________________
...
..............................
.
.
.
.
"अहो ! मम कियन्महत्पुण्यम् ! लोकोत्तरा भोगोपभोगसामग्री, तिस्त्रोऽपि मनोहरा: अनुवर्तिका विदग्धाश्च सहचर्यः, लोकेषु प्रकटा ख्यातिः !"
"ततोऽप्युत्कृष्टतरं भाग्यं तदा विस्फुरितं यदा भगवता सहस्त्रश: कोटिशो वा जनानां: मध्ये मम नामोच्चरितम् ।"
"मम संपूर्णेऽपि देशाटने स कालखण्ड: कदाऽपि विस्मृतिं न गमिष्यति, यदा यानपात्रे: क्षितिजं विलोकयन् स्थितो विचारितवानासम् - सर्वमित्वरमनित्यमशश्वच्च । तदा सहजोऽभूत-: पूर्वोऽपूर्वश्चाऽऽनन्दो मम चेतसः प्रत्येकं कोणे निबिडतया व्याप्त आसीत् । सर्वक्लेशचिन्ता-: दुःखेभ्यस्तदाऽहं वियुक्तोऽतीतश्चाऽभवम् । कीदृगाह्लादकारी स क्षण आसीत् ?"
"परं किं तमानन्दं स्थिरीकर्तुं नेच्छामि ? किमेवं क्षणिकेऽसारे एव वस्तुनि ममः रुचिः? कियन्तं वा कालं बद्धस्तिष्ठेयम् ?" इति चिन्तयन्नासीद वीरभद्रः कदाचित् ।
तदैव पञ्चाशद्वर्षीयस्य वीरभद्रस्य नप्ता रुदंस्तत्राऽऽयाति स्म - "पितामह ! मे: क्रीडासौधं भग्नम् " इति आरटन् ।
वीरभद्रो विचारयति स्म - "जगत्सर्वं क्रीडासौधमिव । न तच्छाश्वतम्" इति विचार्य: दृढं सङ्कल्प्य तिस्रोऽपि पत्नी: शिक्षयित्वा ताभिः सार्धं वीरभद्रः कुम्भगणधरपार्श्वे दीक्षां: गृहीत्वा साधुर्भवति स्म । जीवनं भावनाभिर्भावयित्वा कालं कृत्वा स्वर्ग याति स्म । अचिराच्च: मोक्षं प्रयास्यति ।
| कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितात् । त्रिषष्टिशलाकापुरुषचरितात् सङ्कलितैषा कथा ।
.
.
.
.
.
.
.
....
वदन्तु कतिचिद्धठात् खफछठेति वर्णाञ्छठा घटः पट इतीतरे पटु रटन्तु वाक्पाटवात् । वयं बकुलमञ्जरीगलदमन्दमाध्वीझरीधुरीणपदरीतिभिर्भणितिभिः प्रमोदामहे ॥
[सुभाषितरत्नभाण्डागारे]
..
..
९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org