SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ समजायत यदा भार्गवेण सहासमुदीरितम् - "बन्धवः ! नाऽत्र किमप्याश्चर्यम् । सर्वेषु देशेषु मध्यकालीनाः पाण्डित्यप्रदर्शनात्मिकास्तादृश्यः प्रवृत्तयः समये समये प्रावर्तन्त । तादृशं युगं कदाचित् 'क्लासिकल'युगं, कदाचित् 'डेकेडेन्ट' युगमित्याद्यभिधानैराङ्ग्लभाषायामप्यभिधीयते स्म । आङ्ग्लभाषेतिहासेऽपि नव्यन्यायस्य नूतना अवताराः समये समये प्रादुरासन् । किं न श्रुतं भवता यत्तथाविधेन शास्त्रकारचूडामणिना डॉ. जानसन इत्याख्येन नव्यन्यायविधया पदार्थानां लक्षणं विवृण्वानेन 'किस' (kiss, चुम्बनम्) इत्यस्य लक्षणं कथं कृतमभूत् ? श्रूयताम् kiss is an anatomical juxtaposition of orabicularis Oris muscles in action of contraction - ओष्ठद्वयस्य परस्परसंसर्गानुकूलो व्यापारश्चुम्बनम् इति सरलतया कथनीयमासीत् तन्नव्यन्यायविधया तेनैवमुदीरितम् ।" एतदुपरि पुनः सर्वेषां रावणरवविनिन्दकोऽट्टहास उदतिष्ठत् । मया सर्वे प्रतिबोधिता यद् "ज्ञानमीमांसायाः सूक्ष्मविश्लेषणपराणीमान्यस्माकं शास्त्राणि कियन्महत्त्वामादधतीति जानाना अपि यूयं किमिति वाक्कलहं कुरुथ ?" भव्येशेनोत्तरितं यत् "तन्महत्त्वमासीन्मध्यकालिकम्, आधुनिककाले तु सर्वे कार्यव्यापृता व्यस्ताश्च तिष्ठन्ति, कुत्र तेषां तादृशोऽवकाश एवंविधेषु शब्दाडम्बरेषु समययापनस्य ? आधुनिकाः खलूपहसिष्यन्त्यस्मान् पुराणपथपथिका इत्यादिविशेषणैः ।' दिनकरशुक्लोऽवदत् - "क: खल्वस्मानुपहसितुं शक्नोति ? किं ते एवाऽधुनिकाः ? पश्यथ घूटर झा साहबम् । नव्यन्यायाध्यापकत्वेऽप्ययं सर्वदा कोट-पैंट-सफारी-सूट इत्यादि नूनतमपरिधानावृतो भ्राम्यति ।" घूटर झा खलु धौतादिपुरातनवस्त्राणि न परिदधातीति वयमजानीम । किन्तु भव्येशेनाऽसहमति प्रकटयता कथितम् - "अरे अल्पज्ञाः, परिधानेन किमाधुनिकत्वावच्छेदकावच्छिन्नता सिध्यति?" सर्वे वयं पृष्टवन्तः "तर्हि का परिभाषा आधुनिकतायाः?" भव्येशः प्रोक्तवान् - "आधुनिकत्वं तु वर्तमानत्वावच्छिन्नकालगतप्रघटनाविशेषजन्यचिन्तनानुकूलव्यापारसंवलिताऽन्तःकरणवृत्तिमत्त्वम् । चिन्तनेन वृत्तिभिश्चाऽऽधुनिकत्वं सिद्ध्यति न परिधानेन । आधुनिकाश्च सारग्राहिणी प्रवृत्तिमाद्रियन्ते ।" तदैव चातकेन विवादमञ्चे पुन:प्रवेशं कुर्वता प्रोक्तम् - "यदि भवतां सारग्राहिणी प्रवृत्तिर्वर्तते तर्हि जीवनाय सारभूतं मिष्टान्नं, शष्कुली-रसगोलकादिकं सम्पन्नमस्ति । पूर्णाहुतिश्च प्रवर्तिष्यते । सर्वैर्नीराजनाय सज्जीभूय समुत्थातव्यम् । सर्वे पारायणवाचकाः पुरोहिताश्च नीराजनसामग्रीमादाय मारुतिप्रतिमाभिमुखमायाताः ।" एतदुपरि सर्वे समुत्थाय वायुसूनोः शूरवीराग्रगण्यस्य हनूमतो नीराजनोपक्रमे समवायन्त । चातकस्तारस्वरेण मारुतेः सुललितं स्तवनमारभत - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy