________________
भविष्यति" - इति वदन् स युवकस्तां पुटिकां तस्या हस्ते दत्तवान् । आश्चर्यचकिता सा स्त्री तं प्रत्यनिमेषं दृष्टवती । तं प्रत्याभारमभिव्यज्य सादरं तं भोजितवत्यपि ।
आत्मसन्तोषस्य हास्येन प्रफुल्लितः स युवको यथागतं प्रतिनिवृत्तवान् । मित्रैस्तु 'जडः' इति कृत्वा तस्योपहासः कृतः । किन्तु तस्य मुखे तु पूर्ववद् मधुरं स्मितमेव विलसति स्म। स सर्वानप्येकमेव कथयन्नासीत्- 'मया किमप्ययोग्यं तु नैवं कृतं किल?'
- इति ।
नीतिमत्ताया एतादृशमुदाहरणं जगत्समक्षमुपस्थापयन्नेष युवको न कश्चिदन्यः किन्तु भविष्यत्कालेऽमेरिकीयराष्ट्रप्रमुखपदमारूढः श्रीअब्राहमलिङ्कन आसीत् ।
नाऽस्त्यसद्भाषितं यस्य नाऽरित भङ्गो रणाङ्गणात् । नास्तीति याचके नाऽस्ति तेन रत्नवती क्षितिः ॥
[पद्मानन्दकृते वैराग्यशतके २८] ।
६९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org