________________
-
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
..
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
पञ्चाशदधिकं द्विशतं रूप्यकाणि तस्य हस्ते आनन्दबाबुना दत्तम् ।
दश-दशरूप्यकाणां मूल्यपत्राणां गणने कश्चित् समयो व्यतीतः । शङ्कायां जातायां सत्यां पुनस्तेन गणनारम्भः कृतः, किन्तु मनसः समाधानं न जातम् । अतस्तेन पृष्टम् - महोदय ! भवान् कियन्ति रूप्यकाण्यदात् ?
पञ्चाशदधिकं शतम् । भवान् तु शिक्षकोऽस्ति, तथाऽपीयती महती स्खलना ?
स्खलना ? अनभिज्ञतां प्रदर्श्य आनन्दबाबुः कथयाञ्चकार-प्रायो न कदाऽपि मम : | क्षतिः संभवेत् !
भवता वेतनरूपेण मह्यं साधैकशतं रूप्यकाणि देयानि सन्ति, किन्तु क्षतिवशात् पञ्चाशदधिकं शतद्वयं रूप्यकाणि दत्तानि सन्ति, इत्युक्त्वा धनपालेन शतं रूप्यकाणि प्रतिददता आनन्दबाबुमहोदय उक्त:- अधिकानि दत्तान्येतानि शतं रूप्यकाणि गृह्णातु ।
तन्मध्याद् दशरूप्यकाणि प्रतिददता आनन्दबाबुना गदितम्-धनपाल ! तव नीतिमत्तागुणेन प्रसन्नोऽहं पारितोषिकरूपेणैतानि दशरूप्यकाणि तुभ्यं ददामि, गृहाण ।
महोदय ! नीतिमत्तायाः पारितोषिकं न स्यात् । दशरूप्यकाणि प्रतिददन् धनपाल: कथितवान् - नीतिमत्ता त्वस्माकं मूलधनमस्ति । तन्मूलस्य पारितोषिकं न ग्रहीतुं शक्यम् । इदानीं यदि कदाचिद् दशरूप्यकाणां स्थाने दशलक्षरूप्यकाण्यप्यभविष्यन् तॉपि मयैवंरीत्यैव भवते प्रत्यर्पितमभविष्यत् । तपस्विन्या मे जनन्याऽऽजीवनं शान्तिस्तु न लब्धा, किन्तु तस्या मृत्योः पश्चादपि तस्या आत्मा दुःखितः स्यात्तादृशं कार्यं तु नैव कुर्याम् ।
आनन्दबाबुस्त्वेतस्य निर्धनस्य बालकस्य वैभवं वीक्ष्याऽऽश्चर्यचकितः स्तब्धश्च जातः । तेनोक्तं - धनपाल ! मासद्वये पूर्णे सति यदि वेतनं न्यूनं भासेत्तदा कथये:, वेतनस्य वृद्धि करिष्याम्यहम् ।
"महोदय ! आभारं मन्ये" । धनपाल उक्तवान् - "यदि वेतनस्य वृद्धया सह मानवस्य मनुष्यत्वं नीतिमत्ता चाऽवद्धिष्यत तर्हि महानगरेष्वद्य मनुष्यत्वस्य नीतिमत्तायाश्च दुष्कालो नाऽद्रक्ष्यत । यदीयता वेतनेन मे कार्यं न्यूनं प्रतिभासेत तद्यधिकं कार्यं सूचनीयमुत मम वेतनात् पञ्चाशद् रूप्यकाणि न्यूनीकरणीयानि । न तत्र मे काऽपि बाधाऽस्ति । किन्त्वेवंरीत्या पारितोषिकस्य व्याजेन मह्यं रूप्यकाणि दत्त्वा मे मातुरात्मा येन दुःखितः स्यात्, तादृशमेकमपि कार्यं मया न कारणीयम्" ।
-
७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org