________________
न्याय्यात
कथा
AARMA
प्रविचलन्ति पदं न धीराः
मुनिधर्मकीर्तिविजयः
"किं नामधेयं तव ?" - वृत्तपत्रिकाया निरीक्षणं कुर्वन् आनन्दबाबुः पृष्टवान् । "धनपालः" ।
"धन"..... क्षणं विस्मितवान् आनन्दबाबुः,-धनपालः ? द्वारि स्थितं मलिनजीर्णवसनधारिणं तं बालकं साश्चर्यं निरीक्षितवान् । अङ्गमावरीतुमावश्यकं वस्त्रमपि नाऽस्ति, उदरमेव साक्ष्यं पूरयति यद्, एतेन द्विवेभ्यो दिवसेभ्यो न किमपि भक्षितं स्यात्... तथाऽपि नाम्ना धनपालः ! किमेषा विधेर्वक्रता उताऽसन्तुलितसमाजस्य भयोत्पादिका स्थितिः ?
आसन्दादुत्थायाऽऽनन्दबाबुना स आहूतः । आसन्दे उपवेष्टुमिङ्गितं कृत्वा पृष्ट्वान् - वत्स ! ईदृशं मधुरं सुन्दरं च नाम केन दत्तम् ?
आसन्दस्योपरि स बालको नोपाविशत् । मनोहरमेतदासन्दस्य तल्पं मलिनं स्यात् तादृशं मलीमसं वस्त्रं मया परिहितमिति जानाति स्म सः । ततो नतमस्तकः स ऊर्ध्वमेव : स्थितः ।
वत्स ! त्वया मे प्रश्नस्योत्तरो न दत्तः । आसन्दे उपविशन् आनन्दबाबुः पृष्टवान्कार्यारम्भं कदा करिष्यसि ?
'अद्य प्रभृति' - गृहे सकृद् दृष्टिं प्रसार्योक्तवान् सः । किं वेतनं ग्रहीष्यसि ?
बालक आह- यत्किमपि देयम् । मम सेवा भवते रोचेत तदनन्तरं निर्णेतव्यं, मह्यं तु सेवा देया । का प्रायो मासद्वयमतीतम् । तथाऽपि आनन्दबाबुना वेतनस्य विषये न किमपि पृष्टं न
च तेन बालकेनाऽपि याचना कृता । EVER ई.स. १९७४ वर्षस्येयं घटनाऽस्ति । कर्णावतीनगरे पालडीमध्ये एकस्मिन् Idh भवनसमुच्चये (Society) स आनन्दबाबुः भाटकेन वसति स्म । तत्र त्रयाणां जनानां I.Y वस्त्राणां भाण्डानां च प्रक्षालनं तथा साधैकापवरकस्य परिमार्जनं - एतावत्कार्यार्थं यः
७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org