SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ (स्मरणम्) - दुनिश्चित हास्यम् मुनिधर्मकीर्तिविजयः अहं यदा नवमकक्ष्यायां पठन्नासम्, तदैक: शिक्षको गणितविषयमध्यापयितुमागच्छति स्म । स पुस्तकस्याऽऽधारं विनैव पाठयति स्म । तस्याऽध्यापनरीतिरप्यतीव सुन्दरा मधुरा चाऽऽसीत् । ततः सर्वेऽपि विद्यार्थिनस्तं विषयमतीव सारल्येनाऽवगच्छन्ति स्म । अतो यद्यपि स क्रुद्ध आसीत्, नितरामनुशासनाग्रह्यासीत्, कस्यचिदपि विद्यार्थिनो मर्यादाया उल्लङ्घनं न स्वीकरोति स्म, यः कश्चिदपि कुर्यात् तं कठोरतया ताडयति स्म, तथाऽपि स सर्वेष्वपि विद्यार्थिषु प्रिय आसीत् । मम कक्ष्यायामेको विद्यार्थ्यासीत् । सोऽतीवोद्धतो दुश्चेष्टकश्चाऽऽसीत् । स न स्वयं पठति स्म, अन्येषां पठनेऽपि विघ्नमुत्पादयति स्म । नवमकक्ष्यायां वारत्रयं निष्फलतां गतवान् सः । सर्वेऽपि विद्यार्थिनस्तस्याऽऽदेशानुवर्तिन आसन्; यतो यः कश्चिदपि तस्याऽऽज्ञामुल्लङ्घते तं स दुष्टस्ताडयति स्म, त्रासयति स्म च तथा, मर्मवचनै- स्तस्योपहासमपि करोति स्म । ततोऽनिच्छयाऽपि सर्वे विद्यार्थिनस्तमनुवर्तन्ते स्म । एकदा दुश्चेष्टकः स एव विद्यार्थी तेन शिक्षकेन ताडितः, अवमानपूर्वकं कक्ष्याया बहिनिष्कासितः सः । ततः कुपितः सन् दिनसप्तपर्यन्तं शालायां नाऽऽगतवान् । "शिक्षको यथा न कदाऽपि विस्मरेत्, तादृशः प्रतीकार: करणीय एव" इति मनसि सङ्कल्पं कृत्वा सप्ताहान्तरं कक्ष्यायां स आगतवान् । तेनैकं कूटयन्त्रं रचितम् । कक्ष्यायामेकः काष्ठमञ्च आसीत्, तस्योपर्येका स्यन्दिकाऽऽसीत्, तदुपर्युपविश्य शिक्षकाः पाठयन्ति स्म । दुश्चेष्टकेनतेन बालकेन काष्ठमञ्चस्य मध्यभागस्य काष्ठमुत्कीर्य तथा स्थापितं येन केनाऽपि न ज्ञायेत । पश्चात् स्यन्दिकायाः पदमेकमपि तथैवाऽधू भक्त्वा पूर्ववत् कृत्वा तत्र स्थापितवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy