SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ यथावसरं शिक्षक आगतवान् । स्वरीत्यनुरूपं दशक्षणमूर्ध्वं स्थित्वैव तेन पाठितम् । पश्चाद् मञ्चस्योपरि स आरोढुमुद्यतो जातस्तदा "किं भविष्यती'ति भयेन मे देहः कम्पितः । तदैव तेन छात्रेण विचित्रो ध्वनिः कृतः । 'कोऽस्ति' ? इत्याक्रोशेन शिक्षकोऽगर्जयत् । न केनाऽपि प्रत्युत्तरो दत्तः । ततः पीठफलकस्योपरि हस्तमास्फालयन् 'शृणु' इति साक्रोशं वदन् यावत् स्यन्दिकाया उपर्युपविशेत् तावदेव स्यन्दिकायाः पादो वियुक्तो जातः, ततः स मञ्च पतितवान्, तदा मञ्चस्योत्कीर्णं काष्ठमप्यधः पतितम् । तेन स शिक्षकोऽधोमुखतया भूमौ पतितः । ततस्तस्यैकः पादो भग्नः, हस्ताभ्यां, पृष्ठतः, मस्तकाच्च रुधिरं निर्गतम्, ततः स शिक्षको निश्चेष्ट इव जातः । तदा शिक्षकस्यैतादृशी स्थिति निरीक्ष्य तेन दुश्चेष्टकेन सह केचिदुद्धता विद्यार्थिन | उच्चैर्हसितवन्तः, केचिद् 'हा, हा' इति चीत्कारं कृतवन्तः, केचिदुत्थाय | शिक्षकस्य समीपं गतवन्तः, पश्चात् संमील्य चिकित्सालयं नीतवन्तः । तदा बालसुलभं हास्यं तु ममाऽपि जातमेव किन्तु तत्र विद्यार्थिनामविनीताचरणेन दुःखमपि समुद्भूतम् । यदा यदा विहारयात्रायां शालायां बालकान् पाठयन्तं स्यन्दिकास्थितं शिक्षकं पश्यामि, तदैष प्रसङ्गः स्मृतिपथमायाति । परसम्पत्समुत्कर्षदेषो दाक्षिण्यहीनता । द्वयमेतत् खलत्वस्य प्रथमं प्राणितं स्मृतम् ॥ __ [नलविलासे ७/१२] - ६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy