________________
"गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ स्तुतिपरम्परायामवसितायामहमपि स्वकीयेन पद्येन कपीशं स्तोतुमारब्धवान् -
"शष्कुलीकृतमार्तण्डं कुसुमीकृतभूधरम्।
आसिद्धि कर्मयोगस्थं प्रणमामि कपीश्वरम् ॥" भव्येशेन पृष्टम् "अरे, कीदृशोऽयं श्लोकः ? कुत्रत्यमिदं स्तोत्रम् ?"
मयोत्तरितम् - "मदुपज्ञेयं मारुतेः स्तुतिः । बाल्ये मार्तण्डमण्डलमग्रसत हनूमानिति पौराणिकाख्यानं न स्मरत किम् ? अतः स शष्कुलीवत्मार्तण्डस्य भक्षयिता । द्रोणाचलं प्रसूनमिवोत्थाप्याऽऽनीतवान् स सञ्जीविन्याद्योषधिप्रापणोद्देशेन । अत एव कुसुमीकृतभूधरः । यदा हनूमान् द्रोणाचलं प्राप्तस्तदाऽनेके ओषधयः प्रकाशमाना दृष्टास्तेन । कुत्राऽस्ति सञ्जीवनीति न स बोद्धुमपारयत् । सुषेणेन सञ्जीवन्याः प्रत्यभिज्ञा तु नाऽभूद् व्याख्याता । अत एव यदि स पुनः प्रत्यावृत्य सञ्जीवनीपरिचयमप्राक्ष्यत्, तस्य यात्राव्ययः (टी.ए.डी.ए. इत्यादि) साधिकारमलप्स्यत तेन, यथाऽऽधुनिकैर्भारतीयैरधिकारिभिर्लभ्यते, पुनर्यात्रां कृत्वा सञ्जीवनीसमानयनस्य कार्यमकरिष्यत् सः, किन्त्वस्मिन् कार्यक्रमेऽपरो दिवसः समापतिष्यत् लक्ष्मणस्य च प्राणाः सङ्कटापन्ना अभविष्यन् । इदं "वर्क टू रुल" अभविष्यत् यथाप्रक्रियं कार्यकरणम्; किन्तु "रिज़ल्ट ओरिएंटेड वर्क" नैवाऽभविष्यत्, फलोन्मुखं कार्यनिष्पादनम्, यद्धि अद्यत्वे प्रशासकेभ्य उपदिश्यते । हनूमान् रिजल्ट ओरिएंटेड कार्यस्य प्रत्यक्षं प्रतिमानमभूत् । तस्य मानसिकमन्तर्द्वन्द्वं साधु चित्रितवान् वाल्मीकिः । अतो मया स्तूयते हनूमान् “आ सिद्धि कर्मयोगस्थ"मिति । यावत् परिणामो न लभ्यते, कार्यकारणं निष्फलमेव ।"
सर्वमिदं श्रुत्वा चकितचकिताः सर्वे वयस्या मत्प्रतिभा प्रशंसितुकामा एवाऽऽसन्, तदैव चातकपत्नी समागत्य प्रोक्तवती यदस्माभिरासनेषूपविश्य प्रसादग्रहणाय सन्नद्धैर्भाव्यम् । कतिपयक्षणानन्तरमेव भोज्य-लेह्य-पेयादि षड्रससम्पन्न प्रसादजातमुपलप्स्यते इति चिन्तयद्भिरस्माभिरासनानि तु सनाथीकृतानि किन्तु भोज्यवस्तूनि नाऽदृश्यन्त । किमित्ययं विलम्ब इति जिज्ञासायां सूचना समायाता यत्पाकागारे खाद्यविशेष एकः पूर्णताया निकटे एवाऽस्ति । उपमन्युश्रौतायनेन स्वकीयमनुमानमभिव्यक्तम् "एवम् । मन्ये पाचनमेव न सम्पन्नम् । अतो विलम्बः।" "किं भवति पाचनम्" - इति विषये प्रारब्धे भव्येशो व्याख्यातवान् यद् "विक्लित्त्यनुकूलो व्यापार: पच्धातोरर्थः । विक्लित्तिः पूर्णा न भवेत्, अतो विलम्बः ।" मया पाकागारं गत्वा दृष्टं यत् शष्कुली-रसगोलकादिकाः पदार्थाः शर्करारसे मज्जिताः सन्तो मधुरीक्रियन्ते स्म । अनुपदमेव
५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org