________________
भव्येशो मध्य एव वारयन्नूचे - "तत्तु स्फुटमेव ! संस्कृतभाषा शब्दभाण्डागारेण समृद्धतमाऽस्तीति विश्वविदितो घण्टाघोषः । अत्र हि सहस्त्रशः सूर्यवाचकाः शब्दाः, शतशो मेघवाचकाः किन्त्वाङ्ग्लभाषायां सूर्यः ‘सन' Sun शब्दमृते, मेघश्च 'क्लाउड 'cloud' शब्दमृते केनाऽपि शब्देनाऽभिधातुं शक्यश्चेद्वदतु भार्गवः ।"
एतदुपरि भार्गवः प्रतिप्रहारं कुर्वाणः स्पष्टीकृतवान् “यच्छब्दसमृद्धिः पर्यायबाहुल्यं वा यासु भाषासु भवति तद् वैपुल्यस्य गौरवं तु प्रददाति, आरब्यादयोऽन्या अपि भाषास्तादृशीं समृद्धिमंशतो धारयन्ति किन्वेतस्याऽवाञ्छनीया परिणतिः सेयमपि भवति यत्तस्याः पण्डिताः केवलं शब्दाडम्बरमात्रं वैदुष्यस्य निकषं मन्वानाः शब्दशस्त्राणि प्रदर्श्य जनान् भाययन्त एव गर्वायन्ते, तत्त्वविमर्शो गौणतामापद्यते । श्रुतो मया भवादृशां विदुषां गोष्ठीषु मूर्धन्यानां विचक्षणानां शब्दाडम्बरप्रपञ्चः । ते हि स्वभाषणस्य सुदीर्घ प्रारम्भे मङ्गलाचरणे भूयांसं समयं यापयित्वा विदुषः सम्बोधयितुं स्वकीयं वैदुष्यं स्फोरयन्ति, "अयि सुधीवराः, सारस्वतसाधनावदातवदना; विविधशास्त्रावगाहनविमलमतयो, विद्वद्धौरेया, दिगन्तविश्रुतकीर्तयः पण्डितप्रकाण्डाः, कोविदमतल्लिका'' इत्यादिभिर्गिरिवरगुरुभिः पर्यायप्रयोगैः । यदि वराकाणां श्रोतृणामकारणसमयहत्यामकृत्वा “मान्याः सुधियः" इति सम्बोध्य स्वकीयं वक्तव्यं प्रारभेरंस्तर्हि का स्याद्धानिः ?"
तदिदं श्रुत्वा दूरे स्थितो हिन्दीप्राध्यापको दिनकरशुक्ल: सरभसमाकृष्टमात्मानमन्वभवत् । स समुपसृत्याऽसूचयद् यद् “गतशताब्द्याः प्रारम्भे हिन्दीविद्वत्स्वपि संस्कृतपण्डितानामयं शब्दास्फालनस्य सङ्क्रामको व्याधिः प्रासरत् । यः खलु कविर्गद्यकारो वा प्रौढानां पञ्चषप्रस्थगुरूणां शब्दाशिलाखण्डानां प्रहारेण स्वकीयां प्रौढिं प्रामाणयत्, स एवाऽऽचार्यत्वेन सममान्यत । अस्याः स्थितेरुपहासं कुर्वाणेन मदीयगुरुणा सकृत् "सरस्वती" नाम्न्यां मासिकपत्रिकायां स्वकीयं प्रकृतिवर्णनमित्थं प्रारब्धम् - "कल्य का दिष्ट था । ब्रघ्न की गभस्तियाँ खाङ्गण में उतरने लगी थीं।" वाक्यद्वयमिदं न कोऽपि बोद्धुमपारयत् । अहं संस्कृतेऽपि एम्.ए.परीक्षोत्तीर्णोऽस्मि । मया ते पृष्टाः "गुरुवर्याः अत्र हि "उतरने लगी थी" इति शब्दत्रयं विहाय न किमप्यवबुद्धं मया । कृपया बोधयन्तु केयं भाषाऽस्ति ।" ते सधिक्कारं प्रोचुः “अरे ! संस्कृते एम्. ए. भवसि किन्तु न जानासि "प्रत्यूषोऽहर्मुखं कल्यः" इति कल्यः प्रातःकालाय प्रयुज्यते, 'कालो दिष्टोऽप्यनेहाऽपि" इति दिष्टः समयवाची । “भास्कराहस्करब्रघ्नप्रभाकरविभाकराः" सर्वे सूर्यवाचिनः । गभस्तयो मरीचयः, खाङ्गणं गगनाङ्गणमिति सर्वं विस्मृतं किम् ?" अहं न्यवेदयम् - "गुरुवर्या ! यदि तदिदं स्फोरयितुं भवन्तो व्यलेखिष्यत् - "प्रात:काल का समय था, सूर्य की किरणें गगनाङ्गण में उतरने लगी थीं" तर्हि भवतां का हानिरभविष्यत् ?'' गुरुवर्यैरुत्तरं प्रत्तं यत "तदा भवादृशान्
-
८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org