________________
-
D
परिवेषणं भवितेति । तदुपरि समागत्य सूचिताः सर्वे "अरे वैयाकरणखसूचयः, विक्लित्त्यनुकूलो व्यापारस्तु पूर्वमेव सम्पन्नोऽभूत्, साम्प्रतं तु मधुरसावगाहनात्मिका क्रिया सम्पाद्यते । शष्कुली(जलेबी इत्याख्या), रसगोलकं चेति द्वयमपि सिकता-रसे (चाशनी इति हिन्दी) मधुरीक्रियते ।"
__ घूटर झा सूचितवान् यद् "व्याकरणे न्यायेऽपि पाचनं केवलं विक्लित्त्यनुकूलो व्यापारो नाऽवधार्यते, अपि तु अधिश्रयणमारभ्याऽवश्रयणपर्यन्तं या क्रिया भवति सा पच्धातोरर्थः ।" ।
भव्येशेनोक्तम्, “पच्धातोरर्थः कोऽपि भवतु, अस्माभिस्तु शष्कुलीमाधुर्यमनुभूयैव भुज्धातोरर्थो ज्ञास्यते । स चाऽर्थो भवति गलबिलाध:करणानुकूलो व्यापारः । गलाबिलानि चाऽस्माकं शष्कुली प्रतीक्षन्ते । देवर्षेरस्य स्तुतेरनुसारं हनूमता तु मार्तण्डमण्डलं शष्कुलीकृतमभूत् । गलबिलाध:करणं तस्य न कृतं स्यात् । शष्कुलीवच्चर्वणं चिकीर्षितं स्यात् । वयं तु गलबिलाध:करणानन्तरमेव फलानुकूलं कार्यनिष्पादनं मस्यामहे ।"
तदनु भोज्यपेयादिवस्तूनि समानीयन्त । गलबिलाध:करणमप्यारब्धम् । किन्तु चर्चायाः प्रारम्भे समुत्थापितस्य प्रश्नस्योत्तरं न तदवधि केनचनाऽपि समधिगतमासीत् - "किमिति केवलं सुन्दरकाण्डपाठानुष्ठानान्येषु दिवसेषु क्रियते ? कः खलु, सुन्दरकाण्डीयो महिमा किं च तत्र सुन्दरत्वम् ?" । अत उपमन्युना पुनरप्यारब्धा सा चर्चा चातकं सम्बोधयता, "बन्धो ! वद साम्प्रतं, का वा विनिगमना सुन्दरकाण्डमात्रपारायणे तव?" चातकस्य चेतसि नाऽभूत्काचिदपि युक्तिः । अत एव केवलं तादृशानि वाक्यान्युदीरयितुमारब्धः सः "अरे ! सुन्दरकाण्डस्याऽखण्डपाठेन मनोवाञ्छितं त्वरितमधिगम्यत इत्यनुभूतचरम्" - इत्यादि । किन्तु नाऽभूत्तेन कस्याऽपि सन्तोषः । भार्गवेण विवक्षितं यत्तत्र सीतान्वेषणे साफल्यं लब्धमत: सुन्दरकाण्ड: साफल्याय निर्धारितः । किन्तु सर्वैजिज्ञासितं यद्रावणवधान्तरं तु सर्वविधं साफल्यं लब्धमतो युद्धकाण्डं सर्वाधिक सफलमुच्यतामित्यादि।
पर्यन्ततो भव्येशेन प्रतिपादितं यद् “वस्तुतो यदवधि वायुसूनोरञ्जनीनन्दनस्य हनूमत उपासना देशे प्राचलत्तदारभ्य सुन्दरकाण्डस्य महिमा प्रसृतः सर्वत्र, यतो हि वाल्मीक्युपज्ञं हनूमच्चरितं देशवासिनां हृदयानि सरभसमाचकर्ष । स्वामिभक्तेः, शौर्यस्य, विनयस्य, विविधानां सद्गुणानामाकरो भगवान् कपीश: कलौ सर्वाविधानि फलानि प्रयच्छति भक्तेभ्यः । तस्य च चरित्रस्थापकं वर्तते सुन्दरकाण्डम् । अतस्तदेव हनूमद्भक्तानां जीवातुभूतम् । हनूमत्काण्डत्वेन सुन्दरकाण्डपाठानुष्ठानानि हनूमद्भक्तैः स्वस्वसङ्कल्पपूर्तिकामैरारब्धानि ।"
तदिदं श्रुत्वा दिनकरशुक्लोऽपि समर्थयामास - "सत्यमिदम्, अत एव राम
५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org