SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ चरितमानसकारेण तुलसीदासेनाऽपि सुन्दरकाण्डं हनूमते एव समर्पितम् । तस्यैव मङ्गलाचरणं हनूमत्परकमस्ति "अतुलितबलधामं हेमशैलाभदेह''मित्यादि । एतदुपरि अतुलितबलधामानमित्यस्य स्थाने द्वितीयायां धाममिति कथं निष्पन्नमित्यादाय व्याकरणस्खलनं क्रोशतां वैयाकरणानां, सन्ततुलसीदाससमर्थकानां विदुषां च मुष्टामुष्टि, कचाकचि युद्धमासीदासन्नमेव, तेन च वराकस्य चातकस्य सकलमप्यनुष्ठानं विरसायिष्यत इत्याशङ्कमानेन मया मध्य एव विषयान्तरकारि क्षेपकं विस्फोटितम् - "अरे, तत्तु निर्णेष्यते परस्तात्, पूर्वं मम तस्या जिज्ञासायाः किमप्यौषधं प्रयच्छथ यत्सुन्दरकाण्डं किमिति सुन्दरत्वेनाऽऽख्यायते? ।' एतदुपरि विविधा विनिगमनाः प्रादुरासन् । कश्चित्तत्र वर्णनसौन्दर्यं व्याख्यातवान्, कश्चित् सीतासौन्दर्यम् । अत्राऽपि भव्येशभट्टेनैव पणरक्षा विहिता । साक्रोशं स पृष्टवान् - "अरे वाग्भटाः ! क्षणं चिन्तयथ । यदि सुन्दरकाण्डं हनूमतः काण्डं तर्हि तस्य नामकरणमपि हनूमनदुपलक्ष्यकमेव भवेत् । इदं हनूमतो नाम “सुन्दर" इति ।" सर्वैः पृष्टम्-"हनूमतो नाम हनूमान्, वायुसूनुर्वा स्यात्, किमिति सुन्दरनामकः सः ?" भव्येश उक्तवान् “अरे वादविचक्षणाः ! हनूमान् इते तु वानराणां प्रजातिः, वायुसूनुरिति तस्य वंशवर्णनम् । तस्य नाम बाल्ये तन्मात्रा अञ्जनया "सुन्दर" इति स्नेहवशात् स्थापितमासीत् । अनेनैव सा तमाकारयति स्म । 'वायुपुत्र ! आयाहि, हनूमन् ! आयाहि' इत्यादिविशेषणैर्नाऽऽह्वयन्ति मातरः सुतान्, नाम्ना सम्बोधयन्तीति जानाना अपि विवदथ व्यर्थम् ।" नूतनामिमां सूचनां, नूतनं च ज्ञानं प्राप्य सर्वे वयं ज्ञानाञ्जनशलाकयोन्मीलितनेत्रानात्मनोऽन्वभवाम । चातकस्त्वरितं प्रतिप्राहरत् - "अरे, अहं तु सर्वमिदमजानाम् । तदैव तु पाठानुष्ठानेऽस्मिन् हनूमतश्चित्रं स्थापितमासीत्, तस्यैव स्तुतयो गीताः सर्वैरस्माभिः ।" किन्तु चातकस्य चर्चामिमां न कोऽप्यवितथाममन्यत । "किमति न व्याख्यातं सर्वमिदं पूर्वमेवे"ति तमुपालब्धं प्रवृत्ताः । अस्मत्सुहृत्समवाय एतदुपरि सुभृशं सन्तोषं प्राचीकटद् यत्संस्कृतविदुषां शास्त्रचर्चाया यः खलु महिमा "काव्यशास्त्रविनोदेन कालो गच्छति धीमता"मित्यादिवचनैर्देशे प्रासरत् स सुहृद्गोष्ठ्यामस्यां प्रत्यक्षं दृष्टोऽन्यभाषाविद्वद्भिरपि । एवंविधा एव शास्त्रचर्चाः, शास्त्रार्थाश्च देशमिममासेतुहिमाचलं गतासु पञ्चविंशति-त्रिंशच्छताब्दीषु संसक्तं, व्यापृतं, व्यस्तं च रक्षन्ति स्मेति चिन्तयन्त: सर्वे परावृत्ताः स्व-स्वगृहान् । [पीठाध्यक्षः, आधुनिकसंस्कृतपीठम्, जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः] प्रधानसम्पादकः भारती-संस्कृतमासिकस्य, C/८, पृथ्वीराज रोड, जयपुर-३०२००१ ५९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy