________________
पृथ्वीवन्दनम्
+
Da
डॉ. आचार्य रामकिशोर मिश्रः
पश्वी हि तां भगवती शिरसा नमामि |
विश्वम्भरां क्षितिमिलामचलामनन्तां, सर्वंसहां वसुमतीं धरिणिं धरित्रीम् । गोत्रां रसां मनसि यां वसुधां स्मरामि,
पृथ्वी हि तां भगवतीं शिरसा नमामि ॥१॥
(२)
अङ्गो यदा विचलितां न ररक्ष भूमि, तां कश्यपो जगति रक्षितवान् विशालाम् । तन्नामधारणधरा त्वभवत् स्थिरा या,
तां काश्यपी भगवतीं पृथिवीं नमामि ॥२॥
भूर्दुष्टभारचलिता ह्यभवद्यदानीं, दत्तं तदोरु च भुवे ऋषिकश्यपेन । तन्नामकीर्तिरभवद्धि ततश्च यस्याः,
उर्वी हि तां भगवतीं पृथिवीं नमामि ॥३॥
क्षोणिं महीं कुमवनिं च वसुन्धरां माम्, गां कुम्भिनी च विपुलामिह रनगर्भाम्, यां सागराम्बरधरां हृदि धारयामि, पृथ्वीं हि तां भगवती शिरसा नमामि ॥४॥
२९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २०११०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org