________________
कश्चिदपि कर्मकरः पञ्चाशदधिकशतं रूप्यकाणि तु गृह्णीयादेव, तथाऽपि स बालको धनस्य कृते कार्यं करोतीति आनन्दबाबोः चित्ते न प्रतिभातम् ।
__ "धनपाल !".... तस्य हस्ते दशरूप्यकाणि ददन् आनन्दबाबुः कथितवान् - किं त्वं पत्रशाकादिकमानेतुं शक्तः ?
__दशरूप्यकाणि स्यूतं च गृहीत्वा हसता तेन धनपालेन व्याकृतम् - महोदय ! धान्यं, क्रयाणकं, तैलघृतकुप्यः, चायकं, दुग्धं, कोफीद्रव्यं चेति यत्किमप्यानेयं तत् कथनीयम्, अहं : तमानेष्यामि । अहं तदर्थमतिरिक्तं भरणं (Extra Pay) न ग्रहीष्यामि ।
__ 'अतिरिक्तं भरण'मिति धनपालस्य मुखेन निशम्य आनन्दबाबुः चकितवान् । मासद्वये समाप्ते सत्यपि स बालको वेतनं न याचते, न च कार्यकरणे आलस्यमपि प्रदर्शयति । : कर्तव्यच्युतिस्तु तस्य स्वभावे एव नाऽस्ति, अपि त्वधिककार्यकरणेऽपि तस्योत्साहो विद्यते।
मलिनौ उपानहौ परिदधता तेनोक्तम् - 'महोदय !' अन्यत्किमप्यानेयं खलु ? यद्यानेयं तर्हि तदप्यानेष्याम्यहम् ।
न, न, अधुना त्वियत् पर्याप्तम् । ___ आनन्दबाबुः यत्र वसति स्म तत्रत्यान् बालकान् स आङ्ग्लभाषां पाठयति स्म । : विशेषवर्गमपि निःशुल्कं चालयति स्म सः । अन्यभवनसमुच्चयस्थिता बालकाः कदाचित् : कटाक्षमपि कुर्वन्ति स्म- महोदय ! अस्माभिरप्यस्मिन्नेव भवनसमुच्चये वासः कृतः स्यात्, : तर्हि....
'तर्हि यूयमपि नि:शुल्कमध्ययनं प्राप्नुयात !' पश्चाद् हसन् स आनन्दबाबुः पुनरपि वक्ति स्म- यदि यूयमपि बोर्डपरीक्षायामाङ्ग्लविषये सप्ततितोऽधिकान् गुणाङ्कान् प्राप्नुयात तर्हि युष्मानपि निःशुल्कं पाठयिष्यामि ।
साधैंकघण्टापर्यन्तं विद्यार्थिभ्योऽध्यापितम् आनन्दबाबुना । यावद् विद्यार्थिनः स्वस्वगृहं . गतवन्तस्तावदेव धनपाल आगच्छत् ।
दशरूप्यकाणि स्यूतं च प्रत्यर्पयन् क्रोधेन स उक्तवान् – महोदय ! इतः परमहं तस्य शाकविक्रेतुरापणान्न कदाऽपि शाकमानेष्यामि । जमालपुरविपणित आनेष्यामि, किन्तु तस्याऽऽपणात्तु नैव ।
'किं, तेन विक्रेत्रा किमपि कथितस्त्वम् ?'
'मह्यं स न रोचते' इति गृहद्वारस्य बहिर्दृष्टिं विधाय धनपाल: कथितवान् - ‘स मह्यं (14 लञ्चां ददाति' ।
७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org