________________
___ 'लञ्चा ?' इति निशम्यैव स आनन्दबाबुः स्तब्धो जातः ।
प्रतिदिनं त्वया मे आपणात् शाकस्य क्रयणं करणीयं, तुभ्यमहं प्रतिदिनं पञ्चाशन्नाणकानि दास्यामि- इति कथयन्नासीत् । महोदय ! आजीवनं जननी मह्यं वक्ति स्म- एतादृशं धनं विषं कथ्यते, इति । विषं नेच्छाम्यहम् - धनपालो गदितवान् ।
स आनन्दबाबुः निनिमेषं तमेव पश्यन् स्थितः । धनपालस्तु स्वस्याऽतीते निमग्नो जातः । महोदय ! यदाऽहं लघुवयस्क आसं तदा शालाया एकेन शिक्षकेनाऽन्यस्य शिक्षकस्य द्विचक्रिकायाश्चक्रवेधनं (Puncture) विधातुमादिष्टम् । ततो मया तु तस्य शिक्षकस्य द्विचक्रिकायाः पश्चिमचक्रे चक्रवेधनं कृतम् । तत्कार्यकरणस्य रूप्यकद्वयं मह्यं दत्तं तेन । मया तु सानन्दं तद् रूप्यकद्वयं मात्रे दत्तम् । तदा जननी मां पृष्टवती- वत्स ! त्वयैतद् धनं कथं लब्धम् ? अहं सर्वमपि कथितवान् । तदा तत्क्षणमेव माता मे हस्तमात्मनो मस्तकस्योपरि स्थापयित्वा शपथेन बन्धिवती यद, "जीवने एतादृशं धनं न कदाऽप्यहं स्वीकरिष्यामी"ति । पश्चाद् व्याकृतम् - गच्छ, साम्प्रतमेव येन शिक्षकेनैतद् धनं दत्तं तस्मै प्रतिदेहि। एतादृशं धनं तु विषमस्ति ।
आनन्दबाबोः नयने आर्दीभूते । गद्गद्स्वरेण तेन पृष्टम् - 'तव जननी...'
धनपालः क्षणं तूष्णीं स्थितवान् । पश्चात् कष्टेनोक्तवान् - माता नाऽस्ति.... सा मृता... जनकस्तु मद्यं पीत्वेतस्ततोऽटति । जगत्यस्मिन्मे कोऽपि नाऽस्ति ।
वत्स ! कोऽपि न स्याद् यस्य तस्य कृपालुर्भगवान् स्यात् । नयनं प्रमाM आनन्दबाबुना प्रेम्णा पृष्टम् - कार्यारम्भाद् मासद्वयमतीतम्, तृतीयो मास: प्रारब्धः, तथाऽपि कथं त्वया वेतनं न याच्यते ?
महोदय ! नाऽहं याचकः । मात्रा कथितमस्ति - वत्स ! न कदाऽपि कस्याऽपि - समीपे याचना करणीया ।।
भो ! एतत्तु तेऽधिकारस्य धनमुच्यते । तथाऽपि.... न कदाऽप्यहं याचिष्ये । यदा भवान् दास्यति तदा ग्रहीष्यामि । किं ते धनस्याऽऽवश्यकता न भवति ? ।
महोदय ! धनस्याऽऽवश्यकता कस्य न स्यात् ? किन्तु धनस्य कृतेऽहं न मे स्वमानं हनिष्यामि । भवता यद्वतनं दास्यते तदहं निःशब्दं ग्रहीष्यामि । यदि द्वितीयदिने कार्यार्थमागच्छेयं IV-V तदा भवता दत्तं वेतनं मे मान्यमिति ज्ञेयम् ।
७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org