अनङ्गसुन्दरी प्रियदर्शनाया: : उपस्थितावेव सुव्रतायै सर्वं स्ववृत्तान्तं कथयति स्म । प्रियदर्शनाऽपि तच्छ्रुत्वा "भगिनि ! स: ते प्रियो वर्णेन कीदृश आसीत् ?" "सखि ! कृष्णवर्णीय आसीत् ।" "अहो ! केवलं वर्णमेव विसंतदति, अन्यत्तु सर्वं मम भर्तुस्वैिव तवाऽपि प्रियस्य ।": सुव्रताऽपि गणिनी प्रियदर्शनायै कथयति"प्रियदर्शने ! एषा तवैव धर्मभगिनी । अतस्त्वमेवैतां प्रतिजागृहि ।" ते द्वे अपि तत्र तिष्ठेते - धर्माराधनरते । इतश्च- वीरभद्रोऽपि फलकमासाद्य समुद्रं तीर्खा यावता कूलं प्राप्तस्तावता: रतिवल्लभनामकेन विद्याधरेण दृष्टः । स तं वैताढ्यशिखरेऽनयत् । मदनमञ्जुकानाम्न्याः स्वपत्न्याः: पुत्रत्वेन समर्पितश्च । पश्चाच्च रहसि शान्ते स्थले त्रयोऽपि स्थिताः । वीरभद्रः स्वोदन्तं: कथयामास । पश्चाच्च सोऽवदत्- "तात ! त्वमसि मे सत्यं पिता । यदि त्वं नाऽभविष्यस्तदा। कस्मिन्प्रदेशेऽस्थास्यमहम् ?" "पुत्र ! मैवं वद । पुण्यवतां कुत्राऽपि विपत्तयश्चिरकालीन्यो नैव भवन्ति । परं वत्स !: हर्षस्थाने एवं शोकः कथम् ?" "तात ! मम प्राणप्रियाया अनङ्गसुन्दर्याः किं जातं स्यात् ? इति चिन्तैव मामर्दतितराम् ।": "तदा रतिवल्लभो विद्यामाभोगिनीं प्रयुङ्क्ते स्म । तया च तत्प्रियायाः सर्वमप्युदन्तं: : विज्ञाय तस्मै कथयति स्म । तदा "स्वप्रियाऽत्यन्तं समुचितं स्थान प्राप्तवती" एवं विचार्य: स विगतचिन्तः स्वस्थश्चाऽभवत् । अथ समुद्रमुत्तीर्य तेन स्वमुखाद् गुटिकाऽपसृता, येन स श्वेतवर्णोऽभवत् । इतश्च तेन: स्वनाम "बुद्धदास" इति कृतम् । तं च महासत्त्वं विज्ञाय रतिवल्लभेन वज्रवेगवतीनामस्वपल्यां: : जाता 'रत्नप्रभा'नाम्नी पुत्री परिणायिता । तया सह प्रवरान्भोगान्भुनक्ति स्म सः । अन्यदा गवाक्षस्थितेन तेन विद्याधरा कुत्राऽपि गच्छन्तो दृष्टाः । स पार्श्वस्थितां रत्नप्रभां: पृच्छति स्म-"प्रिये ! एते कुत्र गच्छन्ति ?" सा वक्ति स्म-"एतत्पर्वते शाश्वतार्हत्प्रतिमा वन्दितुं गच्छन्ति ।" तदा सोऽपि रत्नप्रभया सह तत्र गच्छति स्म । वन्दते च प्रतिमाः । करोति स्म: गीतनृत्यादीनि । कथयति स्म पश्चात् - "प्रिये ! मम कुलदेवस्तु बुद्धनामाऽस्ति । अयं तुः कश्चिदपूर्व एव" । . . . ९३ Page #107 -------------------------------------------------------------------------- ________________ . . . . . . . . .................................................. तदा रत्नप्रभा वदति स्म- "प्रियतम ! एष तु वीतरागस्तीर्थंकरो जिनदेवः । सर्वासामपि: देवतानां परमः श्रेष्ठः प्रथमश्च । अन्ये सर्वेऽपि समोहाः किन्त्वेष मोहातीतो वीतरागः सर्वज्ञः: सर्वसमर्थः शाश्वतानन्दे लीनश्च । प्रिय ! एष एवाऽऽराध्यो ध्येयो वा" । "तदा तस्या जिनधर्मैकतानतां दृष्ट्वा रञ्जितमनस्को वीरभद्रो न किमप्यवदत् । केवलं: मधुरेण हास्येन तदभिमुखं पश्यंस्तिष्ठति स्म । अथाऽन्यदा स तामकथयत्-"भद्रे ! चलत्वद्य: दक्षिणभरते क्रीडितुं गच्छावः" । द्वावपि विद्यया पद्मिनीखण्डपत्तने सुव्रतासाध्व्याः प्रतिश्रय-: बहिरागतौ । तत्र गत्वा "प्रिये ! क्षणकालं तिष्ठ । अहमाचम्याऽऽगच्छामि" - इत्युक्त्वा वीरभद्रः किञ्चिद्: दूरं गत्वा पुनः प्रत्यागतः । किन्तुं निलीय तद्रक्षणार्थं तत्रैव स्थितः । सा तं द्रष्टुं न पारयति: स्म । बहुकालं यावत् तं प्रतीक्ष्याऽन्ते सा उच्चस्तरां रोदनमारब्धवती- "प्रिय ! क्वाऽधुनाः गतोऽसि । मा मां पीडय । प्रत्यक्षो भव" इत्येतांस्तस्या रोदनशब्दान् श्रुत्वा सुव्रतागणिनी. करुणार्द्रा मध्यरात्रेऽपि प्रतिश्रयस्य द्वारमुद्घाटयति स्म । तां च सान्त्वयित्वा स्ववृत्तान्तं पृच्छति: स्म । साऽपि यथातथं कथयति स्म । तदा गणिन्युक्तवती __ "भद्रे ! नितरां श्रान्ताऽस्वस्था च दृश्यसे । आगच्छ, प्रतिश्रयान्तर्विरामं कुरु": इत्युक्त्वा च सुव्रतागणिनी तामन्तर्नयति स्म । तदा वीरभद्रोऽपि समुचिते स्थाने गतां तां विज्ञायः ततश्चलति स्म । स वामनस्य रूपं करोति स्म । तत्रैव च पद्मिनीखण्डपुरे भ्रमति स्म । जनान्: विस्मापयन्नुल्लासयंश्च । इतः प्रियदर्शनानङ्गसुन्दौँ रत्नप्रभामपृच्छतां यत् - 'भवत्या आर्यपुत्रः कीदृशः' ?: इति । साऽपि कथयति स्म । तदा प्रियदर्शना वदति स्म- "केवलं बुद्धदास इत्यभिधैव: विसंवदति मे भर्तुः।" अनङ्गसुन्दर्यपि - "बुद्धदास इत्यभिधा शुक्लश्च वर्णो विसंवादी" इति वदति स्म ।: तास्त्रयोऽपि शील-स्वाध्याय-सेवामग्नाः प्रतिश्रये सुखसुखं कालं यापयन्ति स्म । अन्तराऽन्तरा स वामनोऽपि ता दृष्ट्वा चित्तेऽत्यन्तमानन्दसन्दोहं प्राप्नोति स्म । विचारयति स्मः च- "मम पत्न्यो न केवलं लावण्यवत्यः, किंतु शीलसलिलसम्पूर्णा अपि !" इतश्च तासां त्रयाणामपि विशुद्धशीलपालनं नगरे सर्वत्र चर्चाया विषयो जात आसीत् ।। सा च वार्ता प्रसरन्ती राजकुले प्रविशति स्म । सर्वे सभासदः कथयन्ति स्म राज्ञे - "ताभिः ।। शीलसमाधिवतीभिः सम्भाषयितुमपि न क्षमः कोऽपि पुरुषः ।" राजा विस्मयगर्ने पतितः ।। तावतैव स वामनो विजृम्भते स्म राजसमक्षमुपस्थितो भूत्वा- "महाराज ! अहं शपथं गृह्णामि: यत्ता भाषयिष्यामि" इति । स मायावामनः कतिपयै राजपुरुषैः सह तत्र प्रतिश्रये आगच्छति: . ९४ Page #108 -------------------------------------------------------------------------- ________________ ..................................................। . . . . : स्म। तत्र द्वार्येव स सङ्केतितवान् सर्वानपि पुरुषान् यद् - 'अन्तर्गत्वा युष्माभिः: कथाकथनार्थमनुरोद्धव्योऽहम्' । पश्चादन्तः प्रविश्य सकला अपि गणिनीर्वन्दित्वा द्वारमण्डपः उपविष्टाः । तत्र च सर्वाभिरपि गणिनीभिः सह तास्तिस्रोऽपि कौतुकेन तद्दर्शनार्थमागतवत्यः।: तदा च पूर्वमेव कृतसङ्केतो राजपुरुषो वदति स्म - "अयि वामन ! कामपि कथां कथयतुः तावत् ।" स वदति स्म - "वृत्तं कथयानि कथां वा ?" तदा सङ्केतितो जनो वदति स्म "अरे ! को भेदस्तयोः ?" स वक्ति स्म - "महाशय ! महापुरुषाणां जीवनचरित्राणि कथेत्युच्यते, अनुभूतं चः वृत्तमिति कथ्यते ।" तदा सोऽपि वामनो वीरभद्रनामकस्य वृत्तमारभते स्म । तद् - प्रियदर्शनापरिणयनादारभ्य: तां च त्यक्त्वा स रात्रौ निर्गत इतिपर्यन्तमुक्त्वा 'अधुना मम राजसेवाकालो वर्ततेऽतो गच्छामि': इत्युक्त्वा स उत्थितः । तदा तमवरुध्य प्रियदर्शना सादरमपृच्छत् - "अयि ! कथयतु तावत्, : सोऽग्रे कुत्र गतः ?" इति । सोऽवदत् - "अहं तु परस्त्रिया सह कुलकलङ्कभयाद् नैव संभाषे" | साऽवदत् - "दाक्षिण्यमेव कुलीनस्य प्रथमं लक्षणम् । दाक्षिण्येन सम्भाषणं च न: कलङ्काय जायते" । सोऽवदत् - "कल्ये कथयिष्यामि" । पश्चाच्च राजसभायां गच्छति स्म । राजपुरुषा एव राज्ञे सर्वं यथातथं निवेदितवन्तः राजा च विस्मितो जातः । अथ द्वितीये दिवसे तथैवाऽऽगत्य स तत्रैवोपविशति स्म । सर्वाः प्रथममेव उपस्थिता: आसन् । तदा स "सिंहलद्वीपगमनादारभ्य यानपात्रं भग्नम्" - इत्येतावदन्तं कथयति स्म । पश्चादुत्थाय यावद् याति तावदनङ्गसुन्दर्यपि समुत्थाय तन्मार्गमवरुध्याऽवदत् "भद्र ! कथयतुः कृपया यदने किं जातमिति ।" __ स वक्ति स्म "अधुना गन्तव्यमस्ति, कल्ये कथयिष्यामि" । पुनरपि तृतीयदिवसे आगतः स कथामनुवर्तयति स्म - "रत्नप्रभां सुव्रतागणिनीप्रतिश्रये: मुक्त्वा गतः" इत्यन्तम् । तदा रत्नप्रभाऽपि वदति - "तदग्रे किं जातम् ?" सोऽपि वदति: - "पश्चात्कथयिष्यामि ।" एवं कृत्वा तिस्रोऽपि भाषयन्ति स्म । स वामनो नगरं भ्रमन्: नागरान्विस्मापयति स्म ।" इत्युक्त्वा कुम्भगणाधिपेन सागरदत्त उक्त:- "स एवैष वामनो यं ग्रहीतुं भवता स्वप्रथमपुत्रो धनदो नियुक्तः । स एवैष वामनो य समवसरणमागच्छतां भवतां: ........................ Page #109 -------------------------------------------------------------------------- ________________ ........................... . . . . . . . मार्गेऽतिष्ठत् । अन्ततश्च स एवैष वामनो यश्चाऽत्र समवसरणे त्वत्पश्चादुपविष्टोऽस्ति । श्रेष्ठिन् !: तं पश्यतु तावत्" इति । एतदन्तरे स वामन उत्थाय कुम्भगणिने नमस्कृत्य सर्वानुपस्थितान्पार्षदान्वि-: स्मयाक्तमनसः कुर्वन् वदति स्म - "यथा भगवता कथितं, सर्वं तथैवाऽस्ति ।" पश्चात्स. सागरदत्तश्रेष्ठिने नमस्यति। सर्वे स्व-स्वस्थाने गच्छन्ति स्म । किन्तु शतशो जनास्तं. वामनमनुसरन्तः सुव्रतागणिनीप्रतिश्रये गच्छन्ति स्म । तत्र गत्वा स सर्वप्रथमं वामनत्वकारिगुटिका: स्वमुखानिस्सारयति स्म येन स कृष्णवर्ण एव तादृशः स्वाभाविकाकृतिर्भवति स्म ।: यादृशोऽनङ्गसुन्दर्या दृष्टपूर्वः । पश्चात्स तामपि कृष्णवर्णकरां गुटिकामपनयति स्म येन पुनस्तादृशोः जातो यादृशो प्रियदर्शनया रत्नप्रभया च दृष्टः । तास्तिस्रोऽपि लज्जावनतमस्तकाः सुव्रतागणिन्या:: पृष्ठे निषीदन्ति स्म । सोऽपि वीरभद्रः सुव्रतागणिनो भक्तिभरं नमति स्म स्वकृतज्ञतां ख्यापयन् ।। अथ सुव्रतागणिनी वदति- "महाशया ! यत्र धर्मरतो गच्छति, तत्र स सुखमेव: प्राप्नोति । अत्र नाऽस्ति मनागपि सन्देहः । केवलमद्य वयमरनाथस्वामिने किञ्चित् प्रक्ष्यामो: यत्-शास्त्रेषु श्रूयन्ते - "भोगाः सत्पात्रदानानुभावात्" इति । तर्हि किमनेन वीरभद्रेण पूर्वभवेषु: कृतं येनाऽयं भोगसम्भारभाजनं जात: ? भविष्यति च किमस्य भविष्यति ? इति ।" : सर्वेऽपि चलन्ति स्म समवसरणे । सुव्रतागणिनीमुख्याः शतशो जनास्तत्र देवच्छन्दके: भगवन्तं प्रणम्य यथावसरं पृच्छन्ति स्म महाभागस्य महाभाग्यकारणम् । भगवानपि गभीर-: स्वरेणाऽवदत्- "इतस्तृतीये भवेऽहं प्राग्विदेहे राजाऽभवम् । तदा च राज्यं त्यक्त्वा दीक्षां. गृहीत्वा चतुर्मासोपवासान्ते पारणाय भ्रमनासम् । तदा वीरभद्रजीवेन श्रेष्ठिपुत्रेण जिनदासेन: भक्तिभरं महदुल्लासं मम पारणं कारितमासीत् । तेनैवैनां भोगसमृद्धिमयं प्राप्तवानस्ति । तत्र भवे: स जिनदासश्रेष्ठी तत्प्रभावेण मृत्वा ब्रह्मलोक उत्पन्नः । ततोऽपि च्युत्वाऽत्रैव जम्बूद्वीपस्यैरवते: काम्पिल्यपुरे महेभ्यो भूत्वा महाश्रावकत्वं पालयित्वा समाधिना कालं कृत्वा च द्वादशेऽच्युते. कल्पे जन्म प्राप्तवान् । तस्माच्च च्युतोऽयमिदानी वीरभद्रोऽभवत् । जिनदासभवे यद्बीजं: रोपितं तदधुना वटवृक्षोऽभवत् ।" "जनाः ! पुण्यानुबन्धिपुण्यस्यैतत्तु पुष्पमात्रम्, तस्याऽन्तिमो विपाकस्तु मोक्षसामग्री: मोक्षसाधनाभिमुखता च । भद्रा ! धर्म एव प्रधानपुरुषार्थः । तस्मिन्सत्येव सर्वेऽप्यन्ये: पुरुषकाराः स्वफलायाऽलम् । यथैतस्य वीरभद्रस्येति । ततो धर्मे नितरां निरतास्तिष्ठन्तु भद्राः।": .......... . . . . . . . Page #110 -------------------------------------------------------------------------- ________________ ... .............................. . . . . "अहो ! मम कियन्महत्पुण्यम् ! लोकोत्तरा भोगोपभोगसामग्री, तिस्त्रोऽपि मनोहरा: अनुवर्तिका विदग्धाश्च सहचर्यः, लोकेषु प्रकटा ख्यातिः !" "ततोऽप्युत्कृष्टतरं भाग्यं तदा विस्फुरितं यदा भगवता सहस्त्रश: कोटिशो वा जनानां: मध्ये मम नामोच्चरितम् ।" "मम संपूर्णेऽपि देशाटने स कालखण्ड: कदाऽपि विस्मृतिं न गमिष्यति, यदा यानपात्रे: क्षितिजं विलोकयन् स्थितो विचारितवानासम् - सर्वमित्वरमनित्यमशश्वच्च । तदा सहजोऽभूत-: पूर्वोऽपूर्वश्चाऽऽनन्दो मम चेतसः प्रत्येकं कोणे निबिडतया व्याप्त आसीत् । सर्वक्लेशचिन्ता-: दुःखेभ्यस्तदाऽहं वियुक्तोऽतीतश्चाऽभवम् । कीदृगाह्लादकारी स क्षण आसीत् ?" "परं किं तमानन्दं स्थिरीकर्तुं नेच्छामि ? किमेवं क्षणिकेऽसारे एव वस्तुनि ममः रुचिः? कियन्तं वा कालं बद्धस्तिष्ठेयम् ?" इति चिन्तयन्नासीद वीरभद्रः कदाचित् । तदैव पञ्चाशद्वर्षीयस्य वीरभद्रस्य नप्ता रुदंस्तत्राऽऽयाति स्म - "पितामह ! मे: क्रीडासौधं भग्नम् " इति आरटन् । वीरभद्रो विचारयति स्म - "जगत्सर्वं क्रीडासौधमिव । न तच्छाश्वतम्" इति विचार्य: दृढं सङ्कल्प्य तिस्रोऽपि पत्नी: शिक्षयित्वा ताभिः सार्धं वीरभद्रः कुम्भगणधरपार्श्वे दीक्षां: गृहीत्वा साधुर्भवति स्म । जीवनं भावनाभिर्भावयित्वा कालं कृत्वा स्वर्ग याति स्म । अचिराच्च: मोक्षं प्रयास्यति । | कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितात् । त्रिषष्टिशलाकापुरुषचरितात् सङ्कलितैषा कथा । . . . . . . . .... वदन्तु कतिचिद्धठात् खफछठेति वर्णाञ्छठा घटः पट इतीतरे पटु रटन्तु वाक्पाटवात् । वयं बकुलमञ्जरीगलदमन्दमाध्वीझरीधुरीणपदरीतिभिर्भणितिभिः प्रमोदामहे ॥ [सुभाषितरत्नभाण्डागारे] .. .. ९७ Page #111 -------------------------------------------------------------------------- ________________ Preseौर्भाग्यभुत सौभाग्यम् । Bा कथा मुनिविश्वचन्द्रविजयः (डेलावाला) बहुकालपूर्वम् आङ्ग्लदेशस्य स्कोटलेन्डमध्ये श्रीक्लार्कनामैकपरिवारो वसति स्म । दम्पती तथा नव बालका इत्येकादशानां परिवारः आसीत् । तेषामेकस्वप्न आसीद् यदस्माभिः अमेरिकादेशं पर्यटितुं गन्तव्यम् । परं कथं गमनीयं तत्तु चिन्तनीयमासीत् । यतः परिवारो बृहदासीत् किन्त्वर्थलाभोऽत्यल्प आसीत् । ततो महद्धनं तु रुग्णचिकित्सादावेव व्यापृतं भवति स्म । सर्वेऽपि स्वस्य स्वस्याऽर्थलाभाद् यावच्छक्यं धनमारक्षन्ति स्म । एकदा तेषां स्वर्णिमदिनोदयो जातः । उक्तप्रकारेणाऽर्थं सञ्चय्य सञ्चय्य अमेरिकागमनार्हो महदर्थसञ्चयो जातः । ___ श्रीक्लार्कपरिवारेण तु अमेरिकागमनार्थं 'पासपोर्ट' 'वीझा' इत्यादि सज्जीकृत्य प्रस्थानदिनोऽपि निश्चितः । अमेरिकाप्रयाणाय सप्तदिनानि शेषाण्यासन् । तदैव ह्येका दुर्घटना जाता । श्रीक्लार्कस्य लघुपुत्रः शुना दष्टः । तद्योग्यान्यौषधानि तज्ज्ञवैद्येन दत्तानि परं तत्कालीनराजनियमानुसारेण चतुर्दश सूच्यौषधानि यावन गृह्यन्ते तावद् गृहस्य बहिर्न निष्क्रम्येत । एतन्नियमानुसारेण श्रीक्लार्कपरिवारोपरि तडित्पातवद् हृदयकम्पोऽभूत् । अनेकवर्षाणामतिप्रयासेन स्वप्नं सत्यापयितुमवसरः सम्प्राप्त आसीत् । किन्तु तदवसरो वृथा जातः ।। तदा तु स्कोटलेन्डस्य तत्कालीनराजनियमोल्लङ्घनाय विचारयितुमप्यशक्यमासीत् । श्रीक्लार्केण तु भगवते स्वलघुपुत्राय च बहूपालम्भो दत्तः । अमेरिकागमनार्थं तस्य महदाकर्षणमासीत् । अतस्तेन गृहैककोणेऽश्रुपातोऽपि कृतः । स तु गृहे सर्वैः सह मौनेन स्थितः । 