________________
NOUGIESIEBIGEREI
प्रा. अभिराज राजेन्द्र मिश्रः . नूनं पृषोदरत्वात्
तव बन्धुता प्रसिद्धा, विपरीतलक्षणत्वात् । तव साधुताऽपि सिद्धा, नूनं पृषोदरत्वात् ॥१॥ वाग्घरिरसि प्रभो ! त्वं संसदि च सुध्युपास्यः । द्वन्द्वेऽप्यहो समर्थो, भूम्नेतरेतरत्वात् ॥२॥ दीर्घोऽस्यकरसवर्णे, जानासि राजनीतिम् । आस्यप्रयलसमता, सिद्धान्तभञ्जनत्वात् ॥३॥ सन्तीह ये कृदन्ताः कोऽर्थो नु तद्धितानाम् । अग्रेसर: क्रियायां, ध्रुवमात्मनेपदत्वात् ॥४॥ कर्मैव जीवनं तत्पुरुषोऽसि कर्मधारय । बहुव्रीहितां भजेथा, मुक्तोऽचिरं द्विगुत्वात् ॥५॥ लोकेषु बहुवचनता स्वजनेष्वपि द्विवचनः । नूनं त्वमेकवचनो न भवस्यभूतिमत्त्वात् ॥६॥ नो कर्म भाललेख्ने, हस्ते न सम्प्रदानम् । सम्बन्धमपि न हृदयेऽनुभवस्यपायसत्त्वात् ॥६॥ सन्धावपि प्रभो ! ते क्वचिदस्ति पूर्वरूपम् । पररुपता क्वचिद् वा, स्वार्थान्धजीवनत्वात् ॥८॥ फणिनाऽपि तेन भाष्यं कथमेव ते चरित्रम् ?। गूढोऽसि मादृशानां शब्देन्दुशेखरत्वात् ॥॥
.
.
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org