'इयमापत्तु लघुपुत्रेणैवोत्पादिता' इति तस्य मतिरासीत् । एतत्प्रसङ्गानन्तरं सप्तदिनानां पश्चादेको दुःखदारुणो वृत्तान्तोऽखिलजगति प्रसृतवान् । सर्वत्र हाहाकारो जातः । किन्तु श्रीमत्क्लार्कस्य परिवारेऽमन्दानन्दोऽभूत्, यतो यत्प्रवहणद्वारा श्रीक्लार्कपरिवारेण अमेरिकायात्रा करणीयाऽऽसीत् तत्प्रवहणमेव एटलान्टिकमहासागरे तत्रस्थमहाहिमशिलया सह सङ्घट्य त्रुटित्वा चाऽपारे जले निमग्नम् ।। यदि लघुपुत्रः शुना न दष्टोऽभविष्यत् तर्हि क्लार्कपरिवारोऽपि प्रवहणेन सहैव समुद्रतलमप्राप्स्यत् । ___ तत्प्रवहणमासीत् 'टाइटेनिक्' इति । अस्या आपत्ते रक्षणार्थं क्लार्केण भगवतो महानाभारो व्यक्तः कृतः, उपालम्भस्य क्षमाऽपि प्रार्थिता । श्वदष्टः पुत्रश्चोत्पाट्याऽऽलिङ्गितः । यज्जातं तच्छुभमेव जातमिति च सानन्दं चिन्तितम् । ★ ९८ Page #112 -------------------------------------------------------------------------- ________________ = कथा पुनर्नवा प्रा. अभिराजराजेन्द्रमिश्रः पञ्चानां सहोदराणां मध्ये कृष्णैकैव भगिनी सञ्जाता । जन्मक्रमेणाऽसौ चतुर्थी पर सन्ततिरासीत् पित्रोः । ज्येष्ठतमो भ्राता गार्हस्थ्यप्रबन्धे विपुलकृषिकर्मणि च संलग्न आसीत् । द्वितीयतृतीयौ भ्रातरौ क्रमेण स्थलसेनायां वायुसेनायाञ्चाऽधिकारिणावास्ताम् । चतुर्थो भ्राता कृष्णानन्तरोत्पन्नो विश्वविद्यालये स्नातकोत्तरकक्षायामधीयान आसीत् । पञ्चमश्चाऽपि सप्तदशवर्षदेशीयः सम्प्रति द्वादशकक्षायाश्छात्र आसीत् । मध्यमवर्गीयोऽयं क्षत्रियपरिवारो धर्माचरण-संस्कृतिकुलपरम्परानुपालनदृष्ट्या निखिलेऽपि क्षेत्रे मानगौरवधुरमधिरोहति स्म । कुटुम्बेऽस्मिन् परमेश्वरकृपयेदानीमपि पितामहीपितामहौ, मातापितरौ चाऽपि जीवन्त आसन् । इदानीमपि पितामही प्रायेण द्विनवतिवर्षदेशीया सूचिकाच्छिद्रे दोरकं सरलतया विन्यस्तुं प्रभवति स्म । पितामहोऽपि प्रायेण भार्यावस्थ एव, शौचादिकर्म सम्पादयितुं दविष्ठे नदीतटे एव गच्छति स्म । पितामहः स्वयौवने मल्लयुद्धकुशल आसीत् । ततश्च सम्प्रवृत्ते सति द्वितीयविश्वयुद्धे, केनचिद् ग्रामवासिना बालमित्रेण आङ्ग्लसेनाधिकारिणोपच्छन्दितः सन् सोऽपि बङ्गप्रदेशस्थं बैरकपुरसैन्यकेन्द्रमासाद्य सैन्यसेवामङ्गीचकार । युद्धभूमावसीमशौर्यप्रदर्शनार्थमुपलब्धान्यनेक-स्वर्णरजतपदकान्यद्याऽपि तच्छयनकक्षे स्थापितानि वर्तन्ते । एवंगुणविशिष्टस्य शौर्यविक्रमावतारस्य पितुः पुत्रोऽप्येकलो भवानीसिंहनामा सैन्यवृत्तिमेव वृतवान् । सोऽपि कर्नलपदात् सेवानिवृत्तः सन् साम्प्रतं पित्रोः सन्ततीनाञ्च मध्यस्थः ससुखं जीवनं नयति स्म । स्वक्षेत्रे परिवारस्याऽस्य महती प्रतिष्ठाऽऽसीत् । पितामहस्तु लोकैः बड़े राजाजीति, भवानीसिंहोऽपि छोटे राजाजीति भाषायामुच्येते स्म । एवमेव भ्रातरोऽपि पञ्च कुँवरपदवाच्या आसन् । राजनेतृभिर्बहुशः सम्प्रेरितोऽपि, मन्त्रिपददानाय दत्तवचनोऽपि कर्नलभवानीसिंहो राजनीतिपङ्के नाऽऽत्मानमवतारितवान् । तस्मादपि तत्प्रतिष्ठा 9गगनचुम्बिनी जाता । औषधालये, विद्यालये, कर्मशालायां, शासकीयकार्यालये, रक्षिस्थाने, सर्वत्राऽपि भवानीसिंहस्य तत्कुटुम्बिनाञ्च महान् समादर आसीत् । सर्ववैभवसम्पन्ने सत्यपि निरभिमानित्वमस्य परिवारस्य समेषां चर्चाविषय आसीत् । 605 SapMER Page #113 -------------------------------------------------------------------------- ________________ एतादृश एव ख्यातनाम्नि कुटुम्बे रूपसौन्दर्यशीलसमुदाचारसम्पन्ना सुरबालोपमविग्रहा कृष्णाऽपि सञ्जाता। पितामह्योपलालिता, जनन्या प्रशिक्षिता, तिसृभि तृजायाभिश्च नितरामनुरञ्जिता कृष्णा द्वादशकक्षां यावत् शिक्षामवाप्नोद् ग्रामपरिसरस्थ बार एव विद्यालये । तावदेव परिणयसन्दर्भस्तस्याः समधिकशिक्षाग्रहणे प्रत्यवायभूतः । ॐ नाऽसौ विश्वविद्यालयं द्रष्टुमशकत् । द्वादशकक्षोत्तीर्णैवाऽसौ परिणीता जाता । तावता कालेन, विवाहसमकालमेव परिणीतायाः श्वसुरालयगमनं न भवति स्म । प्रथमं तावत्परिणयमात्रं, पश्चाच्च वधूवयोदृष्ट्या प्रथमे, तृतीये, पञ्चमे वा वर्षे तस्याः पतिगृहगमनं सम्भवति स्म । एवं हि विवाहो, गमनं, द्विरागमनं, चिरागमनञ्चेति कश्चिल्लोकानुमोदितक्रमो वध्वाः श्वसुरालययात्रायाः प्रतिष्ठित आसीत् । इमामेव लोकरीतिमनुपालयन् भवानीसिंहोऽपि कन्यां सद्यः परिणीतां वर्षानन्तरं पतिगृहे सम्प्रेषयितुं संकल्पितवान् । परन्तु नियतिनटी किञ्चिदन्यदेव चिन्तयति स्म। शुक्लपक्षीया चन्द्रकलेवोत्तरोत्तरं वृद्धिमुपगच्छन्ती कृष्णायाः सौभाग्यलेखा, पर्वणि परां काष्ठामवाप्याऽपि प्रतिपद्यपरेधुरेव क्षीणतामुपगता, अमायाञ्च परमार्थत एव विलीनाऽनन्ततमसि । कृष्णायाः पतिरकस्मादेव राजमार्गदुर्घटनायामाहतः सन् मस्तिष्काघातवशादचेतनः सन् न भूयोऽपि चैतन्यमवाप । दुर्घटनातः पञ्चदश एव दिवसेऽसौ, सर्वान् वारणोपायान् भिषजां वितथीकुर्वन्, कृष्णायाश्चाऽपि सीमन्तारुणलेखां न केशकालिम्नि गूढं गूहयन् कुटुम्बिनश्च सर्वान् विपदम्भोनिधौ मज्जयन् दिवङ्गतः । उभावपि कुटुम्बौ विपत्सागरे निमग्नौ । देवविग्रहरहिता मन्दिरगर्भगुहेव * सञ्जाता कृष्णा । कं नु स्मृत्वाऽसौ विलपेत् ? यत्कृते विलपनीयं, वराकी तं न छ सम्यक्तया दृष्टवती । हा हन्त, देवचरणार्पणात्प्रागेव पुष्पमाला कर्दमे निपत्य मलीमसा जाता ? कर्मानुष्ठानात् प्रागेव गोमयोपलिप्ता पूजाभूमिः कोलदलसञ्चङ्क्रमणैरपवित्रा को ARE जाता ? धवप्राप्तेः पूर्वमेव वैधव्यम् ? भावशून्यं जातं कृष्णाया जीवनम् । प्रायेणाऽसौ स्वशयनकक्ष एव निरुद्धा Ka तिष्ठति स्म । न पितामहीमुपेत्य तदनुभवान् प्राक्तनानुच्चावचान् श्रोतुमुपक्रमते स्म, न भ्रातृजायाभिः सार्धं महानसकलरवं विदधाति स्म, न चाऽपि जनन्याः पार्श्वमुपैति स्म । गृहेऽपरा काऽपि समवयस्का सख्यपि नाऽसीद्या तस्या मनोभावान् विदाङ्कर्यात् । - १०० Page #114 -------------------------------------------------------------------------- ________________ हाई केवलं तदनुजभूतश्चतुर्थो भ्रातैव तत्सहचर आसीत् । अव्यवहितजन्मानुक्रमवशात् और र वयःसाम्याद् निसर्गमाधुर्यवशाच्च शैलेन्द्रनामाऽसावेव कृष्णायै रोचते स्म । सा महेन्द्रधर्मेन्द्रसोमेन्द्रारव्या ज्येष्ठसहोदरास्त्रयोऽपि पितृकल्पा आसन् पदप्रतिष्ठावयोदृष्ट्या। सार 5 पञ्चमोऽपि राजेन्द्रः कनिष्ठत्वाद् हृदयावेदनेऽनर्ह एवाऽऽसीत् । अरे अज्ञानमौढ्यजडताग्रस्तस्य समाजस्य का कथा ? समाजस्तु विमुक्तना सारज्जुरिव कमेलको न पन्थानं समीक्षते । किञ्च, यथाभिरुचितमार्गेणैव गच्छति । या सो न तस्य काऽपि निश्चिता विचारसरणिः, न वा स्थिरो निर्णयाधारः । समाजस्तु र स्वार्थान्धः क्वचिदमृतमपि विषं घुष्यति, क्वचित् पुनर्विषमपि निगरणीयममृतम् ! 3 भार्यावतां पतीनां महिलान्तरभोगलिप्सामपि समाजोऽयं न जातु निन्दति । किं वेश्यागामिनो मन्दिरप्रवेशान्निवार्यन्ते, पत्नीभिर्वा तद्दोषदुष्टाः शरीरभोगान्निषेध्यन्ते ? समाजोऽयं केवलमसहायानां, सामर्थ्यहीनानां किञ्च प्रतीकाराक्षमाणां दोषान् पश्यति, न पुनः समर्थानाम् । समाजः शातयति केवलमार्जवोपेतान् न तावद्रावणजरासन्धकंसप्रभृतीन् । तस्मिन्नेव समाजे कृष्णयाऽपि जीवितव्यमासीत् । समाजदृष्ट्याऽसाविदानी नाऽऽसीत् सहानुभूतिपात्रम् । प्रत्युत सर्वविधामङ्गलानां हेतुः पत्युश्चाऽपि जीवनसूत्रोच्छेत्री आसीत् । उच्चकुलोत्पन्नत्वात् तस्याः पुनर्विवाहोऽप्यचिन्तनीय एवाऽऽसीत् । एवं कृते सति दुर्निवारमेवाऽऽसीत् कुलमर्यादाविनाशभयम् । पशुवज्जीवनं यापयन्तो जनाः काममधरोत्तरमाचरन्तु । परन्तु लोकप्रख्यातं क्षत्रियकुलमासीदिदम् । समाजादर्शभूतानां in महापुरुषाणां कुलमासीदिदम् । अस्मादेव कुलान्मर्यादानद्यः प्रभवन्ति स्म । वर्षाद् वर्ष व्यतीतम् । सर्वं शान्तमिव जातम् । यथा सौभाग्यं भ्रातृजायानां, तथैव दौर्भाग्यं वैधव्यं वा कृष्णाया जीवनमासीत् । यथा भ्रातृजायानामखण्डानन्दप्रवाहे । RT भोगसुखे च न किमपि परिवर्तनीयमासीत्तथैव कृष्णाया अखण्डविषादप्रवाहे gh E) भोगतृष्णाक्षयेऽपि न किमपि परिवर्तनीयमासीत् । शनैः शनैः सर्वमिदं रूढं स्वीकरणीयञ्च जातम् । कृष्णाभविष्यविषये सम्प्रति कुटुम्बिनोऽपि निरुपाया आसन् । स्वयं या कृष्णाऽप्युपायहीनाऽऽसीत् । कृष्णायाः कृते तु किमपि भविष्यमेव नाऽऽसीदिदानीम् । 7 तया तु केवलं वर्तमाने एव जीवितव्यमासीत् सुखेन वा, दुःखेन वा । C १०१ Page #115 -------------------------------------------------------------------------- ________________ अ परन्तु सोदर्या इयं स्थितिर्दुस्सहैवाऽऽसीत् शैलेन्द्रस्य कृते । यद्यपि कृष्णा पर पूर्वमिवेदानीं तेन सह न सहासमालपति स्म, न विविधप्रश्नैर्ज्ञानपिपासोपशमसमर्थे- यार स्तमुद्वेजयति स्म, तथाऽपि कक्षमागते सति तस्मिन् विलक्षणमनिर्वचनीयमिव शर कमपि परितोषमनुभवति स्म सा । कदाचिच्छैलेन्द्रेण सह कनिष्ठतमो राजेन्द्रोऽपि र समागच्छत् । शैलेन्द्रो विविधैविश्वविद्यालयीयैर्वृत्तैर्भगिनीमनुरञ्जयितुं प्रयतते स्म । घर गर आपातरम्याभिस्ताभिः कुतूहलिनीभिः कथाभिः कृष्णाऽनुरञ्जिताऽपि समलक्ष्यत । तथाऽपि तस्मिन्ननुरञ्जनेऽभिनयस्यैव मात्राऽधिका भवति स्म । विसर्जनकाले प्रायेणोभयोर्लोचनान्यश्रुपर्याकुलान्येव भवन्ति स्म । शैलेन्द्रः सम्प्रति स्नातकोत्तरकक्षामुत्तीर्य विद्यावारिधिशोधकर्मणि दत्तचित्त आसीत् । प्रायेणाऽसौ कृष्णाविषये स्वमित्रेण विनोदसिंहेन साधू मन्त्रयति स्म । विनोदोऽपि चिरकालादेव शैलेन्द्रगृहमागच्छति स्म । शैलेन्द्रजननी तु तं न शैलेन्द्राद् भिन्नमवगच्छति स्म । कृष्णाऽपि विनोदं द्वितीयशैलेन्द्रमेव मन्यते स्म । ___ उभावपि युवकौ शिक्षासंस्कारवशान्नवदृष्टिसम्पन्नावास्ताम् । नूतनीयं दृष्टिस्तयोर्नाऽऽसीदुल्बणयौवनमदपरिणामभूताऽपि तु शास्त्रज्ञानपरिपुष्टा, विवेकाश्रिता चाऽऽसीत् । न केवलं श्रेष्ठसमीक्षाग्रन्था नव्यविदुषां ताभ्यामनुशीलिता आसन् । प्रत्युत रामायणमहाभारतपुराणसन्दर्भाः किञ्च, स्मृतिसन्दर्भा अपि तैः सम्यगधीता आसन् ! देवरशब्दस्य महर्षियास्ककृता व्याख्याऽपि तयोः स्मृतौ सुरक्षिताऽऽसीद् देवर इति । कस्मात् ? देवरोः द्वितीयो वरो भवतीति । अनेन स्पष्टं जायते यत्प्राचीनभारतीयसमाजे वल्लभानुजेन सार्धं भ्रातृजायाया विधवायाः पुनर्विवाह: सम्मत आसीत् । - शैलेन्द्रः कथयति स्म कदाचिद् वार्तासन्दर्भे । कोऽत्र सन्देह: ? स्वयमेव मर्यादापुरुषोत्तमो रामो विभीषणेन सह मन्दोदर्याः, सुग्रीवेण सार्धञ्च तारायाः पाणिग्रहणं समर्थितवान् । रामायणमेवाऽत्र प्रमाणम् । विनोदोऽवदत् । कथं न तर्हि सा परम्पराऽद्य समाजेऽभिनन्द्यते ? शैलेन्द्रोऽपृच्छत् । । अज्ञानवशात् । रूढिवशात् । बन्धो ! यथाऽवरुद्धप्रवाहस्य तडागस्य | STOlyws १०२ Page #116 -------------------------------------------------------------------------- ________________ ALMEMORE जलमपेयं पूतिमच्च जायते, तथैव परिच्युता विस्मृता वा परिपाट्योऽपि सञ्जायन्तेऽधर्मपर्यायभूताः । अन्यथोदारचेतसोऽस्माकं महर्षयः स्मृतिकारा मुक्तकण्ठेन न केवलं विधवानामपि तु येन केनाऽपि हेतुना, निर्वल्लभानां युवतीनां पुनर्विवाहं समर्थयन्ते । मया गम्भीरं प्रामाणिकञ्चाऽध्ययनं कृतं विषयस्याऽस्य ! विनोदोऽवदत् । अलं प्रत्नैः, नूतनः कौटिल्योऽप्येवंवादी। टा विनोद ! कस्मिंश्चिद् दिवसे सर्वजनसमक्षमिमं सन्दर्भ विशदीकरिष्यावः । कथं मन्यसे त्वम् ? शैलेन्द्रः सदैन्यमकथयत् । बन्धो ! उदारोऽयं प्रस्तावः । सर्वशास्त्रपारङ्गतोऽभिनवदृष्टिसम्पन्नश्चाऽस्मत्कुटुम्बदीक्षागुरुमहेश्वरानन्दोऽपि अस्मत्साहाय्यं विधास्यति । तदाशिषैव वैधव्यकलङ्किताया मम भगिन्याः कल्याणं जातम् । सा तु पुत्री प्रसूय विधवाऽभूत् । वराकी कृष्णा तु भगवती गङ्गेव निष्कल्मषाऽविमुक्तकन्याभावा च तिष्ठति । तस्याः पुनर्विवाहस्तु महत्पुण्यमङ्गलकरो भविष्यति । विनोदः सोत्साहमवदत् । - ज्येष्ठस्वसुर्जीवनमङ्गलमेव मम जीवितलक्ष्यं साम्प्रतम् । प्रतिज्ञातं मया बन्धो ! यावदसौ सुखिनी न भवति, यावत्तस्या अधरपुटे स्मितं नयनयोश्च जिजीविषां न द्रक्ष्यामि तावद् विश्रान्तो न भविष्यामि । साधु साधु ! भ्रातः ! सदैवाऽऽत्मानं मद्वितीयमवगच्छ । कर्मण्यस्मिन् भविष्याम्यहं तव नियतसहायः । विनोदो दृढतयाऽभणत् । परमेश्वरोऽपि दयमानः प्रत्यभासत । तच्चिन्तितं कर्म विपाकरहस्यं को नु Pa जानाति ? परन्तु निश्चितमिदं यत्प्रत्येकं घटनायाः सूत्रं तेनैव नियन्त्रितम् । इदमपि o सुनिश्चितं यन्न किमपि निष्प्रयोजनं घटते । केन दुःखेन किं सुखं समुत्पद्यते, कस्य to वा दुःखेन कस्याऽन्यस्य सुखं विधीयते इति परमेश्वरः प्रागेव जानाति । घटिते सति लोकोऽपि जानीते । विचित्रं विस्मयावहञ्च नियतिजनितं घटनाचक्रम् ! ER अत्राऽपि तदेव वृत्तम् । येन परमेश्वरेण कृष्णाया विपत्कथा सृष्टा, तेनैव मा सम्प्रति तस्याः सौख्यारव्यायिकाऽपि निर्मातुमारब्धा । वायुसेनायामधिकारिपदे नियुक्तस्य महेन्द्रस्य भार्या चिरकालादेव स्तन १०३ Page #117 -------------------------------------------------------------------------- ________________ र है र कर्कटरोगग्रस्ताऽकस्मादेव निधनङ्गता सन्ततिद्वयं विहाय । अयमपरो वज्रपात: सञ्जातः कुटुम्बोपरि । सोमेन्द्रः पुत्रं पञ्चवर्षदेशीयं पुत्रीञ्च द्विवर्षीयां मातृसंरक्षणे कृतवान् । और एतस्मिन्नेवाऽन्तराले विनोदपरिवारे, तदग्रजोऽपि सङ्गणकशिक्षा स्वकीयां परिसमाप्य के 'अम्बरीषदेशात्' भारतमुपावर्तत । कृतानुरोधो दीक्षागुरुराचार्यमहेश्वरानन्दोऽपि र समागच्छत् । कस्मिंश्चिद् दिवसे विनोदः स्वकुटुम्बदीक्षागुरुणा महेश्वरानन्देन साधू शैलेन्द्रगृहमागच्छत् । विद्वद्धरीणस्य, शक्तिसाधनापारङ्गतस्य, महेश्वरानन्दस्य विषये शैलेन्द्रकुटुम्बे प्रायेण सर्वेऽपि विदितवेदितव्या आसन् । शैलेन्द्रपितामहः स्वयमेव कदाचित् तं महापुरुष स्वभवनमानेतुं पौत्रकल्पं विनोदमनुरुद्धवान् । अवसरमवाप्य विनोदः पितामहचरणानामाकाङ्क्षा पूरयितुं स्वकुलगुरुमानयत्। तेजस्विभालपट्टे, प्रभविष्णुविग्रहं, महेश्वरानन्दमवलोक्य नेदिष्ठशतायुष्यः पितामहः सकुटुम्बस्तमुपययौ । सर्वेऽपि तच्चरणधूलि ललाटे विन्यस्याऽऽशिषं गृहीतवन्तः, फलादिभिश्च तं भोजितवन्तः । महेश्वरानन्दः सादरं पृष्टवान्- राजन् ! मन्ये शतं पूरयति भवान् । स्वास्थ्यं कीदृशं वर्तते ? अद्याऽहं सविशेषं भवन्तमेव द्रष्टुं समागतोऽस्मि । अयं बालको विनोदनामा महान् वशंवदोऽत्र भवतः । आवां मिथो मेलयितुमतीव सोत्कण्ठ आसीदयम् ! विद्वत्प्रवर ! गुरुदेव ! अद्य धन्यधन्यो जातोऽस्मत्कुटुम्बः । मयाऽप्यसकृत्प्रार्थितोऽयं माणवको भवन्तमत्राऽऽनेतुम् । भवतां वैदुषी तपस्यां स्वजनानुग्रहप्रवृत्तिञ्च श्रावं-श्रावं भवद्भक्तोऽस्मि जातः । पितामहोऽवदत् । भवद्भिः सम्यगनुमितम् । द्विनवतितममायुषः समुत्तीर्णोऽस्मि । कतिपयवर्षपूर्वं यावत् शतायुष्ये महती स्पृहाऽऽसीत् । परन्तु कुसुमसुकुमारा पुण्यराशिकल्पा पौत्री कृष्णा यतो विधवा जाता, तत एव जिजीविषा मे परिसमाप्ता । एवं प्रतीयते यत्साम्प्रतं पूर्वजन्माचरितानि पापानि परिणामोन्मुखानि वर्तन्ते । तृतीया पौत्रवधूरपि कतिपयमासपूर्वमेव SAdams १. अमरीका इति । १०४ Page #118 -------------------------------------------------------------------------- ________________ KA निधनमुपयाता । किमेतत्सर्वमेव सन्द्रष्टुं जीवामि ? अपि नामाऽहमेव नामशेषोऽभविष्यमेतावता कालेन । इति कथयन्नेव पितामहो दीनदीनोऽश्रुपर्याकुलश्च जातः । तदीयां व्यथामवलोक्य महेश्वरानन्दस्याऽपि धैर्य संस्खलदिवाऽलक्ष्यत । आसीच्च तन्मनसि-हंहो प्रच्छायशीतलो, घनस्कन्धः, सान्द्रप्ररोहो यो न्यग्रोधः शतवर्षाणि यावच्छरण्यीभूय निजाश्रितान् विहङ्गमान् पालितवान् स एवाऽधुना विशीर्णप्रायोऽवलोक्यते? तदयं महापुरुषो जीवनसमरस्थले क्लैब्यमनुभवन् पार्थ इव, योगेश्वरकृष्णकल्पेन मया प्रबोधनीयः प्रतिभाति । राजन् ! अनन्तजीवनानुभवसम्पन्नं दानवृद्धं वयोवृद्धं भीष्मपितामहकल्पं भवन्तं को नु शिक्षितुं प्रभवति ? तथाऽपि भवदीयं प्रसुप्तं साहसं, भवदीयां शिथिलीभूतामन्तःप्रज्ञां, भवतीयं दुर्लध्यानुशासनञ्च स्मारयितुं समीहे । भवत्सुखं भवदधीनमेव ! पितामह ! अलमसहाय इव, विवश इव, हतभाग्य इवाऽऽत्मानं विनिन्द्य, नैराश्यसागरे वा निपात्य ! नाऽऽत्मानमवसादयेदिति भगवान् नन्दनन्दनो ब्रवीति कौन्तेयं प्रति । राजन् ! भवानप्यात्मानं माऽवसादयतु । यतो हि भवत्यवसन्ने सति समस्तोऽपि कुटुम्बो भवदीयोऽवसन्नो भविष्यति । तत्रोपायं ब्रवीमि । भवद्व्यथायाः प्रथमं कारणं कृष्णाया वैधव्यम् । पितामह ! विनोदाग्रजेन, सर्वगुणसम्पन्नेन, सम्प्राप्तसङ्गणकोच्चशिक्षेन सद्य एवाऽम्बरीषदेशादुपावृत्तेन प्रमोदसिंहेन # सार्धं कृष्णां परिणाय्याऽस्माद् दुःखान्मुक्ति प्राप्नोतु भवान् । विवाहसम्पादनदायित्वमहं | गृह्णामि । पौत्रवध्वा असमयावसानं भवदुःखस्याऽपरं कारणम् । तत्राऽपि वर्तत on एवोपायः। विनोदस्यैव प्रतिवेशे निवसति काचिद् बालविधवा सैनिकपत्नी । 4 सम्प्रत्यध्यापयति सा कस्मिंश्चित् सरस्वतीशिशुमन्दिरे । तत्पतिः सैन्याभ्यासं कुर्वन् PERS रज्जुसेतोर्निपत्य, भृशमाहतः सन् मृतः ।। सैनिकविधवायाः पाणी कश्चित्सैनिक एव गृह्णीयात् । किमतोऽधिकं श्रेयस्करं यशस्करं मङ्गलमयञ्च भविष्यति ? १०५ Page #119 -------------------------------------------------------------------------- ________________ NNN आई राजन् ! चिराभ्यस्तेन क्षुण्णेन मार्गेण साधारणजना गच्छन्ति, ये स्वकीयं मार्ग आर निर्मातुमक्षमाऽज्ञा वा । परन्तु केसरिणः कवयः सत्पुरुषाश्च न प्रवर्तन्तेऽभ्यस्तवर्मना ! ते स्वकीयां सरणिं स्वयमेव विदधति । भवानपि कृष्णाया जीवनं मङ्गलमयं विधाय, 5 सैनिकविधवाञ्चैकां समुद्धृत्य नूतनसमाजसरणि निर्मातु । भवन्निर्मितेयमेव सरणिरन्येषां रकृतेऽनुकरणीया भविष्यति । यतो हि- 'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत् और प्रमाणं कुरुते लोकस्तदनुवर्तत' इति श्रीमद्भगवद्गीता निर्दिशति । पितामह ! स्वश्रेष्ठत्वं चरितार्थयतु भवान् । पुनर्नवा जायेत भवदीया पौत्रीति मात्रमहं कामये । सर्वा अपि स्मृतयः, सर्वेऽपि महर्षयो विधवाविवाहं समर्थयन्ते । यथा वर्षाजलपरीवाहेनाऽपेयसलिलाऽपि वापी परमार्थतः शुध्यति राजन् तथैव प्रत्येकं रजोदर्शनेन नारी शुध्यतीति स्मृतयः समुपदिशन्ति । स्वयं-ब्रह्मर्षिवसिष्ठ एव कथयतितस्मान्निष्कलुषाः स्त्रियः । न स्त्री दुष्यति जारेणेति । स्त्रियो मेध्यास्तु सर्वत्र इति । पुनश्चाऽसौ ब्रवीति - स्वयं विप्रतिपन्ना वा यदि वा विप्रवासिता । बलात्कारोपभुक्ता वा चोरहस्तगताऽपि वा ।। न त्याज्या दूषिता नारी नाऽस्यास्त्यागो विधीयते । पुष्पमासमुपासीत ऋतुकालेन शुध्यति ।। राजन् ! धर्मलक्षणकारो ब्रह्मर्षिर्वसिष्ठस्तु प्रसङ्गान्तरे भूयोऽपि कथयति यत् श्री बलादपहृता मन्त्रविधिपूर्वकमपरिणीता कन्या कन्यैव भवति । अपहरणमात्रेण नाऽसौ दूषिता भवति । सा पुनरपि विधिना कस्मैचित्सुयोग्याय वराय देया । एवमेव, मन्त्रसंस्कृताऽपि अक्षतयोनिर्बाला, पाणिग्रहे मृते सति भूयोऽपि विवाहसंस्कारमर्हति बलाच्चेत् प्रहृता कन्या मन्त्रैर्यदि न संस्कृता । अन्यस्मै विधिना देया यथा कन्या तथैव सा ॥ पाणिग्रहे मृते बाला केवलं मन्त्रसंस्कृता । सा चेदक्षतयोनिः स्यात् पुनः संस्कारमर्हति ॥ राजन् ! तिरोहितमिदं धर्मशास्त्रं प्रकाशयतु भवान्, प्रतिष्ठापयतु भवान् ! १०६ Page #120 -------------------------------------------------------------------------- ________________ • अज्ञानग्रस्तोऽयं भारतीयसमाजो, भविष्यति भवदधमर्णः । कियत्य एव दुःखदैन्यव्यथासागरनिमग्नाः कृष्णाः समुद्धृता भविष्यन्ति । वैधव्यमात्रं न भवति विधवाया नियतिः । तन्नियतिस्तु तत्सौभाग्यम् । तत्सौभाग्यसम्पादनायैव संरक्षकैः, स्वजनैः, कुटुम्बिभिर्लोकैश्च प्रयतनीयम् । एवंवादिनि महेश्वरानन्दे तूष्णीमुपगत एव पितामहः शान्तभावेन निजासनादुत्थाय तच्चरण- द्वयं स्वललाटेन स्पृष्टवान् प्रोवाच च गुरुवर्य ! नेदानीं क्वचिदन्यत्र गन्तव्यम् । कृष्णायाः सोमेन्द्रस्य च विवाहसंस्कारपूर्तिं यावदत्रैव भवद्भिः स्थातव्यम् । बिभेमि, पार्थ इव क्वचिन्मध्येमार्गं भूयोऽपि मोहविद्धो न भवेयम् । विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः । आवेष्टितं महासर्पैश्चन्दनं न विषायते ॥ [सुभाषितरत्नभाण्डागारे ] १०७ Page #121 -------------------------------------------------------------------------- ________________ कीर्तित्रयी अपत्यरहिताम जनामक एका भवन भोटकेन दारमते एकभवनाग्रे विज्ञापनं लिखितमासीत् "अपत्यरहिताय जनायैवैतद् भवनं भाटकेन दास्यते' इति । (एतद् दृष्ट्वा -) बालकः महोदय ! अहमपत्यरहितोऽस्मि । केवलं मे द्वे भगिन्यौ भ्राता चैक: माता-पितरौ च सन्ति । । कृपया मह्यमेवैतद् भाटकेन ददातु । (बस्-याने) महिला किं बालकानां विना चिटिकामेव प्रवासो ऽनुमतः किल ? चिटिकानिर्वाहकः आम्, किन्तु पञ्चतोऽधस्तादेव । महिला (सहर्ष) बाढम् !! मम तु चत्वार एव !! चित्रकारः ममैतस्य चित्रस्य विषये भवतः कोऽभिप्रायः ? विवेचकः मन्मतेन त्वस्य चित्रस्य चौर्यं न कदाऽपि भविष्यति ! १०८ Page #122 -------------------------------------------------------------------------- ________________ श्री राम किराण सोर्स זיווחנון अल्पमूल्यक्रयाणकापणे जनानां दीर्घा पङ्क्तिः स्थिताऽऽसीत् । आपणस्तु पिहित एवाऽऽसीत् । एतावता कश्चन जनो हस्ते स्यूतं गृहीत्वाऽऽगतः । स यावदग्रे आगच्छेत् तावता जनैः स सप्रहारं सक्रोधं च पृष्ठे नोदितः । पुनरपि स प्रयतितवान् पुनरपि च जनैः प्रणोदितः । एवं द्वि-त्रान् वारान् प्रवृत्तम् । अतः स कोपादुच्चैः कथितवान् - "यदि यूयमेवमेव मां प्रणोदयिष्यथ तदाऽहमापणमेव नोद्घाटयिष्ये ॥" पत्नी रात्रौ भवान् अतीव विलम्बेनाऽऽगत इति लक्ष्यते । मया घटिकायन्त्रस्य द्वे एवाऽभिघाते श्रुते किल ! पतिः नैवमासीत् प्रिये ! । अभिघातास्तु दशैवाऽपतिष्यन्, किन्तु मयैव तव निद्राबाधा न भवेत्- इति विचिन्त्याऽवरोधितास्ते !! आपणिकः यन्त्रमिदं भवतः पञ्चाशत्प्रतिशतं कार्यभारमल्पीकरिष्यति । ग्राहकः तर्हि कृपया द्वे यन्त्रे ददातु ! १०९ Page #123 -------------------------------------------------------------------------- ________________ अधिकारी पदान्वेषी - अधिकारी (साश्चर्यम्) एवम्.... !! पश्चात् किं जातम् ? पदान्वेषी -- - किं भवता कदाचित् किमपि विशिष्टं कार्यं कृतं वा ? आम्, एकदाऽहं सिंहस्यैकस्य ग्रीवां त्रोटितवान्, गजस्य शुण्डां मूलादेव कृष्टवान् भल्लूकानां च पादान् विभक्तवान् । भवतो नाम किम् ? मम नाम शेरसिंहः । पश्चात् किं स्यात् ? क्रीडनकापणिको मां न्यक्कृत्याऽऽपणाद् बहिर्निष्कासितवान् !! भवतः पितुर्नाम किम् ? महोदय ! शमशेरसिंहः । - कुत्र वसति भवान् ? - सिंहनिवासे । - बालमुनिकुमुदचन्द्रविजय: ( डेलावाला ) तर्ह्यत्र किमर्थं तिष्ठति ? महोदय ! पुरतः श्वा बुक्कन् दृश्यतेऽतः (स्कूटर्यानचौर्यापराधेन गृहीताय कस्मैचित् चौराय) न्यायाधीशः साक्षिणामभावात् भवतश्चौर्यं न सिद्धमतो भवान् मोच्यते । तर्हि, किं तत् स्कूटरयानं ममैवेदानीम् ? अपराधी ११० !! Page #124 -------------------------------------------------------------------------- ________________ KA ++BAM 30-0-60 प्राकृतविभागः श्रीमधुमतीमंडनश्रीजीवत्स्वामिद्वात्रिंशिका | आचार्यश्रीमद्विजयपद्मसूरिः ॥१॥ ॥२॥ ॥३॥ ॥ आर्यावृत्तम् ॥ थोऊणं पासपहुं, पहावपुण्णं च णेमिसूरिपयं । जीवंतसामिवीरं, थोसामि ठियं महुमईए सुरनयरिव्व महुमई, होत्था परमालएहि धम्मरया । सुयणरयणपडिपुण्णा, भव्वजिणाययणपरिसोहा णिवणंदिवद्धणेणं, अडणवइसमाउएण जिद्वेणं । लहुबंधवगुणणेहा, सगकरदेहप्पमाणेणं जीवंते य भयंते, कारविया जेण दुण्णि पडिमाओ । सोहइ एगा एसा, अण्णा मरुदेसमज्झमि एत्ताहे हेउत्तो, जीवियसामिप्पहाणणामेणं । विइया ते पडिमाओ, फुरंतमाहप्पकलियाओ सक्खं सासणणाहो, अम्हाणं देइ देसणं विसयं । जं द₹णं भावो, इय जायइ पासगस्स मणे दव्वजिणो जे वीरो, वीसायरकालमाणदिव्वसुहं । पुप्फुत्तरे विमाणे, पाणयकप्पट्ठिए पवरे ॥४॥ ॥५॥ ॥६॥ ||७|| मा R-6-60 १११ Page #125 -------------------------------------------------------------------------- ________________ ॥८॥ *4 ॥९॥ ROMAL 64 ॥१०॥ DON ॥११॥ ab Vod -1 ॥१२॥ P अणुहविय सुक्कपक्खे, आसाढे छट्ठवासरे धण्णे। तम्हा चुओ समाणो, तिण्णाणणिबद्धजिणणामो माहणकुंडग्गामे, सयवरिसाउस्स उसहदत्तस्स । गिहिणी देवाणंदा, तीए कुच्छिसि आयाओ बासीइदिणाई जा, तत्थ ठियं वंदिऊण सक्किंदे।। हरिणेगमेसितियसं, कम्मबलच्छेरगं णच्चा आणवए तेण तओ, आसिणबहुले य तेरसीदियहे । काउं गब्भविणिमयं, तिसलाकुच्छिसि साहरिओ जो चित्तसुक्कपक्खे, जाओ सुहतेरसीदिणे पवरे । दिक्खा जेणं गहिया, मग्गसिरे बहुलदसमीए बारसवासाइ तहा, तेरसपक्खे सुराइउवसग्गे । सहिअ खमाभावेणं, चरिअ तवं जंभियग्गामे गोदोहिआसणेणं, पहरतिगे उज्जुवालियातीरे । हत्थुत्तरासुरिक्खे, णिज्जलछटुप्पमोएणं झाणंतरियासमए, जेणं वइसाहसुद्धदसमीए । लद्धं केवलनाणं, तं वीरपहुं सया वंदे तह मज्झिमपावाए, केवलिणिक्कारसीइ जेण वरं । महसेणवणे तित्थं, पयट्टियं जोगखेमदयं सिरिइंदभूइपमुहा, जेणं संदिक्खिया सपरिवारा । अइसयलद्धिसमेयं, तं वीरपहुं सया वंदे ॥१३॥ ॥१४॥ ॥१५॥ ॥१६॥ -- AUTAR ॥१७॥ *000 A COM ११२ Page #126 -------------------------------------------------------------------------- ________________ NGS-60 ॥१८|| Fe ॥१९॥ * ॥ शार्दूलविक्रीडितवृत्तम् ॥ 'होज्जा दुक्खपरंपरा भवियणा ! संजोगभावा भवे, कायव्वो णियमा तओ सुमइणा संजोगचाओ इमो । अप्पा वो परिबोहदंसणजुओ दव्वत्तधम्मा धुवो, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं सेसे दव्वकुडुंबगेहपमुहे सिग्धं पयत्थेऽसुहे, चिच्चा जंति सरंति णो परभवे भूयंगणाई णरा । बुज्झेवं परिहंतु निम्मलयरे सद्धम्मजोगुज्जमा, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं वुत्ता उग्गविसाहिया य विसया पाणा तहा णस्सरा, संसारस्स सुहं ण दीहठिइयं मुत्तीइ तं तारिसं । अत्था अप्पहिएसु हेउसु विहेया भव्वभद्दप्पया, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं सच्चाणंदणिहाणसुद्धचरणं पुण्णप्पसंतिप्पयं, एवं बोहगया हवंति यमिणा चायत्थिणो चक्किणो । णो चक्की समणोऽहमुत्तरमिणं जुग्गं पभासंति ते, एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं || आर्यावृत्तम् ॥ वासाचउमासीओ, बायालीसं च संजमदिणाओ । जेणं विहिणा विहिया, तं वीरपहुं सया वंदे अट्ठण्हं सुमिणाणं, परूवियं णिवइपुण्णपालस्स । RIVER जेणं च जहत्थफलं, तं वीरपहुं सया वंदे ॥२०॥ ॥२१॥ ॥२२॥ DAO ११३ Page #127 -------------------------------------------------------------------------- ________________ 9994 bo 20-100 ON %0 D8-64Gter 9999 ॥२४॥ ॥२५॥ ||२६.' ॥२७॥ एअस पेमबंधो, झिज्जइ इय देवसम्मबोहटुं । गोयमसामी जेणं, पट्ठविओ तं पहुं वंदे गिहवासे वरिसाइं, तीसं पक्खाहिए य सड्डे य। जाव दुवालसवरिसे, जस्स य छउमत्थपरियाओ तेरसपक्खोणाई, तीसं वासाइ केवलित्तेणं । विहरित्ता सव्वाउं, बावत्तरिवासपरिमाणं पालित्ताऽऽइमपक्खे, कत्तिअमासे य चरिमजामद्धे । साइपवरणक्खत्ते, कयपज्जंकासणो सामी जीवियवड्डणपण्हे, अवि सक्का णो कयावि वड्डेडं । जिणया आउयकम्मं, इय कहिऊणं समाहाणं जा सोलसपहराई, दचंतिमदेसणं भवियणाणं । किच्चा जोगनिरोहं, सेलेसीभावसंपण्णो सेसाघाइविणासा, साइअणंतेण भंगसमयेणं । पत्तो जो निव्वाणं, तं वीरपहुं सया वंदे कयमयणदावसंति, मणमोरघणं पसण्णमुहकमलं । दसणमलपक्खाले, जलधारासंनिहं सुहयं दुरियतिमिररवितुल्लं, पयंडयरविग्घमेहवाउसमं । जीवंतसामिबिंबं, पणमंताणं भयाभावो ॥२८॥ ॥२९॥ ॥३०॥ ॥३१॥ ॥३२॥ DBOOR Page #128 -------------------------------------------------------------------------- ________________ ॥३३॥ तिक्कालं वरविहिणा, कप्पलयब्भहियभव्वमाहप्पं । अच्चंतु वीरबिंबं, कयं परेणं वियक्केणं जीवियसामिज्झाणं, कुणंति आसण्णसिद्धिया मणुया । आरुग्गतुट्ठिकित्ति, लहंति घणबुद्धिबोहिपयं ॥३४॥ ल ॥ प्रशस्तिः ॥ ॥ आर्यावृत्तम् ॥ जुम्मणिहाणणिहिंदु-प्पमिए वासे य आसिणे मासे । . सियपक्खे दसमीए, धम्मिय-सिरिरायनयरंमि ॥३५॥ जीवियसामित्थवणं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणाऽऽयरिएणं, रइयं धण्णा ! समझंतु विज्झापहपढणटुं, विहिया रयणा इमस्स थुत्तस्स । अज्झयणसवणसीला, लहंति परमुण्णइं णियमा ॥३७॥ ॥३६॥ श्रुते महाकवेः काव्ये नयने वचने च वा: । युगपद् यस्य नोदेति स वृषो महिषोऽथवा ॥ [सुभाषितरत्नभाण्डागारे] Pt ११५ Page #129 -------------------------------------------------------------------------- ________________ प्राकृतविभागः कथा आचार्यश्रीविजयकस्तूरसूरिः [पूज्याचार्यवर्य श्रीविजयकस्तूरसूरिभगवता प्राकृतभाषायां रचिता इमाः कथाः ‘पाइअ-विन्नाणकहा' इति - ग्रन्थान्तर्गताः सन्ति । पूज्याचार्य श्रीविजयसोमचन्द्रसूरिमहाराजस्य सौजन्येनाऽत्र क्रमशः प्रकाशयिष्यन्ते । ] पहाणी सव्वया होइ, गुणेसु विणओ जओ । अणेण फलसाण, लद्धं चारितमुत्तमं ॥१॥ १. सेवितुम् । पाइयकहावली फलसालस्स कहा महाविसए सालिग्गामो नाम गामो । तत्थ पुप्फसाल - गिहवइणो पुत्तो फलसालो नाम आसि । सो पयइभद्दओ पयइविणीओ परलोगभीरू य । एगया तेण धम्मसत्थपाढयाओ 'उत्तमे विण पउंजेइ सो जम्मंतरे उत्तमुत्तमो होइ' ! तओ सो एस मम जणओ उत्तमो त्ति सव्वायरेण जणगस्स विणए पउत्तो । अन्नया तेण गामसामिस्स विणयं पउंजंतो जणओ दि । तओ जगाओवि इमो उत्तमो त्ति जणयमापुच्छिऊण गामसामिं 'अलग्गिउं पवत्तो । या ते सद्धि रायगिहं गओ । तत्थ गामाहिवं महंतयस्स पणामाईं कुणमाणं आलोइऊण इमाओ वि एस पहाणो त्ति महंतयं सेविउं पउत्तो । तं पि सेणिय- नरिंदस्स विणयपरायणमवलोइऊण सेणियमोलग्गिउं आरद्धो । अन्नया तत्थ भगवं वड्ढमाणसामी समोसढो । सेणिओ सबलवाहणो वंदिउं निग्गओ । तओ फलसालो भगवंतं समोसरणलच्छीए सोहमाणं पासंतो अइविम्हिओ जाओ । नूणमेस सव्वुत्तमो, जो एवं नरिंदविंद - देविंद - दाणविंदेहिं वंदिज्जइ, ता अलमन्नेहिं । यस्स च्चिय विणयं करोमि । तओ अवसरं पाविऊण खग्गखेडगकरो ११६ Page #130 -------------------------------------------------------------------------- ________________ 'चलणेसु निवडिअ विनविउं पवत्तो- 'भयवं ! अणुजाणह, अहं भे ओलग्गामि' । भगवया भणियं - 'भद्द ! नाहं खग्गफलगहत्थेहिं ओलग्गिज्जामि, किंतु रओहरणमुहपोत्तिया-पाणीहिं, जहा एए अन्ने ओलग्गंति' । तेण भणियं- 'जहा तुब्भे आणवेह, तहेवोलग्गेमि । तओ जोग्गो त्ति भगवया पव्वाविओ, सुगइं च पाविओ त्ति ॥ उवएसो- अउलं विणयस्सेवं, नच्चा फलपरंपरं । फलसालव्व कायव्वो, जणेहिं सो पयत्तओ ॥२॥ -X२. मुक्खस्स कहा आचार्यश्रीविजयकस्तूरसूरिः अणिग्गहीयजीहाए, विवागो दुखदायगो । जायए जह वायालो, पहिओ खुहिओ ठिओ ॥१॥ एगो मुक्खो पहिओ थेरीए गिहे गओ । तं कहेइ 'मम खिप्पचडिअं रंधिऊण देसु' । सा किवाए रंधिउं आरद्धा, तीए गिहे टुपुट्ठमहिसिं दट्ठण पुच्छइ- 'हे वुड्डे ! जइ एसा महिसी मरेञ्जा, तया लहुद्दाराओ सा कहं निग्गच्छेज्जा' ? सा वएइ - अवमंगलं न वोत्तव्वं' । सो मउणो ठिओ। पुणरवि पुच्छइ-माय ! तव पुत्तो अत्थि न वा ? सा कहेइ- 'देसंतरे वाणिज्जत्थं गओ' । सो पुच्छेइ-'जइ सो तत्थ मरेञ्जा, ता तव कहं निव्वाहो होज्जा' ? । तया तीए रुवाए अद्धरंधिअं खिप्पचडिअं तत्स वत्थंचले खिविऊण गेहाओ निक्कासिओ । कोवि गच्छंतं तं पहिअं पुच्छइकिं झरइ' ? । सो कहए-'जीहाए रसो त्ति' । एवं जीहाए अमयं विसं च वसइ । विसमईए जीहाए सव्वत्थ अवमाणणिञ्जो हुज्ज ।। उवएसो सुलहं भयवन्नाम, जीहा य वसवट्टिणी । दुहं तहा वि पावंति, तयणिग्गहणे जणा ॥२॥ ११७ Page #131 -------------------------------------------------------------------------- ________________ morrhymygawrammer 4M प्राकृतविभागः | सउन्दलाचरियं । कथा सङ्कलयिता डॉ. आचार्यरामकिशोरमिश्रः २९५/१४, पट्टीरामपुरम्, खेकड़ा-२०११०१ (बागपत) उ.प्र. (गताङ्कादग्रे) (४) विदूसअ भो वअस्स, संगीतसालन्तरे अवधाणं देई । कलविसुद्धाए गीदीए सरसंजोओ सुणीअदि। जाणे तत्तहोदी हंसवदिआ वण्णपरिअअं करेदि त्ति । (आकाशे गीयते) अहिणवमहुलोलुवो तुमं तह परिचुम्बिअ चूअमंजरि । कमलवसइमेत्तणिव्वुदो महुअर विम्हरिओ सि णं कहं ॥ राजा अहो ! रागपरिवाहिणी गीतिः । विदूसअ किं दाव गीदीए अवगओ अक्खरत्त्थो ? राजा सखे माधव्य ! मद्वचनादुच्यतां हंसपदिका, निपुणमुपालब्धोऽस्मि । विदूसअ जं भवं आणवेदि । भो वअस्स, गहीदस्स ताए परकीएहिं हत्थेहि सिहण्डए ताडीअमाणस्स अच्छराए वीदराअस्स विअ णत्थि दाणि मे मोक्खो । राजा गच्छ, नागरिकवृत्या संज्ञापयैनाम् । विदूसअ का गदी ? [इदि गदो] राजा (आत्मगतम्) किं नु खलु गीतमेवंविधार्थमाकर्पोष्टजनविरहाद् ऋतेऽपि बलव दुत्कण्ठितोऽस्मि । प्रतीहारी (उपगमिअ) देव, एदे वणवासिणो तुह सुचरिदणन्दिणो इसीओ देवं सभाजइदं आअदा । सउन्दला अम्महे ! किं मे वामेदरं णअणं विप्फुरदि ? ११८ Page #132 -------------------------------------------------------------------------- ________________ AAProperpowery Ppporrowwwyoupories गौतमी जादे ! पडिहदं अमंगलं । सुहाई दे भत्तुकुलदेवदाओ वितरन्दु । ऋषयः (हस्तानुद्यम्य) विजयस्व राजन् ! राजा सर्वानभिवादये । अथ भगवाल्लोकानुग्रहाय कुशली काश्यपः ? शारवः स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तमनामयप्रश्नपूर्वकमिदमाह यन्मिथः समयादिमां मदीयां दुहितरं भवानुपायंस्त, तन्मया प्रीतिमता युवयोरनुज्ञातम् । तदिदानीमापन्नसत्वेयं प्रतिगृह्यतां सहधर्मचरणाय । राजा किमवगुण्ठनवतीयं मया परिणीतपूर्वा ? किमिदमुपन्यस्तम् ? विशेषेणाऽधिक्षिप्तोऽस्मि । गौतमी जादे ! मुहत्तअं मा लज्ज । अवणइस्सं दाव दे ओउण्ठणं । तदो तुम भट्टा ___ अहिजाणिस्सदि। (तह करोदि) । अज्ज ! किंपि वत्तुकाम म्हि । णावेक्खिओ गुरुअणो इमाए तुए पुच्छिदो ण बन्धुअणो । एक्कक्कस्स च चरिए भणामि किं एक्कमेक्कस्स ॥ सउन्दला (अत्तगदं) किं णु क्खु अज्जउत्तो भणादि ? शार्ङ्गरवः भो राजन् ! किमिति जोषमास्यते ? राजा भोस्तपोधनाः ! चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिमा मभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये ? सउन्दला (अपवारिअ) अज्जस्स परिणए एव्व संदेहो । हिअअ, संपदं दे आसंका । कुदो दाणि मे दूराहिरोहिणी आसा? . शारद्वतः शकुन्तले ! वक्तव्यमुक्तमस्माभिः । सोऽयमेवमाह । दीयतामस्मै प्रत्ययप्रतिवचनम् । सउन्दला (अपवारिअ) इमं अवत्थन्तरं गदे तारिसे अणुराए किंवा सुमराविदेण ? अत्ता दाणि मे सोअणीओ त्ति ववसिदं एदं । (पकास) अज्जउत्त-संसइदे दाणि परिणए ण एसो समुदाआरो । पोरव, ण जुत्तं णाम दे तह पुरा अस्समपदे सुहावुत्ताणहिअअं इमं जणं समअपुव्वं पतारिअ ईदिसेहिं अक्खरेहिं पच्चाचक्खिदुं । राजा (कर्णी पिधाय) शान्तं पापम् । व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् । कूलङ्कषेव सिन्धुं प्रसन्नमम्भस्तटतरुं च ॥ ११९ Page #133 -------------------------------------------------------------------------- ________________ dिargamyrever सउन्दला होदु । जइ परमत्त्थतो परपरिग्गहसंकिणा तुए एव्वं वत्तुं पउत्तं ता अहिण्णाणेण इमिणा तुह आसंकं अवणइस्सं । राजा उदारः कल्पः । सउन्दला (मुदराथानं परामिसिअ) हद्धी, अंगुलीअअसुण्णा मे अंगुली । (इदि सविसादं गोतमी पेक्खीअदि ।) गौतमी णूणं दे सक्कावदारब्भन्तरे सचीतित्थसलिलं वन्दमाणाए पब्भर्टे अंगुलीअअं । राजा (सस्मितम्) इदं तत् प्रत्युत्पन्नमपि स्त्रैणमिति यदुच्यते । सउन्दला एत्थ दाव विहिणा दंसिदं पहुत्तणं । अवरं दे कहिस्सं । राजा श्रोतव्यमिदानीं संवृत्तम् । सउन्दला णं एक्कस्सि दिअहे णोमालिआमण्डवे णलिणीपत्तभाअणगअं उअअं तुह हत्थे सण्णिहिदं आसि । राजा शृणुमस्तावत् । सअन्दला तक्खणं सो मे पुत्तकिदओ दीहापंगो णाम मिअपोदओ उवट्ठिओ । तुए अअं दाव पढमं पिअउ त्ति अणुअम्पिणा उवच्छन्दिदो उअएण । ण उण देअपरिचिआदो हत्थब्भासं उवगदो । पच्छा तस्सि एव्व मए गहिदे सलिले णेण किदो पणओ । तह तुम इत्थं पहसिदो सि । सव्वो सगन्धेसु विस्ससिदि । दुवेवि एत्थ आरण्णआ त्ति । राजा एवमादिभिरात्मकार्यनिर्वतिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते विषयिणः । महाभाअ ! ण अरुहसि एव्वं मन्तिदुं । तपोवणसंवड्डिदो अणभिण्णो अअं जणो कइदवस्स। सउन्दला (सरोस) अणज्ज, अत्तणो हिअआणुमाणेण पेक्खसि ? को दाणि अण्णो धम्मकंचुअ प्पवेसिणो तिणच्छण्णकूवोवमस्स तुह अणुकिदि पडिवदिस्सदि ? भद्रे ! प्रथितं दुष्यन्तस्य चरितम् । तथाऽपीदं न लक्षये । सउन्दला सुट्ठ दाव अत्त सच्छन्दचारिणी किदम्हि । जा अहं इमस्स पुरुवंसप्पच्चएण मुहमहुणो हिअअट्ठिअविसस्स हत्थब्भासं उवगदा । (इदि आंचलेण आविदमुहा रोइदि ।) शाङ्गरवः इत्थमात्मकृतमप्रतिहतं चापलं दहति । गौतमी महाशा राजा Page #134 -------------------------------------------------------------------------- ________________ foreveryoppyrmyppyrry repreveryपयाण अतः परीक्ष्य कर्तव्यं, विशेषात्संगतं रहः ।। अज्ञातहृदयेष्वेवं, वैरीभवति सौहृदम् ॥ राजा अयि भोः ! किमत्रभवतीप्रत्ययादेवाऽस्मान् संयुतदोषाक्षरैः क्षिणुथ ? शारिवः (सासूयम्) श्रुतं भवद्भिरधरोत्तरम् । राजा भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसन्धाय लभ्यते ? शारवः विनिपातः । राजा विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयमेतत् । शारद्वतः शारव ! किमुत्तरेण ? अनुष्ठितो गुरोः सन्देशः । प्रतिनिवर्तामहे वयम् । (राजानं प्रति) तदेषा भवतः कान्ता, त्यज वैनां गृहाण वा । उपपन्ना हि दारेषु, प्रभुता सर्वतोमुखी । गौतमि ! गच्छाग्रतः । (इति प्रस्थिताः ।) सउन्दला कहं इमिणा किदवेण विप्पलद्ध म्हि ? तुम्हे वि मं परिच्चअह ? (इदि अणुगच्छदि ।) गौतमी वच्छ संगरव ! अणुगच्छदि इअं क्खु णो करुणपरिदेविणी सउन्दला । पच्चादेसपरुसे भत्तुणि किं वा मे पुत्तिआ करेदु ? शारिवः (सरोषं निवृत्य) किं पुरोभागे ! स्वातन्त्र्यमवलम्बसे ? तिष्ठ पतिकुले, अत्र दास्यमपि तवोचितम् । साधयामो वयम् । राजा भोस्तपस्विन् ! किमत्रभवती विप्रलभसे ? शार्ङ्गरवः यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः ? (गच्छति) (पुरोहितं प्रति) भवन्तमेवाऽत्र गुरुलाघवं पृच्छामि । मूढः स्यामहमेषा वा, वन्मिथ्येति संशये । दारत्यागी भवाम्याहो, परस्त्रीस्पर्शपांसुलः ।। राजा १२१ Page #135 -------------------------------------------------------------------------- ________________ ਆਰਆਆਆਆਆਆਆਆ ਆਆਬਾਦੀ पुरोहितः (विचार्य) यदि तावदेवं क्रियताम् । राजा अनुशास्तु मां भवान् । पुरोहितः अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यते चेत्त्वं साधुभिरादिष्टपूर्वः प्रथमं चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति, तदभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यये तु पितुरस्याः समीपनयनमवस्थितमेव । राजा यथा गुरुभ्यो रोचते । पुरोहितः वत्से ! मामनुगच्छ । सउन्दला भअवदि वसुहे ! देहि मे विवरं । (इदि रुददी पत्थिदा ।) (नेपथ्ये) आश्चर्यमाश्चर्यम् । राजा (आकर्ण्य) किं नु खलु स्यात् ? पुरोहितः (प्रविश्य सविस्मयम्) देव ! अद्भुतं खलु संवृत्तम् । राजा किमिव ? पुरोहितः देव ! परावृत्तेषु कण्वशिष्येषु सा निन्दन्ती स्वानि भाग्यानि बाला, बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता । स्त्रीसंस्थानं चात्सरस्तीर्थमारा-दुत्क्षिप्यैनां ज्योतिरेकं जगाम ॥ राजा भगवन् ! प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणाऽन्विष्यते, विश्राम्यतु भवान् । (प्रतीहारो प्रति) वेत्रवति ! पर्याकुलोऽस्मि, शयनभूमिमार्गमादेशय । प्रतीहारी इदो, इदो देव ! (इदि पत्थिदा ।) रक्खिणौ (ताडिअ) अले कुम्भीलआ, कहेहि कहिं तुए एशे मणिबन्धणुक्किणणामहेए लाअकीअए अंगुलीअए समासादिए ? पुरुसो (समय) पसीदन्तु भावमिश्शे । हगे ण ईदिशकम्मकाली । पढमो किं शोहणो बम्हणेत्ति कलिअ रण्णा पडिग्गहो दिण्णो ? पुरुसो शुणध दाणिं । हगे सक्कावदारब्भंतरालवासी धीवलो । १२२ Page #136 -------------------------------------------------------------------------- ________________ fverythromygrammydmorry सालो सालो पुरुसो 111111 1111111111 दुतिओ पाडच्चला, किं अम्हेहिं जादी पुच्छिदा ? सालो सूअअ, कहेदु सव्वं अणुक्कमेण । मा णं अन्दरा पडिबन्धह । उभौ जं आवुत्तो आणवेदि । कहेहि । पुरुसो अहके जालुग्गालादिहिं मच्छबन्धनोवाएहिं कुडुम्बभलणं कलेमि । (विहसिअ) विसुद्धो दाणिं आजीवो । पुरुसो सहजे किल जे विणिन्दिए ण हु दे कम्मविवज्जणीअए । पसुमालणकम्मदालुणो अणुकम्पामिदु एव्व सोत्तिए । तदो तदो? एक्कस्सि दिअसे खण्डशो लोहिअमच्छे मए कप्पिदो जाव । तस्स उदलब्भन्तले एदं लदणभासुलं अंगुलीअअं देक्खिअ पच्छा अहके तस्स विक्कआअ दश्शअं गहिदो भावमिश्शेहिं । मारअद वा मुंचेह वा । अअं अस्स आअमवुत्तन्तो । सालो जाणुअ, विस्सगन्धी गोहादी मच्छबन्धो एव्व णिस्संस। अंगुलीअअदस्सणं अस्स विमरिसिदव्वं । राअउलं एव्व गच्छामो । रक्खिणौ तह, गच्छ अले गंडभेदअ ! सालो सूअअ ! इमं गोपुरदुआरे अप्पमत्ता पडिवालह जाव इमं अंगुलीअअं जहागमणं भट्टिणो णिवेदिअ तदो सासणं पडिच्छिअ णिक्कमामि । उभौ पविशदु आवुत्तो सामिपसादस्स । (इदि सालो गच्छदि) । पढमो जाणुअ, चिराअदि क्खु आवुत्तो । दुतिओ णं अवसरोवसप्पणीआ राआणो । पढमो जाणुअ, फुल्लन्ति मे हत्था अस्स वहस्स सुमणा पिणर्छ । पुरुषो णारहदि भावो अकालणमालणं भवितुं । दुतिओ (विलोकिअ) एसो अम्हाणं सामी पत्तहत्थो राअसासणं पदिच्छिअ इदोमुहो देखीअदि। गिद्धबली भविस्ससि, शुणो मुहं वा देक्खिस्ससि । सालो (पविसिअ) सूअअ ! मुंचेदु एसो जालोअजीवी । उववण्णो क्खु अस्स अंगुली अअस्स आअमो । १२३ Page #137 -------------------------------------------------------------------------- ________________ ਆow ਆਆਆਆਆਆ ਆਆ ਆਆ ਆਬਾਦੀ | सूअओ जह आवुत्तो भणादि । दुतिओ एसो जमसदणं पविसिअ पदिणिवुत्तो । (इदि पुरुसं मुंचदि) । पुरुसो (सालं पणमिअ) भट्टा ! कीदिसो मे आजीवो ? सालो एसो भट्टिणा अंगुलीअअमुल्लसंमिदो पसादो वि दाविदो । (इदि पुरुसाअ स्वं पअच्छदि) । पुरुसो (सपणामं परिगहिअ) भट्टा ! अणुग्गहिदो म्हि । सूअओ एसो णाम अणुग्गहो जे सूलादो अवदालिअ हत्थिक्कन्धे पदिट्ठाविदो । जाणुओ आवुत्त ! पारिदोशिअं कहेदि, तेण अंगुलीअएण भट्टिणो संमदेण होदव्वं । सालो ण तस्सि महारुहं रदणं भट्टिणो बहुमदं त्ति तक्केमि । तस्स दस्सणेण भट्टिणो अभिमदो जणो सुमराविदो । मुहुत्तअं पकिदिगंभीरो वि पज्जस्सुणअणो आसि । सूअओ सेविदं णाम आवुत्तेण । जाणुओ णं भणाहि । अस्स कए मच्छिआभत्तुणो त्ति । (इदि पुरुसं असूअआ पस्सेदि)। पुरुसो भट्टारअ ! इदो अद्धं तुम्हाणं सुमणोमुल्लं होदु । जाणुओ एत्तके जुज्जइ । सालो धीवर ! महत्तरो तुम पिअवअस्स दाणिं मे संवुत्तो । कादम्बरीसक्खिअं पढमसोहिदं इच्छीअदि । ता सोण्डिआपणं एव्व गच्छामो । (सव्वे गच्छन्दि ।) क्रमशः १२४ Page #138 -------------------------------------------------------------------------- ________________ iniiniinio कार्यनिवृत्तिः एकदैकस्मिन् महानगरे नगरस्थितानां सर्वेषां देवालयानां सर्वैरपि देवार्चकैः सम्भूय वेतनवृद्ध्यर्थं कार्यनिवृत्तिरुद्धोषिता / देवालयानां कार्यवाहका वेतनवृद्ध्यर्थं सम्मता नाऽऽसन् / / अतस्तैर्न किमपि कथितं प्रतिकृतं वा / किन्तु देवार्चका हि वेतनवृद्ध्यै कृतनिश्चया आसन, अतस्तेषु न कोऽपि देवालयेषु पूजार्थमन्यकार्यार्थं वा गच्छति स्म / तेन सर्वेऽपि देवालया पूजोपासनारहिता शून्या इव प्रतिभान्ति स्म।। अनया परिस्थित्या खिन्ना भक्तजना देवालयकार्यवाहके भ्यो विज्ञप्तवन्तो यत्, “कृपया सर्वेषामप्येतेषां वेतनवृद्धिं कुर्वन्तु / यावदप्यधिकं धनं दातव्यं स्याद् तावत् वयमेव दास्यामः / / देवालयानामियं परिस्थितिररमाभिर्विलोकयितुं न पार्यते' इति / श्रुत्वैतत् कार्यवाहकानां मनस्यपि तदेवोचिततया प्रतिभातम् / तैरपि परस्परं विमर्श कृत्वाऽर्चकानां वेतनवृद्धेरपेक्षा स्वीकृता, तेषामिच्छानुसारं च वेतनवृद्धिः कृताऽपि / एतज्ज्ञात्वा सर्वेऽपि देवार्चका 'विजयिनो वय’मिति मन्यमानाः सोत्साहं स्वस्वदेवालयेषु कार्यार्थं संलग्ना जाताः / भक्तजना अपि प्रसन्ना जाताः।। किन्तु, सर्वमप्येतत् प्रवृत्तं दृष्ट्वा सर्वेषामपि देवानां देवीनां च महान् खेदो जातः / ते सर्वेऽपि सम्भूताः परस्परं विमर्शार्थम् / बहु विचार्य च तैरपि कार्यनिवृत्तिसङ्केतः उद्घोषितोऽस्ति / / अस्या घटनाया शताब्यो व्यतीताः सन्ति किन्तु महानगरस्य नाऽन्यतमोऽपि जन एतज्जानाति / एषा कार्यनिवृत्तिरद्याऽपि वरीवर्ति // (सौजन्यं - 'कुमार' पत्रिका) * Strike international LADOORDAN